ऋग्वेदः सूक्तं ९.४०
← सूक्तं ९.३९ | ऋग्वेदः - मण्डल ९ सूक्तं ९.४० बृहन्मतिराङ्गिरसः |
सूक्तं ९.४१ → |
दे. पवमानः सोमः। गायत्री |
पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः ।
शुम्भन्ति विप्रं धीतिभिः ॥१॥
आ योनिमरुणो रुहद्गमदिन्द्रं वृषा सुतः ।
ध्रुवे सदसि सीदति ॥२॥
नू नो रयिं महामिन्दोऽस्मभ्यं सोम विश्वतः ।
आ पवस्व सहस्रिणम् ॥३॥
विश्वा सोम पवमान द्युम्नानीन्दवा भर ।
विदाः सहस्रिणीरिषः ॥४॥
स नः पुनान आ भर रयिं स्तोत्रे सुवीर्यम् ।
जरितुर्वर्धया गिरः ॥५॥
पुनान इन्दवा भर सोम द्विबर्हसं रयिम् ।
वृषन्निन्दो न उक्थ्यम् ॥६॥
सायणभाष्यम्
‘पुनानः' इति षडृचं षोडशं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘पुनानः' इत्यनुक्रान्तम् । गतो विनियोगः ॥
पु॒ना॒नो अ॑क्रमीद॒भि विश्वा॒ मृधो॒ विच॑र्षणिः ।
शु॒म्भन्ति॒ विप्रं॑ धी॒तिभिः॑ ॥१
पु॒ना॒नः । अ॒क्र॒मी॒त् । अ॒भि । विश्वाः॑ । मृधः॑ । विऽच॑र्षणिः ।
शु॒म्भन्ति॑ । विप्र॑म् । धी॒तिऽभिः॑ ॥१
पुनानः । अक्रमीत् । अभि । विश्वाः । मृधः । विऽचर्षणिः ।
शुम्भन्ति । विप्रम् । धीतिऽभिः ॥१
“पुनानः पूयमानः “विचर्षणिः द्रष्टा सोमः “विश्वाः सर्वान् “मृधः हिंसकान् शत्रून् “अभि “अक्रमीत् अतिक्रान्तवान् । तं “विप्रं मेधाविनं “धीतिभिः कर्मभिरभिषवादिभिः स्तुतिभिर्वा “शुम्भन्ति दीपयन्ति अलंकुर्वन्ति ॥
आ योनि॑मरु॒णो रु॑ह॒द्गम॒दिन्द्रं॒ वृषा॑ सु॒तः ।
ध्रु॒वे सद॑सि सीदति ॥२
आ । योनि॑म् । अ॒रु॒णः । रु॒ह॒त् । गम॑त् । इन्द्र॑म् । वृषा॑ । सु॒तः ।
ध्रु॒वे । सद॑सि । सी॒द॒ति॒ ॥२
आ । योनिम् । अरुणः । रुहत् । गमत् । इन्द्रम् । वृषा । सुतः ।
ध्रुवे । सदसि । सीदति ॥२
अयम् “अरुणः अरुणवर्णः सोमः “योनिं स्थानं द्रोणकलशम् “आ “रुहत् आरोहति । ततः “इन्द्रं “गमत् गच्छति । कुतः सन् । अयं “वृषा वर्षकः फलानां “सुतः अभिषुतः सन् गत्वा “ध्रुवे “सदसि स्थिरे स्थाने द्युलोकाख्ये “सीदति निवसति ॥
नू नो॑ र॒यिं म॒हामिं॑दो॒ऽस्मभ्यं॑ सोम वि॒श्वतः॑ ।
आ प॑वस्व सह॒स्रिणं॑ ॥३
