सामग्री पर जाएँ

ऋग्वेदः सूक्तं ९.९५

विकिस्रोतः तः
← सूक्तं ९.९४ ऋग्वेदः - मण्डल ९
सूक्तं ९.९५
प्रस्कण्वः काण्वः
सूक्तं ९.९६ →
दे. पवमानः सोमः। त्रिष्टुप्


कनिक्रन्ति हरिरा सृज्यमानः सीदन्वनस्य जठरे पुनानः ।
नृभिर्यतः कृणुते निर्णिजं गा अतो मतीर्जनयत स्वधाभिः ॥१॥
हरिः सृजानः पथ्यामृतस्येयर्ति वाचमरितेव नावम् ।
देवो देवानां गुह्यानि नामाविष्कृणोति बर्हिषि प्रवाचे ॥२॥
अपामिवेदूर्मयस्तर्तुराणाः प्र मनीषा ईरते सोममच्छ ।
नमस्यन्तीरुप च यन्ति सं चा च विशन्त्युशतीरुशन्तम् ॥३॥
तं मर्मृजानं महिषं न सानावंशुं दुहन्त्युक्षणं गिरिष्ठाम् ।
तं वावशानं मतयः सचन्ते त्रितो बिभर्ति वरुणं समुद्रे ॥४॥
इष्यन्वाचमुपवक्तेव होतुः पुनान इन्दो वि ष्या मनीषाम् ।
इन्द्रश्च यत्क्षयथः सौभगाय सुवीर्यस्य पतयः स्याम ॥५॥


सायणभाष्यम्

‘कनिक्रन्ति' इति पञ्चर्चं दशमं सूक्तं कण्वपुत्रस्य प्रस्कवस्यार्षम् । तथानुक्रम्यते--- कनिक्रन्ति प्रस्कण्वः' इति । पूर्ववच्छन्दोदेवते । गतो विनियोगः ॥


कनि॑क्रंति॒ हरि॒रा सृ॒ज्यमा॑नः॒ सीद॒न्वन॑स्य ज॒ठरे॑ पुना॒नः ।

नृभि॑र्य॒तः कृ॑णुते नि॒र्णिजं॒ गा अतो॑ म॒तीर्ज॑नयत स्व॒धाभिः॑ ॥१

कनि॑क्रन्ति । हरिः॑ । आ । सृ॒ज्यमा॑नः । सीद॑न् । वन॑स्य । ज॒ठरे॑ । पु॒ना॒नः ।

नृऽभिः॑ । य॒तः । कृ॒णु॒ते॒ । निः॒ऽनिज॑म् । गाः । अतः॑ । म॒तीः । ज॒न॒य॒त॒ । स्व॒धाभिः॑ ॥१

कनिक्रन्ति । हरिः । आ । सृज्यमानः । सीदन् । वनस्य । जठरे । पुनानः ।

नृऽभिः । यतः । कृणुते । निःऽनिजम् । गाः । अतः । मतीः । जनयत । स्वधाभिः ॥१

“सृज्यमानः “आ समन्ताद्विसृज्यमानोऽभियूयमाणः “हरिः हरितवर्णः सोमः “कनिक्रन्ति पुनःपुनः शब्दायते । क्रन्दतेर्यङ्लुकि तिपीडभावे ‘ दाधर्ति दर्धर्ति इत्यादिना निपातनादभ्यासस्य निगागमः । अभ्यस्तस्वरः । तथा “पुनानः पूयमानः “वनस्य वननीयस्य द्रोणकलशस्य “जठरे “सीदन् उपविशन् शब्दायते । किंच “नृभिः कर्मनेतृभिर्ऋत्विग्भिः “यतः संयतः सोमः “गाः गोविकारान् क्षीरादीन्याच्छादयन् “निर्णिजम् आत्मनो रूपं “कृणुते ग्रहादिषु करोति । “अतः अस्मै सोमाय “मतीः मननीयाः स्तुतीः “स्वधाभिः हविर्भिः सह “जनयत स्तोतारः अजनयन्। झस्यान्तादेशाभावः छान्दसः। यद्वा । हे स्तोतारः अस्मै सोमाय स्तुतीर्जनयत उत्पादयत । कुरुतेति यावत्॥


