ऋग्वेदः सूक्तं ९.३९

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.३८ ऋग्वेदः - मण्डल ९
सूक्तं ९.३९
बृहस्पतिराङ्गिरसः।
सूक्तं ९.४० →
दे. पवमानः सोमः। गायत्री।


आशुरर्ष बृहन्मते परि प्रियेण धाम्ना ।
यत्र देवा इति ब्रवन् ॥१॥
परिष्कृण्वन्ननिष्कृतं जनाय यातयन्निषः ।
वृष्टिं दिवः परि स्रव ॥२॥
सुत एति पवित्र आ त्विषिं दधान ओजसा ।
विचक्षाणो विरोचयन् ॥३॥
अयं स यो दिवस्परि रघुयामा पवित्र आ ।
सिन्धोरूर्मा व्यक्षरत् ॥४॥
आविवासन्परावतो अथो अर्वावतः सुतः ।
इन्द्राय सिच्यते मधु ॥५॥
समीचीना अनूषत हरिं हिन्वन्त्यद्रिभिः ।
योनावृतस्य सीदत ॥६॥


सायणभाष्यम्

‘ आशुरर्ष' इति षडृचं पञ्चदशं सूक्तमाङ्गिरसस्य बृहन्मतेरार्षं गायत्रं पवमानसोमदेवताकम् । ‘ आशुरर्ष बृहन्मतिः' इत्यनुक्रान्तम् । गतो विनियोगः ॥


आ॒शुर॑र्ष बृहन्मते॒ परि॑ प्रि॒येण॒ धाम्ना॑ ।

यत्र॑ दे॒वा इति॒ ब्रव॑न् ॥१

आ॒शुः । अ॒र्ष॒ । बृ॒ह॒त्ऽम॒ते॒ । परि॑ । प्रि॒येण॑ । धाम्ना॑ ।

यत्र॑ । दे॒वाः । इति॑ । ब्रव॑न् ॥

आशुः । अर्ष । बृहत्ऽमते । परि । प्रियेण । धाम्ना ।

यत्र । देवाः । इति । ब्रवन् ॥

हे "बृहन्मते महामते सोम “प्रियेण देवानां प्रियतमेन “धाम्ना शरीरेण धारया “आशुः शीघ्रः सन् "परि “अर्ष परिगच्छ । “यत्र “देवाः इन्द्रादयो वर्तन्ते “इति “ब्रवन ब्रुवन् उच्चारयन् । तां दिशं गच्छामीति ब्रुवन्नित्यर्थः ॥


प॒रि॒ष्कृ॒ण्वन्ननि॑ष्कृतं॒ जना॑य या॒तय॒न्निषः॑ ।

वृ॒ष्टिं दि॒वः परि॑ स्रव ॥२

प॒रि॒ऽकृ॒ण्वन् । अनिः॑ऽकृतम् । जना॑य । या॒तय॑न् । इषः॑ ।

वृ॒ष्टिम् । दि॒वः । परि॑ । स्र॒व॒ ॥

परिऽकृण्वन् । अनिःऽकृतम् । जनाय । यातयन् । इषः ।

वृष्टिम् । दिवः । परि । स्रव ॥

“अनिष्कृतम् असंस्कृतं यजमानं स्थानं वा “परिष्कृण्वन् संस्कुर्वन् “जनाय यागकर्त्रे “इषः अन्नानि “यातयन् निर्गमयन् “दिवः अन्तरिक्षात् “वृष्टिं “परि “स्रव ॥


