सामग्री पर जाएँ

ऋग्वेदः सूक्तं ९.५१

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ९.५१ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ९.५० ऋग्वेदः - मण्डल ९
सूक्तं ९.५१
उचथ्य आङ्गिरसः
सूक्तं ९.५२ →
दे. पवमानः सोमः। गायत्री


अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ सृज ।
पुनीहीन्द्राय पातवे ॥१॥
दिवः पीयूषमुत्तमं सोममिन्द्राय वज्रिणे ।
सुनोता मधुमत्तमम् ॥२॥
तव त्य इन्दो अन्धसो देवा मधोर्व्यश्नते ।
पवमानस्य मरुतः ॥३॥
त्वं हि सोम वर्धयन्सुतो मदाय भूर्णये ।
वृषन्स्तोतारमूतये ॥४॥
अभ्यर्ष विचक्षण पवित्रं धारया सुतः ।
अभि वाजमुत श्रवः ॥५॥


सायणभाष्यम्

‘अध्वर्यो ' इति पञ्चर्चं सप्तविंशं सूक्तमाङ्गिरसस्योचथ्यस्यार्षं गायत्रं पवमानसोमदेवताकम् । तथा चानुक्रम्यते-' अध्वर्यो ' इति । गतः सूक्तविनियोगः ॥


अध्व॑र्यो॒ अद्रि॑भिः सु॒तं सोमं॑ प॒वित्र॒ आ सृ॑ज ।

पु॒नी॒हीन्द्रा॑य॒ पात॑वे ॥

अध्व॑र्यो॒ इति॑ । अद्रि॑ऽभिः । सु॒तम् । सोम॑म् । प॒वित्रे॑ । आ । सृ॒ज॒ ।

पु॒नी॒हि । इन्द्रा॑य । पात॑वे ॥१

अध्वर्यो इति । अद्रिऽभिः । सुतम् । सोमम् । पवित्रे । आ । सृज ।

पुनीहि । इन्द्राय । पातवे ॥१

हे “अध्वर्यो “अद्रिभिः ग्रावभिः “सुतम् अभिषुतं “सोमं “पवित्र “आ “सृज । एतदेव दर्शयति । “इन्द्राय इन्द्रस्य “पातवे पानाय “पुनीहि पावय ॥


दि॒वः पी॒यूष॑मुत्त॒मं सोम॒मिन्द्रा॑य व॒ज्रिणे॑ ।

सु॒नोता॒ मधु॑मत्तमम् ॥

दि॒वः । पी॒यूष॑म् । उ॒त्ऽत॒मम् । सोम॑म् । इन्द्रा॑य । व॒ज्रिणे॑ ।

सु॒नोत॑ । मधु॑मत्ऽतमम् ॥२

दिवः । पीयूषम् । उत्ऽतमम् । सोमम् । इन्द्राय । वज्रिणे ।

सुनोत । मधुमत्ऽतमम् ॥२

हे अध्वर्यवः यूयं “मधुमत्तमम् अतिशयेन मधुमन्तं “दिवः द्युलोकस्य “पीयूषम् अमृतम् “उत्तमं श्रेष्ठं “सोमं “वज्रिणे वज्रवते “इन्द्राय "सुनोत अभिषुणुत ॥


तव॒ त्य इ॑न्दो॒ अन्ध॑सो दे॒वा मधो॒र्व्य॑श्नते ।

पव॑मानस्य म॒रुत॑ः ॥

तव॑ । त्ये । इ॒न्दो॒ इति॑ । अन्ध॑सः । दे॒वाः । मधोः॑ । वि । अ॒श्न॒ते॒ ।

पव॑मानस्य । म॒रुतः॑ ॥३

तव । त्ये । इन्दो इति । अन्धसः । देवाः । मधोः । वि । अश्नते ।

पवमानस्य । मरुतः ॥३

हे “इन्दो सोम “तव संबन्धिनं “मधोः मदकरस्य “पवमानस्य पूयमानम् “अन्धसः अन्नम् । कर्मणि षष्ठी । “त्ये त इमे “देवाः इन्द्रादयः “मरुतः च “व्यश्नते व्याप्नुवन्ति प्राप्नुवन्तीत्यर्थः ।।


त्वं हि सो॑म व॒र्धय॑न्त्सु॒तो मदा॑य॒ भूर्ण॑ये ।

वृष॑न्त्स्तो॒तार॑मू॒तये॑ ॥४

त्वम् । हि । सो॒म॒ । व॒र्धय॑न् । सु॒तः । मदा॑य । भूर्ण॑ये ।

वृष॑न् । स्तो॒तार॑म् । ऊ॒तये॑ ॥४

त्वम् । हि । सोम । वर्धयन् । सुतः । मदाय । भूर्णये ।

वृषन् । स्तोतारम् । ऊतये ॥४

हे "सोम "सुतः अभिषुतः “त्वं “वर्धयन् देवान प्रवृद्धान् कुर्वन् “वृषन् कामान् वर्षन् “भूर्णये क्षिप्राय “मदाय “ऊतये रक्षणाय च “स्तोतारम् अभिगच्छसीत्यर्थः ॥


अ॒भ्य॑र्ष विचक्षण प॒वित्रं॒ धार॑या सु॒तः ।

अ॒भि वाज॑मु॒त श्रवः॑ ॥५

अ॒भि । अ॒र्ष॒ । वि॒ऽच॒क्ष॒ण॒ । प॒वित्र॑म् । धार॑या । सु॒तः ।

अ॒भि । वाज॑म् । उ॒त । श्रवः॑ ॥५

अभि । अर्ष । विऽचक्षण । पवित्रम् । धारया । सुतः ।

अभि । वाजम् । उत । श्रवः ॥५

हे “विचक्षण सोम "सुतः अभिषुतस्त्वं “पवित्रम् “अभि प्रति “धारया “अर्ष गच्छ। “उत अपि चास्माकं “वाजम् अन्नं “श्रव: कीर्तिं च “अभि क्षरेत्यर्थः॥ ॥ ८ ॥



टिप्पणी

द्वादशाहस्य नवममहः -- अध्वर्यो अद्रिभिस् सुतम् इति त्रिष्टुभो रूपेण प्रयन्ति। त्रैष्टुभम् एतद् अहः। सोमं पवित्र आ नय। पुनाहीन्द्राय पातवे॥ तव त्य इन्दो अन्धसा इत्य् अन्धस्वतीर् भवन्त्य् - अन्नं वा अन्धो - ऽन्नाद्यस्यैवावरुद्ध्यै। देवा मधोर् व्य् आशत। पवमानस्य मरुतः॥ इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति। दिवः पीयूषम् उत्तमम् इत्य् उत्तमो ह्य् एष त्र्यहः क्रियते यच् छन्दोमाः। तासु गायत्रम् उक्तब्राह्मणम्। - जै.ब्रा. ३.२०९


वैरूपम्

आशुभार्गवम्

मार्गीयवम्

सौमित्रम्

ऐटतम्

धुरासाकमश्वम्

विलम्बसौपर्णम्





मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.५१&oldid=299440" इत्यस्माद् प्रतिप्राप्तम्