नु । नः॒ । र॒यिम् । म॒हाम् । इ॒न्दो॒ इति॑ । अ॒स्मभ्य॑म् । सो॒म॒ । वि॒श्वतः॑ ।
आ । प॒व॒स्व॒ । स॒ह॒स्रिण॑म् ॥३
नु । नः । रयिम् । महाम् । इन्दो इति । अस्मभ्यम् । सोम । विश्वतः ।
आ । पवस्व । सहस्रिणम् ॥३
हे “सोम अभिषुतस्त्वं हे “इन्दो “नः “अस्मभ्यं “नु क्षिप्रं "महां महान्तं “सहस्रिणम् असंख्यातं “रयिं धनं “विश्वतः “आ “पवस्व सर्वतः परिस्रव ॥
विश्वा॑ सोम पवमान द्यु॒म्नानीं॑द॒वा भ॑र ।
वि॒दाः स॑ह॒स्रिणी॒रिषः॑ ॥४
विश्वा॑ । सो॒म॒ । प॒व॒मा॒न॒ । द्यु॒म्नानि॑ । इ॒न्दो॒ इति॑ । आ । भ॒र॒ ।
वि॒दाः । स॒ह॒स्रिणीः॑ । इषः॑ ॥४
विश्वा । सोम । पवमान । द्युम्नानि । इन्दो इति । आ । भर ।
विदाः । सहस्रिणीः । इषः ॥४
हे "सोम “पवमान पूयमान “इन्दो दीप्त त्वं “विश्वा सर्वाणि बहुविधानि “द्युम्नानि द्रविणानि “आ “भर आहर । “विदाः लम्भय च “सहस्रिणीः सहस्रसंख्याकानि “इषः अन्नानि ॥
स नः॑ पुना॒न आ भ॑र र॒यिं स्तो॒त्रे सु॒वीर्यं॑ ।
ज॒रि॒तुर्व॑र्धया॒ गिरः॑ ॥५
सः । नः॒ । पु॒ना॒नः । आ । भ॒र॒ । र॒यिम् । स्तो॒त्रे । सु॒ऽवीर्य॑म् ।
ज॒रि॒तुः । व॒र्ध॒य॒ । गिरः॑ ॥५
सः । नः । पुनानः । आ । भर । रयिम् । स्तोत्रे । सुऽवीर्यम् ।
जरितुः । वर्धय । गिरः ॥५
हे सोम “सः त्वं “नः अस्मभ्यं “स्तोत्रे स्तोतृभ्यः “पुनानः पूयमानोऽभिषूयमाणः “आ “भर आहर । किम् । “रयिं धनम् । कीदृशम् । “सुवीर्यं सुपुत्रम् । किंच “जरितुः स्तोतुः “गिरः स्तुतीः “वर्धय ॥
पु॒ना॒न इं॑द॒वा भ॑र॒ सोम॑ द्वि॒बर्ह॑सं र॒यिं ।
वृष॑न्निन्दो न उ॒क्थ्यं॑ ॥६
पु॒ना॒नः । इ॒न्दो॒ इति॑ । आ । भ॒र॒ । सोम॑ । द्वि॒ऽबर्ह॑सम् । र॒यिम् ।
वृष॑न् । इ॒न्दो॒ इति॑ । नः॒ । उ॒क्थ्य॑म् ॥६
पुनानः । इन्दो इति । आ । भर । सोम । द्विऽबर्हसम् । रयिम् ।
वृषन् । इन्दो इति । नः । उक्थ्यम् ॥६
हे “इन्दो “सोम “पुनानः पूयमानस्त्वम् “आ “भर आहर । किम् । “रयिं धनम् । कीदृशं धनम् । “द्विबर्हसं द्वयोः द्युपृथिव्याख्ययोः स्थानयोः परिवृद्धम् । तदेवाह । हे “इन्दो’ “वृषन् वर्षक "नः अस्मभ्यम् “उक्थ्यं स्तुत्यं धनमा भर ॥ ॥ ३० ॥
टिप्पणी
मण्डल ९ | |||
---|---|---|---|