हरिः॑ सृजा॒नः प॒थ्या॑मृ॒तस्येय॑र्ति॒ वाच॑मरि॒तेव॒ नावं॑ ।

दे॒वो दे॒वानां॒ गुह्या॑नि॒ नामा॒विष्कृ॑णोति ब॒र्हिषि॑ प्र॒वाचे॑ ॥२

हरिः॑ । सृ॒जा॒नः । प॒थ्या॑म् । ऋ॒तस्य॑ । इय॑र्ति । वाच॑म् । अ॒रि॒ताऽइ॑व । नाव॑म् ।

दे॒वः । दे॒वाना॑म् । गुह्या॑नि । नाम॑ । आ॒विः । कृ॒णो॒ति॒ । ब॒र्हिषि॑ । प्र॒ऽवाचे॑ ॥२

हरिः । सृजानः । पथ्याम् । ऋतस्य । इयर्ति । वाचम् । अरिताऽइव । नावम् ।

देवः । देवानाम् । गुह्यानि । नाम । आविः । कृणोति । बर्हिषि । प्रऽवाचे ॥२

“सृजानः सृज्यमानः “हरिः हरितवर्णः सोमः “ऋतस्य सत्यभूतस्य “पथ्यां पथि भवां “वाचं दैवीम् “इयर्ति प्रेरयति । तत्र दृष्टान्तः । “अरितेव जनांस्तीरं प्रापयन्नाविकः “नावं यथा प्रेरयति तद्वत् । ‘ऋ गतौ । जौहोत्यादिकः । ‘ अर्तिपिपर्त्योः ० इत्यभ्यासस्येत्वम् । ततः “देवः दीप्यमानः सोमः "देवानाम् इन्द्रादीनां “गुह्यानि अन्तर्हितानि “नाम नामानि शरीराणि “प्रवाचे प्रकर्षेण वाचयित्रे स्तोत्रे “बर्हिषि यज्ञे “आविष्कृणोति स्तोतुमाविष्करोति ॥


अ॒पामि॒वेदू॒र्मय॒स्तर्तु॑राणाः॒ प्र म॑नी॒षा ई॑रते॒ सोम॒मच्छ॑ ।

न॒म॒स्यंती॒रुप॑ च॒ यंति॒ सं चा च॑ विशंत्युश॒तीरु॒शंतं॑ ॥३

अ॒पाम्ऽइ॑व । इत् । ऊ॒र्मयः॑ । तर्तु॑राणाः । प्र । म॒नी॒षाः । ई॒र॒ते॒ । सोम॑म् । अच्छ॑ ।

न॒म॒स्यन्तीः॑ । उप॑ । च॒ । यन्ति॑ । सम् । च॒ । आ । च॒ । वि॒श॒न्ति॒ । उ॒श॒तीः । उ॒शन्त॑म् ॥३

अपाम्ऽइव । इत् । ऊर्मयः । तर्तुराणाः । प्र । मनीषाः । ईरते । सोमम् । अच्छ ।

नमस्यन्तीः । उप । च । यन्ति । सम् । च । आ । च । विशन्ति । उशतीः । उशन्तम् ॥३

“अपामिव यथोदकानाम् “ऊर्मयः त्वरन्ते । “इत् इति पूरणः । तद्वत् “तर्तुराणाः कर्मणि देवान् स्तोतुं त्वरमाणाः । ‘तुर त्वरणे' । जौहोत्यादिकः । यङ्लुगन्तस्य शानचि रूपम् । अभ्यासस्यावर्णश्च रेफादेशश्छान्दसः । अभ्यस्तस्वरः। तादृशा ऋत्विजः “मनीषाः मनस ईशित्रीः स्तुतीः “सोममच्छ सोमं प्रति “प्र “ईरते प्रेरयन्ति। “नमस्यन्तीः नमस्यन्त्यः सोमं पूजयन्त्यः सत्यः तम् “उप “यन्ति “च उपगच्छन्ति तमेव “सं यन्ति “च । ‘ चवायोगे प्रथमा' इति न निघातः । ततः “उशतीः कामयमानाः स्तुतयः “उशन्तं कामयमानं सोमम् “आ “विशन्ति “च ॥


तं म॑र्मृजा॒नं म॑हि॒षं न साना॑वं॒शुं दु॑हंत्यु॒क्षणं॑ गिरि॒ष्ठां ।

तं वा॑वशा॒नं म॒तयः॑ सचंते त्रि॒तो बि॑भर्ति॒ वरु॑णं समु॒द्रे ॥४

तम् । म॒र्मृ॒जा॒नम् । म॒हि॒षम् । न । सानौ॑ । अं॒शुम् । दु॒ह॒न्ति॒ । उ॒क्षण॑म् । गि॒रि॒ऽस्थाम् ।

