सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ८/ऐटतम्
अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ नय ।
पुनाहीन्द्राय पातवे ॥ १२२५ ॥ ऋ. ९.५१.१
तव त्य इन्दो अन्धसो देवा मधोर्व्याशत ।
पवमानस्य मरुतः ॥ १२२६ ॥
दिवः पीयूषमुत्तमं सोममिन्द्राय वज्रिणे ।
सुनोता मधुमत्तमं ॥ १२२७ ॥
४. ऐटतम् ॥ इटन् काव्यः । गायत्री। पवमानस्सोमः॥
अध्व। एआध्वा ॥ र्योअद्रि । भाऽ३इः । द्राऽ२इभाऽ२३४औहोवा। सूऽ२३४ताम्।। सोमाम्पाऽ२३४वी॥ त्रआऽ३। त्राऽ२आऽ२३४औहोवा। नाऽ२३४२या॥ पुनाहाऽ२३४इन्द्रा॥ यपाऽ३। याऽ२पाऽ२३४औहोवा ॥ ताऽ२३४वे ॥श्रीः॥ तव । एतावा ॥ त्यइन्दो ।
आऽ३ । दोऽ२आऽ२३४औहोवा । धाऽ२३४साः ॥ देवामाऽ२३४धोः ॥ वियाऽ३ । वाऽ२याऽ२३४औहोवा ॥ शाऽ२३४ता ॥ पवामाऽ२३४ना ॥ स्यमाऽ३ । स्याऽ२माऽ२३४औहोवा ॥ रूऽ२३४ताः ॥ श्रीः ॥ दिवः । एदाइवाः ॥ पीयूषम् । ऊऽ३ । षाऽ२मूऽ२३४औहोवा। ताऽ२३४माम् ॥ सोमामाऽ२३४इन्द्रा ॥ यवाऽ३ । याऽ२वाऽ२३४औहोवा । ज्रीऽ२३४णे ॥ सुनोताऽ२३४मा ॥ धुमाऽ३ । धूऽ२माऽ२३४औहोवा ॥ ताऽ२३४माम् ॥
दी. २५. उत् . न. मा. ३०. वौ. ॥१४४॥
टिप्पणी
दशरात्रस्य अष्टमेऽहनि माध्यन्दिनपवमानस्य स्तोमक्लृप्तिः -- अध्वर्यो अद्रिभिः सुतम्"इति गायत्री भवत्यह्नो धृत्यै गायत्र्यः सत्यस्त्रिष्टुभोरूपेण त्रैष्टुभं ह्येतदहः अभि सोमास आयव"इत्यभीति रथन्तरस्य रूपं बृहदिति बृहत उभयोः सह रूपमुपैत्युभौ हि वर्णावेतदहः धर्ता दिवः पवते कृत्व्यो रस"इत्यधृत इव वा एषस्त्र्यहो यद्धर्तेति धृत्या एव जगत्यस्सत्यस्त्रिष्टुभो रूपेण तस्मात् त्रिष्टुभो लोके क्रियन्ते गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम् वैरूपं भवति पशवो वै वैरूपं पशूनामवरुध्यै विरूपः संवत्सरो विरूपमन्नमन्नाद्यस्यावरुध्यै आशु भार्गवं भवति अहर्वा एतदव्लीयत तद्देवा आशुनाभ्यधिन्वंस्तदाशोराशुत्वम् मार्गीयवं भवति देवं वा एतं मृगयुरिति वदन्त्येतेन वै स उभयेषां पशूनामाधिपत्यमाश्नुतोभयेषां पशूनामाधिपत्यमश्नुते मार्गीयवेण तुष्टुवानः सौमित्रं भवति यदेव सौमित्रस्य ब्राह्मणम् ऐटतं भवति इटन् वा एतेन काव्योऽञ्जसा स्वर्गं लोकमपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः साकमश्वं भवति यदेव साकमश्वस्य ब्राह्मणम् तदु धुरां सामेत्याहुः प्राणा वै धुरः प्राणानामवरुध्यै विलम्बसौपर्णं भवति आत्मा वा एष सौपर्णानां यदष्टमेऽहनि पक्षावेतावभितो भवतो ये सप्तमनवमयोर्वीव वा अन्तरात्मा पक्षौ लम्बते यदन्तरात्मा पक्षौ विलम्बते तस्माद्विलम्बसौपर्णम् स्वर्गस्य लोकस्य समष्ट्यै सौपर्णं क्रियते - तांब्रा. १४.९.१
अथेळतं त्रिणिधनं सवनानां क्लृप्त्यै। एतद् ध वै समृद्धं यद् गायत्रं त्रिणिधनम्। इळन् काव्य स्वर्गकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। स इमम् एव लोकं प्रथमेन निधनेनाभ्यारोहद्, अन्तरिक्षं द्वितीयेन, अमुं तृतीयेन। तान् इमांस् त्रीन् लोकान् अभ्यारोहत्। ततो वै स स्वर्गे लोके प्रत्यतिष्ठत्। तद् एतत् स्वर्ग्यं प्रतिष्ठा साम। गच्छति स्वर्गं लोकं, प्रति स्वर्गे लोके तिष्ठति य एवं वेद। यद् व् इळन् काव्यो ऽपश्त् तस्माद् ऐळतम् इत्य् आख्यायते। - जै.ब्रा. ३.२१०
ऊहगानस्य साम्नि त्रयः स्तोत्रीयाः भवन्ति। प्रत्येकस्य स्तोत्रीयस्य पञ्च भक्तयः भवन्ति - ते यथा प्रस्तावः, उद्गीथः, प्रतिहारः, उपद्रवः एवं निधनम् । साम्नः आरम्भिकभागः प्रस्तावभक्तिः भवति, अन्तिमभागः निधनभक्तिः उच्यते । तयोर्मध्ये उद्गीथ, प्रतिहार एवं उपद्रवाः भवन्ति। ऊहगाने ये सामानि सन्ति, तेषु प्रायः प्रथम एवं द्वितीये स्तोत्रीये निधनभक्तिः न भवति, तृतीये स्तोत्रीये एव निधनभक्तिः भवति। किन्तु अस्मिन् साम्नि त्रयेषु अपि स्तोत्रीयेषु निधनत्रयाः विद्यमानाः सन्ति, यथा प्रथमस्तोत्रीये ता२३४वे निधनमस्ति, द्वितीेयस्तोत्रीये- रू२३४ताः, तृतीय अथवा अन्तिमस्तोत्रीये ता२३४साम्। एवं प्रकारेण स्त्रोत्रीय त्रये निधनत्रयस्य विधानत्वात् त्रिणिधनं नाम्ना प्रसिध्यते।।