सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ८/धुरासाकमश्वम्

विकिस्रोतः तः
धुरासाकमश्वम्.
धुरासाकमश्वम्.

अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ नय ।
पुनाहीन्द्राय पातवे ॥ १२२५ ॥ ऋ. ९.५१.१
तव त्य इन्दो अन्धसो देवा मधोर्व्याशत ।
पवमानस्य मरुतः ॥ १२२६ ॥
दिवः पीयूषमुत्तमं सोममिन्द्राय वज्रिणे ।
सुनोता मधुमत्तमं ॥ १२२७ ॥

५. धुरासाकमश्वम् ॥ साकमश्वः। गायत्री। पवमानस्सोमः॥
अध्वर्योऽ३। हौऽ३होऽ३१ ॥ द्रिभिस्सुताऽ३म् । हौऽ३होऽ३१इ ॥ सोमम्पवाऽ३इ । हौऽ३होऽ३१ ॥ त्रआनयाऽ३ । हौऽ३हो३१इ॥ पुनाहीन्द्राऽ३ । हौऽ३होऽ३१ ॥ यपातवाऽ३इ । हौऽ३होऽ३१२३४५इ ॥ डा ॥श्रीः॥ तवत्यआऽ३ । हौऽ३ होऽ३१॥ दोअन्धसाऽ३: । हौऽ३होऽ३१इ ॥ देवामधोऽ३ः। हौऽ३होऽ३१इ ॥ वियाशताऽ३ । हौऽ३होऽ३१इ ॥ पवमानाऽ३ । हौऽ३होऽ३१॥ स्यमरुतऽ३: । हौऽ३होऽ३१२३४५इ ॥ डा ॥श्रीः॥ दिवᳲपीयूऽ३ । हौऽ३होऽ३१ ॥ षमुत्तमाऽ३म् । हौऽ३होऽ३१इ ॥ सोममिन्द्राऽ३ । हौऽ३होऽ३१ ॥ यवज्रिणाऽ३इ । हौऽ३होऽ३१इ ॥ सुनोतामाऽ३ । हौऽ३होऽ३१ ॥ धुमत्तमाऽ३म् । हौऽ३होऽ३१२३४५इ ॥डा॥
दी १५. उत्. ना. मा. २३. वि. ॥१४५॥


[सम्पाद्यताम्]

टिप्पणी

दशरात्रस्य अष्टमेऽहनि माध्यन्दिनपवमानस्य स्तोमक्लृप्तिः -- अध्वर्यो अद्रिभिः सुतम्"इति गायत्री भवत्यह्नो धृत्यै गायत्र्यः सत्यस्त्रिष्टुभोरूपेण त्रैष्टुभं ह्येतदहः अभि सोमास आयव"इत्यभीति रथन्तरस्य रूपं बृहदिति बृहत उभयोः सह रूपमुपैत्युभौ हि वर्णावेतदहः धर्ता दिवः पवते कृत्व्यो रस"इत्यधृत इव वा एषस्त्र्यहो यद्धर्तेति धृत्या एव जगत्यस्सत्यस्त्रिष्टुभो रूपेण तस्मात् त्रिष्टुभो लोके क्रियन्ते गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम् वैरूपं भवति पशवो वै वैरूपं पशूनामवरुध्यै विरूपः संवत्सरो विरूपमन्नमन्नाद्यस्यावरुध्यै आशु भार्गवं भवति अहर्वा एतदव्लीयत तद्देवा आशुनाभ्यधिन्वंस्तदाशोराशुत्वम् मार्गीयवं भवति देवं वा एतं मृगयुरिति वदन्त्येतेन वै स उभयेषां पशूनामाधिपत्यमाश्नुतोभयेषां पशूनामाधिपत्यमश्नुते मार्गीयवेण तुष्टुवानः सौमित्रं भवति यदेव सौमित्रस्य ब्राह्मणम् ऐटतं भवति इटन् वा एतेन काव्योऽञ्जसा स्वर्गं लोकमपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः साकमश्वं भवति यदेव साकमश्वस्य ब्राह्मणम् तदु धुरां सामेत्याहुः प्राणा वै धुरः प्राणानामवरुध्यै विलम्बसौपर्णं भवति आत्मा वा एष सौपर्णानां यदष्टमेऽहनि पक्षावेतावभितो भवतो ये सप्तमनवमयोर्वीव वा अन्तरात्मा पक्षौ लम्बते यदन्तरात्मा पक्षौ विलम्बते तस्माद्विलम्बसौपर्णम् स्वर्गस्य लोकस्य समष्ट्यै सौपर्णं क्रियते - तांब्रा. १४.९.१

अथ धुरां साम द्रवदिळं राथन्तरम्। तस्माद् राथन्तरे ऽहन् क्रियते। छन्दांसि वै धुरः। यातयामान इवैते यच् छन्दोमाः। तद् यद् अत्र धुरां साम क्रियते तेनैव छन्दोमा धूर्वन्तश् छन्दस्वन्तो ऽयातयामानः क्रियन्ते। अथो प्राणा वै धुरः। पशवो धुरः। प्राणेष्व् एव तत् पशुषु प्रतितिष्ठति। - जै.ब्रा. ३.२१०