तम् । वा॒व॒शा॒नम् । म॒तयः॑ । स॒च॒न्ते॒ । त्रि॒तः । बि॒भ॒र्ति॒ । वरु॑णम् । स॒मु॒द्रे ॥४

तम् । मर्मृजानम् । महिषम् । न । सानौ । अंशुम् । दुहन्ति । उक्षणम् । गिरिऽस्थाम् ।

तम् । वावशानम् । मतयः । सचन्ते । त्रितः । बिभर्ति । वरुणम् । समुद्रे ॥४

“मर्मजानं यष्टृभिः परिचर्यमाणं "महिषं “न महिषाख्यं मृगमिव "सानौ समुच्छ्रिते देशे वर्तमानम् “उक्षणं कामानां सेक्तारं “गिरिष्ठाम् अभिषवार्थं ग्रावसु निष्ठितं “तं तादृशं प्रसिद्धम् “अंशुं सोमं “दुहन्ति ऋत्विजो दुहते । ‘ ग्रावाणो वत्सा ऋत्विजो दुहन्ति' (तै. सं. ६.२.११.४ ) इति तैत्तिरीयब्राह्मणम् । “तं तादृशं “वावशानं कामयमानं सोमं “मतयः मन्तव्याः स्तुतयः “सचन्ते समवयन्ति । सेवन्त इति यावत् । ततः “त्रितः त्रिषु स्थानेषु वर्तमान इन्द्रः “वरुणं शत्रूणां निवारकमेनं सोमं “समुद्रे अन्तरिक्षे “बिभर्ति शत्रुवधार्थं धारयति । यद्वा । त्रितस्त्रिषु स्थानेषु द्रोणाधवनीयपूतभृदाख्येषु कलशेषु ततो विततः सोमः शत्रूणां निवारकमिन्द्रं द्युलोके बिभर्ति पोषयति ॥


इष्य॒न्वाच॑मुपव॒क्तेव॒ होतुः॑ पुना॒न इं॑दो॒ वि ष्या॑ मनी॒षां ।

इंद्र॑श्च॒ यत्क्षय॑थः॒ सौभ॑गाय सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥५

इष्य॑न् । वाच॑म् । उ॒प॒व॒क्ताऽइ॑व । होतुः॑ । पु॒ना॒नः । इ॒न्दो॒ इति॑ । वि । स्य॒ । म॒नी॒षाम् ।

इन्द्रः॑ । च॒ । यत् । क्षय॑थः । सौभ॑गाय । सु॒ऽवीर्य॑स्य । पत॑यः । स्या॒म॒ ॥५

इष्यन् । वाचम् । उपवक्ताऽइव । होतुः । पुनानः । इन्दो इति । वि । स्य । मनीषाम् ।

इन्द्रः । च । यत् । क्षयथः । सौभगाय । सुऽवीर्यस्य । पतयः । स्याम ॥५

हे "इन्दो सोम “वाचं स्तुतिम् “इष्यन् प्रेरयन् “होतुः “उपवक्तेव यथाध्वर्युः प्रतिगरं कुर्वन् प्रोत्साहयति तद्वत् स्तोतॄणां शंसनाय प्रोत्साहं कुर्वन् “पुनानः पूयमानस्त्वं “मनीषां बुद्धि “वि “ष्य विमुञ्च । किंतु बुद्धिं धनप्रदानाभिमुखीं कुरु । किंच “यत् यदा “इन्द्रश्च त्वं च सह यज्ञे “क्षथथः निवसथः तदा स्तोतारो वयं “सौभगाय सौभाग्याय स्याम । किंच “सुवीर्यस्य शोभनवीर्योपेतस्य धनस्य “पतयः स्वामिनः “स्याम भवेम ॥ ॥ ५ ॥

टिप्पणी

९.९५.२ हरिः ।सृजानः पथ्याम् ऋतस्य इति

बर्हि में सोम एक ऐसी 'ऋतस्य पथ्या’ की सृष्टि करने वाला तथा अभिव्यक्ति (वाक्) को प्रेरित करने वाला कहा गया जिसमें वह देवों के गुह्य नामों को प्रकट करता है। - बर्हिशब्दस्य विवेचनम्

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.९५&oldid=340913" इत्यस्माद् प्रतिप्राप्तम्