सामग्री पर जाएँ

ऋग्वेदः सूक्तं ९.७९

विकिस्रोतः तः
← सूक्तं ९.७८ ऋग्वेदः - मण्डल ९
सूक्तं ९.७९
कविर्भार्गवः।
सूक्तं ९.८० →
दे. पवमानः सोमः। जगती।


अचोदसो नो धन्वन्त्विन्दवः प्र सुवानासो बृहद्दिवेषु हरयः ।
वि च नशन्न इषो अरातयोऽर्यो नशन्त सनिषन्त नो धियः ॥१॥
प्र णो धन्वन्त्विन्दवो मदच्युतो धना वा येभिरर्वतो जुनीमसि ।
तिरो मर्तस्य कस्य चित्परिह्वृतिं वयं धनानि विश्वधा भरेमहि ॥२॥
उत स्वस्या अरात्या अरिर्हि ष उतान्यस्या अरात्या वृको हि षः ।
धन्वन्न तृष्णा समरीत ताँ अभि सोम जहि पवमान दुराध्यः ॥३॥
दिवि ते नाभा परमो य आददे पृथिव्यास्ते रुरुहुः सानवि क्षिपः ।
अद्रयस्त्वा बप्सति गोरधि त्वच्यप्सु त्वा हस्तैर्दुदुहुर्मनीषिणः ॥४॥
एवा त इन्दो सुभ्वं सुपेशसं रसं तुञ्जन्ति प्रथमा अभिश्रियः ।
निदंनिदं पवमान नि तारिष आविस्ते शुष्मो भवतु प्रियो मदः ॥५॥


सायणभाष्यम्

‘ अचोदसः' इति पञ्चर्चं द्वादशं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘ अचोदसः' इत्यनुक्रान्तम् । गतो विनियोगः ।


अ॒चो॒दसो॑ नो धन्वं॒त्विंद॑वः॒ प्र सु॑वा॒नासो॑ बृ॒हद्दि॑वेषु॒ हर॑यः ।

वि च॒ नश॑न्न इ॒षो अरा॑तयो॒ऽर्यो न॑शंत॒ सनि॑षंत नो॒ धियः॑ ॥१

अ॒चो॒दसः॑ । नः॒ । ध॒न्व॒न्तु॒ । इन्द॑वः । प्र । सु॒वा॒नासः॑ । बृ॒हत्ऽदि॑वेषु । हर॑यः ।

वि । च॒ । नश॑न् । नः॒ । इ॒षः । अरा॑तयः । अ॒र्यः । न॒श॒न्त॒ । सनि॑षन्त । नः॒ । धियः॑ ॥१

अचोदसः । नः । धन्वन्तु । इन्दवः । प्र । सुवानासः । बृहत्ऽदिवेषु । हरयः ।

वि । च । नशन् । नः । इषः । अरातयः । अर्यः । नशन्त । सनिषन्त । नः । धियः ॥१

“अचोदसः अचोदना अनन्यप्रेरिताः “इन्दवः सोमाः “नः अस्माकं “प्र “धन्वन्तु प्रगच्छन्तु । धन्वतिर्गतिकर्मा। कुत्र। “बृहद्दिवेषु प्रभूतदीप्तिषु यागेषु निमित्तेषु । अथवा बृहद्दिवकुलजेषु मध्ये । न इति संबन्धः । कीदृशा इन्दवः । “सुवानासः सूयमानाः "हरयः हरितवर्णाः । किंच “नः अस्मभ्यं ये च “इषः अन्नस्य “अरातयः अदातारः सन्ति ते “च “वि “नशन् विनश्यन्तु । तथा “अर्यः अरयोऽपि “नशन्त विनश्यन्तु। “सनिषन्त संभजन्तु च “नो “धियः अस्मदीयानि कर्माणि देवा अस्मत्प्रियभूता वा ॥


प्र णो॑ धन्वं॒त्विंद॑वो मद॒च्युतो॒ धना॑ वा॒ येभि॒रर्व॑तो जुनी॒मसि॑ ।

ति॒रो मर्त॑स्य॒ कस्य॑ चि॒त्परि॑ह्वृतिं व॒यं धना॑नि वि॒श्वधा॑ भरेमहि ॥२

प्र । नः॒ । ध॒न्व॒न्तु॒ । इन्द॑वः । म॒द॒ऽच्युतः॑ । धना॑ । वा॒ । येभिः॑ । अर्व॑तः । जु॒नी॒मसि॑ ।