सु॒त ए॑ति प॒वित्र॒ आ त्विषिं॒ दधा॑न॒ ओज॑सा ।

वि॒चक्षा॑णो विरो॒चय॑न् ॥३

सु॒तः । ए॒ति॒ । प॒वित्रे॑ । आ । त्विषि॑म् । दधा॑नः । ओज॑सा ।

वि॒ऽचक्षा॑णः । वि॒ऽरो॒चय॑न् ॥

सुतः । एति । पवित्रे । आ । त्विषिम् । दधानः । ओजसा ।

विऽचक्षाणः । विऽरोचयन् ॥

“सुतः अभिषुतः सोमः सन् "पवित्रे दशापवित्रे । “आ इत्यनर्थकः । "ओजसा बलेन शीघ्रम् “एति गच्छति । कीदृशः सन् । “त्विषिं दीप्तिं “दधानः धारयन् “विचक्षाणः सर्वं पश्यन् “विरोचयन् दीपयंश्च । किम् । देवानिति शेषः ।।


अ॒यं स यो दि॒वस्परि॑ रघु॒यामा॑ प॒वित्र॒ आ ।

सिंधो॑रू॒र्मा व्यक्ष॑रत् ॥४

अ॒यम् । सः । यः । दि॒वः । परि॑ । र॒घु॒ऽयामा॑ । प॒वित्रे॑ । आ ।

सिन्धोः॑ । ऊ॒र्मा । वि । अक्ष॑रत् ॥

अयम् । सः । यः । दिवः । परि । रघुऽयामा । पवित्रे । आ ।

सिन्धोः । ऊर्मा । वि । अक्षरत् ॥

“अयं “सः सोमः “पवित्रे “आ सिच्यमान इति शेषः । “सिन्धोः जलस्राविण्याः “ऊर्मा ऊर्मौ संघाते “व्यक्षरत् विविधं क्षरति । स इत्युक्तं क इत्याह । “यो “दिवस्परि द्युलोकस्योपरि “रघुयामा लघुगमनो देवप्राप्तौ सोऽयमिति संबन्धः ॥


आ॒विवा॑सन्परा॒वतो॒ अथो॑ अर्वा॒वतः॑ सु॒तः ।

इंद्रा॑य सिच्यते॒ मधु॑ ॥५

आ॒ऽविवा॑सन् । प॒रा॒ऽवतः॑ । अथो॒ इति॑ । अ॒र्वा॒ऽवतः॑ । सु॒तः ।

इन्द्रा॑य । सि॒च्य॒ते॒ । मधु॑ ॥

आऽविवासन् । पराऽवतः । अथो इति । अर्वाऽवतः । सुतः ।

इन्द्राय । सिच्यते । मधु ॥

"सुतः अभिषुतः सोमः “परावतः । दूरनामैतत् । दूरस्थान् “अथो अपि च “अर्वावतः अन्तिकस्थांश्च देवान् “आविवासन् । रसेन परिचरणायेत्यर्थः । “इन्द्राय इन्द्रार्थं "मधु मधुसदृशः सोमः “सिच्यते ॥


स॒मी॒ची॒ना अ॑नूषत॒ हरिं॑ हिन्वं॒त्यद्रि॑भिः ।

योना॑वृ॒तस्य॑ सीदत ॥६

स॒म्ऽई॒ची॒नाः । अ॒नू॒ष॒त॒ । हरि॑म् । हि॒न्व॒न्ति॒ । अद्रि॑ऽभिः ।

योनौ॑ । ऋ॒तस्य॑ । सी॒द॒त॒ ॥

सम्ऽईचीनाः । अनूषत । हरिम् । हिन्वन्ति । अद्रिऽभिः ।

योनौ । ऋतस्य । सीदत ॥

“समीचीनाः सम्यगञ्चिताः संगताः स्तोतारः “अनूषत स्तुवन्ति । किंच सोमं “हरिं हरितवर्णं “हिन्वन्ति प्रेरयन्ति गमयन्ति “अद्रिभिः ग्रावभिः । यस्मादेवं तस्मात् “ऋतस्य यज्ञस्य “योनौ स्थाने “सीदत निषण्णा भवत हे देवाः ॥ ॥ २९ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.३९&oldid=181643" इत्यस्माद् पुनः प्राप्तिः