ऋग्वेदः सूक्तं ९.४१
← सूक्तं ९.४० | ऋग्वेदः - मण्डल ९ सूक्तं ९.४१ मेधातिथिः काण्वः |
सूक्तं ९.४२ → |
दे. पवमानः सोमः। गायत्री |
प्र ये गावो न भूर्णयस्त्वेषा अयासो अक्रमुः ।
घ्नन्तः कृष्णामप त्वचम् ॥१॥
सुवितस्य मनामहेऽति सेतुं दुराव्यम् ।
साह्वांसो दस्युमव्रतम् ॥२॥
शृण्वे वृष्टेरिव स्वनः पवमानस्य शुष्मिणः ।
चरन्ति विद्युतो दिवि ॥३॥
आ पवस्व महीमिषं गोमदिन्दो हिरण्यवत् ।
अश्वावद्वाजवत्सुतः ॥४॥
स पवस्व विचर्षण आ मही रोदसी पृण ।
उषाः सूर्यो न रश्मिभिः ॥५॥
परि णः शर्मयन्त्या धारया सोम विश्वतः ।
सरा रसेव विष्टपम् ॥६॥
सायणभाष्यम्
‘प्र ये गावः' इति षडृचं सप्तदशं सूक्तं काण्वस्य मेध्यातिथेरार्षं गायत्रं पवमानसोमदेवताकम् । तथा चानुक्रान्तं- प्र ये गावो मेध्यातिथिः' इति । गतो विनियोगः ॥
प्र ये गावो॒ न भूर्ण॑यस्त्वे॒षा अ॒यासो॒ अक्र॑मुः ।
घ्नंतः॑ कृ॒ष्णामप॒ त्वचं॑ ॥१
प्र । ये । गावः॑ । न । भूर्ण॑यः । त्वे॒षाः । अ॒यासः॑ । अक्र॑मुः ।
घ्नन्तः॑ । कृ॒ष्णाम् । अप॑ । त्वच॑म् ॥१
प्र । ये । गावः । न । भूर्णयः । त्वेषाः । अयासः । अक्रमुः ।
घ्नन्तः । कृष्णाम् । अप । त्वचम् ॥१
"ये अभिषुताः सोमाः “गावो “न उदकानीव तानि यथा तूर्णमधः पतन्ति तद्वत् । एवं वोपमीयन्ते । यथा गावः स्वगोष्ठं प्रत्याशु गच्छन्ति तद्वत् । अथवा गावः स्तुतिवाचः । ता यथा स्तुत्यं प्रति क्षिप्रं प्राप्नुवन्ति तद्वत् । “भूर्णयः क्षिप्राः “त्वेषाः दीप्ताः “अयासः अया गमनशीलाः "कृष्णां “त्वचम् । कृष्णा त्वग्रक्षाः । तम् “अप “घ्नन्तः निघ्नन्तः । त्वचिः संवरणकर्मा। ईदृग्भूताः सोमाः “प्र “अक्रमुः । तान् स्तुतेति शेषः ॥
सु॒वि॒तस्य॑ मनाम॒हेऽति॒ सेतुं॑ दुरा॒व्यं॑ ।
सा॒ह्वांसो॒ दस्यु॑मव्र॒तं ॥२
सु॒वि॒तस्य॑ । म॒ना॒म॒हे॒ । अति॑ । सेतु॑म् । दुः॒ऽआ॒व्य॑म् ।
स॒ह्वांसः॑ । दस्यु॑म् । अ॒व्र॒तम् ॥२
सुवितस्य । मनामहे । अति । सेतुम् । दुःऽआव्यम् ।
सह्वांसः । दस्युम् । अव्रतम् ॥२
“सुवितस्य । शोभनं प्राप्तः सुवितः । शोभनस्य सोमस्य “सेतुं रक्षोविषयं बन्धनं “दुराव्यं दुष्टमतिं च रक्षसां बन्धनं तेषां हननबुद्धिं च सोमकर्तृकाः “मनामहे स्तुमः । कथं स्तुम इति तदुच्यते । “अव्रतम् अकर्माणं “दस्युं शत्रुं "साह्वांसः अभिभवन्तः ॥
