सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ८/सौमित्रम्

विकिस्रोतः तः
सौमित्रम्
सौमित्रम्.

अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ नय ।
पुनाहीन्द्राय पातवे ॥ १२२५ ॥ ऋ. ९.५१.१
तव त्य इन्दो अन्धसो देवा मधोर्व्याशत ।
पवमानस्य मरुतः ॥ १२२६ ॥
दिवः पीयूषमुत्तमं सोममिन्द्राय वज्रिणे ।
सुनोता मधुमत्तमं ॥ १२२७ ॥


३. सौमित्रम् । सुमित्रः। गायत्री। पवमानस्सोमः॥
अध्वर्योअद्रिभिस्सुताऽ३मे ॥ सोमम्पवित्रे । आऽ२१२३ । नयाऽ३४३ ॥ पू७२३ना ॥ हीन्द्राऽ२ओऽ२३ । यपोवा। ताऽ५वोऽ६”हाइ । श्रीः ॥ तवत्यइन्दोअन्धसाऽ३ए ॥ देवामधोर्वि। आऽ२१२३ । शताऽ३४३ ॥ पाऽ२३वा ॥ मानाऽ२ओऽ२३ । स्यमोवा । रूऽ५तोऽ६”हाइ । श्रीः ॥ दिवᳲपीयूषमुत्तमाऽ३मे ॥ सोममिन्द्राय । वाऽ२१२३ । ज्रिणाऽ३४३इ ॥ सूऽ२३नो ॥ तामाऽ२ओऽ२३ । धुमोवा । ताऽ५मोऽ६”हाइ ॥
दी. १४. उत् . ३. मा. ११. द. ॥१४३॥


[सम्पाद्यताम्]

टिप्पणी

दशरात्रस्य अष्टमेऽहनि माध्यन्दिनपवमानस्य स्तोमक्लृप्तिः -- अध्वर्यो अद्रिभिः सुतम्"इति गायत्री भवत्यह्नो धृत्यै गायत्र्यः सत्यस्त्रिष्टुभोरूपेण त्रैष्टुभं ह्येतदहः अभि सोमास आयव"इत्यभीति रथन्तरस्य रूपं बृहदिति बृहत उभयोः सह रूपमुपैत्युभौ हि वर्णावेतदहः धर्ता दिवः पवते कृत्व्यो रस"इत्यधृत इव वा एषस्त्र्यहो यद्धर्तेति धृत्या एव जगत्यस्सत्यस्त्रिष्टुभो रूपेण तस्मात् त्रिष्टुभो लोके क्रियन्ते गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम् वैरूपं भवति पशवो वै वैरूपं पशूनामवरुध्यै विरूपः संवत्सरो विरूपमन्नमन्नाद्यस्यावरुध्यै आशु भार्गवं भवति अहर्वा एतदव्लीयत तद्देवा आशुनाभ्यधिन्वंस्तदाशोराशुत्वम् मार्गीयवं भवति देवं वा एतं मृगयुरिति वदन्त्येतेन वै स उभयेषां पशूनामाधिपत्यमाश्नुतोभयेषां पशूनामाधिपत्यमश्नुते मार्गीयवेण तुष्टुवानः सौमित्रं भवति यदेव सौमित्रस्य ब्राह्मणम् ऐटतं भवति इटन् वा एतेन काव्योऽञ्जसा स्वर्गं लोकमपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः साकमश्वं भवति यदेव साकमश्वस्य ब्राह्मणम् तदु धुरां सामेत्याहुः प्राणा वै धुरः प्राणानामवरुध्यै विलम्बसौपर्णं भवति आत्मा वा एष सौपर्णानां यदष्टमेऽहनि पक्षावेतावभितो भवतो ये सप्तमनवमयोर्वीव वा अन्तरात्मा पक्षौ लम्बते यदन्तरात्मा पक्षौ विलम्बते तस्माद्विलम्बसौपर्णम् स्वर्गस्य लोकस्य समष्ट्यै सौपर्णं क्रियते - तांब्रा. १४.९.१

अथ सौमित्रं, भ्रातृव्यहा सेन्द्रं साम। हन्ति द्विषन्तं भ्रातृव्यम् आस्येन्द्रो हवं गच्छति य एवं वेद। - जै.ब्रा. ३.२१०