ति॒रः । मर्त॑स्य । कस्य॑ । चि॒त् । परि॑ऽह्वृतिम् । व॒यम् । धना॑नि । वि॒श्वधा॑ । भ॒रे॒म॒हि॒ ॥२

प्र । नः । धन्वन्तु । इन्दवः । मदऽच्युतः । धना । वा । येभिः । अर्वतः । जुनीमसि ।

तिरः । मर्तस्य । कस्य । चित् । परिऽह्वृतिम् । वयम् । धनानि । विश्वधा । भरेमहि ॥२

“प्र “धन्वन्तु प्रगच्छन्तु “नः अस्माकम् “इन्दवः सोमाः “मदच्युतः मदस्राविणः । “वा अथवा। किंचेत्यर्थः। “धना धनान्यपि प्र धन्वन्तु । “येभिः यैः सोमैः “अर्वतः बलवतः शत्रोः समीपं “जुनीमसि जुनीमः प्राप्नुमः । “कस्य “चित् कस्यापि “मर्तस्य मनुष्यस्य प्रबलस्य "परिह्वृतिं परितो बाधां “तिरः तिरस्कुर्वन्तो “वयं “धनानि गवादिरूपाणि “विश्वधा सर्वदा “भरेमहि बिभृयाम ॥


उ॒त स्वस्या॒ अरा॑त्या अ॒रिर्हि ष उ॒तान्यस्या॒ अरा॑त्या॒ वृको॒ हि षः ।

धन्व॒न्न तृष्णा॒ सम॑रीत॒ ताँ अ॒भि सोम॑ ज॒हि प॑वमान दुरा॒ध्यः॑ ॥३

उ॒त । स्वस्याः॑ । अरा॑त्याः । अ॒रिः । हि । सः । उ॒त । अ॒न्यस्याः॑ । अरा॑त्याः । वृकः॑ । हि । सः ।

धन्व॑न् । न । तृष्णा॑ । सम् । अ॒री॒त॒ । तान् । अ॒भि । सोम॑ । ज॒हि । प॒व॒मा॒न॒ । दुः॒ऽआ॒ध्यः॑ ॥३

उत । स्वस्याः । अरात्याः । अरिः । हि । सः । उत । अन्यस्याः । अरात्याः । वृकः । हि । सः ।

धन्वन् । न । तृष्णा । सम् । अरीत । तान् । अभि । सोम । जहि । पवमान । दुःऽआध्यः ॥३

“उत अपि च "सः सोमः “स्वस्याः "अरात्याः स्वीयस्य शत्रोः “अरिः अभिगन्ता हननाय । “उत अपि च “सः सोमः “अन्यस्याः अस्मदीयायाः “अरात्याः अस्मच्छत्रोः “वृको “हि हिंसकः खलु । अरातिशब्दः स्त्रीलिङ्गोऽप्यस्ति । अथ प्रत्यक्षकृतः । “धन्वन्न “तृष्णा । धन्व निरुदको देशः । तस्मिन् स्थितस्य तृष्णेव सा यथा तं “समरीत प्राप्नोति तद्वत् “तान् उभयविधान् शत्रून् “जहि ॥


दि॒वि ते॒ नाभा॑ पर॒मो य आ॑द॒दे पृ॑थि॒व्यास्ते॑ रुरुहुः॒ सान॑वि॒ क्षिपः॑ ।

अद्र॑यस्त्वा बप्सति॒ गोरधि॑ त्व॒च्य१॒॑प्सु त्वा॒ हस्तै॑र्दुदुहुर्मनी॒षिणः॑ ॥४

दि॒वि । ते॒ । नाभा॑ । प॒र॒मः । यः । आ॒ऽद॒दे । पृ॒थि॒व्याः । ते॒ । रु॒रु॒हुः॒ । सान॑वि । क्षिपः॑ ।

अद्र॑यः । त्वा॒ । ब॒प्स॒ति॒ । गोः । अधि॑ । त्व॒चि । अ॒प्ऽसु । त्वा॒ । हस्तैः॑ । दु॒दु॒हुः॒ । म॒नी॒षिणः॑ ॥४

दिवि । ते । नाभा । परमः । यः । आऽददे । पृथिव्याः । ते । रुरुहुः । सानवि । क्षिपः ।

अद्रयः । त्वा । बप्सति । गोः । अधि । त्वचि । अप्ऽसु । त्वा । हस्तैः । दुदुहुः । मनीषिणः ॥४