शृ॒ण्वे वृ॒ष्टेरि॑व स्व॒नः पव॑मानस्य शु॒ष्मिणः॑ ।
चरं॑ति वि॒द्युतो॑ दि॒वि ॥३
शृ॒ण्वे । वृ॒ष्टेःऽइ॑व । स्व॒नः । पव॑मानस्य । शु॒ष्मिणः॑ ।
चर॑न्ति । वि॒ऽद्युतः॑ । दि॒वि ॥३
शृण्वे । वृष्टेःऽइव । स्वनः । पवमानस्य । शुष्मिणः ।
चरन्ति । विऽद्युतः । दिवि ॥३
“शृण्वे श्रूयते । किम् । सोमस्वनः । किमिव । “वृष्टेः वर्षणस्य "स्वनः “इव । तस्य यथा महान् स्वनः श्रूयते तद्वत् प्रभूतरसापातसमये श्रूयते । कस्य स्वन इति तत्राह । “पवमानस्य पूयमानस्य “शुष्मिणः बलवतः । तस्यैव “विद्युतः दीप्तयः “दिवि अन्तरिक्षे "चरन्ति ।
आ प॑वस्व म॒हीमिषं॒ गोम॑दिंदो॒ हिर॑ण्यवत् ।
अश्वा॑व॒द्वाज॑वत्सु॒तः ॥४
आ । प॒व॒स्व॒ । म॒हीम् । इष॑म् । गोऽम॑त् । इ॒न्दो॒ इति॑ । हिर॑ण्यऽवत् ।
अश्व॑ऽवत् । वाज॑ऽवत् । सु॒तः ॥४
आ । पवस्व । महीम् । इषम् । गोऽमत् । इन्दो इति । हिरण्यऽवत् ।
अश्वऽवत् । वाजऽवत् । सुतः ॥४
हे “इन्दो सोम “सुतः अभिषुतस्त्वं “महीमिषम् महदन्नम् “आ “पवस्व । कीदृशमन्नम् । “गोमत् बहुगोभिरुपेतमेवं “हिरण्यवत् हिरण्यैः “अश्ववत् अश्वैः “वाजवत् वाजैर्बलैश्चोपेतम् ।।
स प॑वस्व विचर्षण॒ आ म॒ही रोद॑सी पृण ।
उ॒षाः सूर्यो॒ न र॒श्मिभिः॑ ॥५
सः । प॒व॒स्व॒ । वि॒ऽच॒र्ष॒णे॒ । आ । म॒ही इति॑ । रोद॑सी॒ इति॑ । पृ॒ण॒ ।
उ॒षाः । सूर्यः॑ । न । र॒श्मिऽभिः॑ ॥५
सः । पवस्व । विऽचर्षणे । आ । मही इति । रोदसी इति । पृण ।
उषाः । सूर्यः । न । रश्मिऽभिः ॥५
हे “विचर्षणे विद्रष्टः सोम “सः त्वं “पवस्व क्षर रसम् । तथा कृत्वा तेन रसेन “मही महत्यौ “रोदसी द्यावापृथिव्यौ “आ “पृण आपूरय। “उषाः उषसः। एकदेशवाचिनोषःशब्देन तदुपलक्षितमहरुच्यते तत्प्राधान्यात् । अहानि “रश्मिभिः “सूर्यो “न सूर्य इव ॥
परि॑ णः शर्म॒यंत्या॒ धार॑या सोम वि॒श्वतः॑ ।
सरा॑ र॒सेव॑ वि॒ष्टपं॑ ॥६
परि॑ । नः॒ । श॒र्म॒ऽयन्त्या॑ । धार॑या । सो॒म॒ । वि॒श्वतः॑ ।
सर॑ । र॒साऽइ॑व । वि॒ष्टप॑म् ॥६
परि । नः । शर्मऽयन्त्या । धारया । सोम । विश्वतः ।
सर । रसाऽइव । विष्टपम् ॥६
हे “सोम “नः अस्मभ्यं “शर्मयन्त्या सुखयन्त्या “धारया “विश्वतः सर्वतः “परि “सर परिचर । “रसेव रसेनेव “विष्टपं भूलोकम् । यद्वा । रसा नदी स्थानं सा प्रवणरूपमिव ॥ ॥ ३१ ॥
मण्डल ९ | |||
---|---|---|---|