हे सोम “ते तव सः “परमः उत्तमोंऽशो “दिवि दिवः “नाभा नाभौ द्युलोकस्य नाभिस्थानीये देशे । अथवा नाभौ वृष्ट्यादेर्बन्धके दिवि द्युलोके। वर्तते “य “आददे आदत्ते हविर्देवतारूपः सन् । “ते तव द्युलोकस्थांशस्यावयवाः “पृथिव्याः “सानवि समुच्छ्रिते देशे पर्वतादिप्रदेशे “क्षिपः क्षिप्ताः । सन्तः “रुरुहुः रोहन्ति । “त्वा त्वां द्युलोकस्थसोमांशभूतम् “अद्रयः ग्रावाणः “बप्सति भक्षयन्ति । बप्सतिरत्तिकर्मा । कुत्र । “गोरधि “त्वचि । अधीति सप्तम्यर्थानुवादी । आनडुहेऽधिषवणचर्मणीत्यर्थः। यद्यपि इदानींतनाः कृष्णाजिनेऽभिषुण्वन्ति न गोचर्मणि तथापि तस्मिन् सोमो मीयते क्रयार्थम् । तथा च सति यस्मिन् मिमीते तस्याधिप्रवणचर्म इति सूत्रात् मानसाधनस्यैव गोचर्मणः अधिषवणचर्मत्वाभिधानादविरोधः । “त्वा त्वां तथा “अप्सु वसतीवरीषु “दुदुहुः दुहन्ति । अद्भिराप्लाव्य दुहन्तीत्यर्थः । यद्वा । अप्सूदकेषु रसेषु निमित्तेषु दुदुहुः दुहन्ति । कैः साधनैः। "हस्तैः । 'हस्तो हन्तेः ' (निरु. १. ७) इति निरुक्तम् । के। “मनीषिणः मेधाविनोऽध्वर्य्वादयः ॥


ए॒वा त॑ इंदो सु॒भ्वं॑ सु॒पेश॑सं॒ रसं॑ तुंजंति प्रथ॒मा अ॑भि॒श्रियः॑ ।

निदं॑निदं पवमान॒ नि ता॑रिष आ॒विस्ते॒ शुष्मो॑ भवतु प्रि॒यो मदः॑ ॥५

ए॒व । ते॒ । इ॒न्दो॒ इति॑ । सु॒ऽभ्व॑म् । सु॒ऽपेश॑सम् । रस॑म् । तु॒ञ्ज॒न्ति॒ । प्र॒थ॒माः । अ॒भि॒ऽश्रियः॑ ।

निद॑म्ऽनिदम् । प॒व॒मा॒न॒ । नि । ता॒रि॒षः॒ । आ॒विः । ते॒ । शुष्मः॑ । भ॒व॒तु॒ । प्रि॒यः । मदः॑ ॥५

एव । ते । इन्दो इति । सुऽभ्वम् । सुऽपेशसम् । रसम् । तुञ्जन्ति । प्रथमाः । अभिऽश्रियः ।

निदम्ऽनिदम् । पवमान । नि । तारिषः । आविः । ते । शुष्मः । भवतु । प्रियः । मदः ॥५

पूर्वत्र ‘ अद्रयस्त्वां बप्सति' इत्युक्तं तदेवोच्यते । हे “इन्दो सोम “एव एवा.... क्रियमाणप्रकारेण “ते तव “सुभ्वं शोभनभवनं "सुपेशसम् । पेश इति रूपनाम । सुरूपं “रसं “प्रथमाः प्रथममेव । यद्वा । प्रथम इति मुख्यनाम। “प्रथमाः मुख्याः। ग्रावाणोऽध्वर्यवो वा “अभिश्रियः अभिश्रयन्तः सन्तः “तुञ्जन्ति प्रेरयन्ति । हे “पवमान “निदंनिदम् अस्मन्निन्दकं सर्वमपि शत्रुं “नि “तारिषः विनाशय । “ते तव “शुष्मः बलकरः “प्रियः प्रियभूतः “मदः मदकरो रसः “आविः “भवतु ।। ॥ ४ ॥

टिप्पणी

९.७९.१ अचोदसो नो धन्वन्तु इति

ग्रामगेयः ५५५ । सोमयागे उदयनीयेष्ट्यां औद्गात्रम्।

द्र. उदयनोपरि टिप्पणी

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.७९&oldid=223183" इत्यस्माद् प्रतिप्राप्तम्