ऋग्वेदः सूक्तं ९.४२
← सूक्तं ९.४१ | ऋग्वेदः - मण्डल ९ सूक्तं ९.४२ मेध्यातिथिः काण्वः। |
सूक्तं ९.४३ → |
दे. पवमानः सोमः। गायत्री। |
जनयन्रोचना दिवो जनयन्नप्सु सूर्यम् ।
वसानो गा अपो हरिः ॥१॥
एष प्रत्नेन मन्मना देवो देवेभ्यस्परि ।
धारया पवते सुतः ॥२॥
वावृधानाय तूर्वये पवन्ते वाजसातये ।
सोमाः सहस्रपाजसः ॥३॥
दुहानः प्रत्नमित्पयः पवित्रे परि षिच्यते ।
क्रन्दन्देवाँ अजीजनत् ॥४॥
अभि विश्वानि वार्याभि देवाँ ऋतावृधः ।
सोमः पुनानो अर्षति ॥५॥
गोमन्नः सोम वीरवदश्वावद्वाजवत्सुतः ।
पवस्व बृहतीरिषः ॥६॥
सायणभाष्यम्
‘जनयन्' इति षडृचमष्टादशं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘जनयन्' इत्यनुक्रान्तम् । गतो विनियोगः ॥
ज॒नय॑न्रोच॒ना दि॒वो ज॒नय॑न्न॒प्सु सूर्यं॑ ।
वसा॑नो॒ गा अ॒पो हरिः॑ ॥१
ज॒नय॑न् । रो॒च॒ना । दि॒वः । ज॒नय॑न् । अ॒प्ऽसु । सूर्य॑म् ।
वसा॑नः । गाः । अ॒पः । हरिः॑ ॥१
जनयन् । रोचना । दिवः । जनयन् । अप्ऽसु । सूर्यम् ।
वसानः । गाः । अपः । हरिः ॥१
अयं “हरिः सोमः “दिवः द्युसंबन्धीनि “रोचना रोचनानि नक्षत्रग्रहमण्डलानि “जनयन् तथा “अप्सु अन्तरिक्षे “सूर्यं च “जनयन् तथा “गाः अधोगन्त्रीः "अपः “वसानः भूमिमात्मानं वाच्छादयन् पवत इत्युत्तरत्र संबन्धः ॥
ए॒ष प्र॒त्नेन॒ मन्म॑ना दे॒वो दे॒वेभ्य॒स्परि॑ ।
धार॑या पवते सु॒तः ॥२
ए॒षः । प्र॒त्नेन॑ । मन्म॑ना । दे॒वः । दे॒वेभ्यः॑ । परि॑ ।
धार॑या । प॒व॒ते॒ । सु॒तः ॥२
एषः । प्रत्नेन । मन्मना । देवः । देवेभ्यः । परि ।
धारया । पवते । सुतः ॥२
“एषः सोमः “प्रत्नेन पुराणेन "मन्मना मननीयेन स्तोत्रेण युक्तः “सुतः अभिषुतश्च सन् “देवेभ्यः “परि परितः “धारया स्वीयया “पवते ॥
वा॒वृ॒धा॒नाय॒ तूर्व॑ये॒ पवं॑ते॒ वाज॑सातये ।
सोमाः॑ स॒हस्र॑पाजसः ॥३
व॒वृ॒धा॒नाय॑ । तूर्व॑ये । पव॑न्ते । वाज॑ऽसातये ।
सोमाः॑ । स॒हस्र॑ऽपाजसः ॥३
ववृधानाय । तूर्वये । पवन्ते । वाजऽसातये ।
सोमाः । सहस्रऽपाजसः ॥३
“वावृधानाय वर्धसानाय “तूर्वये क्षिप्राय “वाजसातये संग्रामायान्नलाभाय वा “पवन्ते पूयन्ते । के । “सोमाः । कीदृशाः । “सहस्रपाजसः अपरिमितबलाः । असंख्यातवेगा इत्यर्थः ॥
दु॒हा॒नः प्र॒त्नमित्पयः॑ प॒वित्रे॒ परि॑ षिच्यते ।
क्रन्दन्दे॒वाँ अ॑जीजनत् ॥४
दु॒हा॒नः । प्र॒त्नम् । इत् । पयः॑ । प॒वित्रे॑ । परि॑ । सि॒च्य॒ते॒ ।
क्रन्द॑न् । दे॒वान् । अ॒जी॒ज॒न॒त् ॥४
दुहानः । प्रत्नम् । इत् । पयः । पवित्रे । परि । सिच्यते ।
क्रन्दन् । देवान् । अजीजनत् ॥४
“प्रत्नमित् पुराणमेव “पयः रस “दुहानः दधानः सोमः “पवित्रे “परि “षिच्यते । किंच “क्रन्दन् शब्दं कुर्वन् "देवानजीजनत् जनयति स्वसमीपे । यत्र सोमोऽभिषूयते तत्र देवा नियतं प्रादुर्भवन्ति । अतो जनयतीत्युपचर्यते ॥
अ॒भि विश्वा॑नि॒ वार्या॒भि दे॒वाँ ऋ॑ता॒वृधः॑ ।
सोमः॑ पुना॒नो अ॑र्षति ॥५
अ॒भि । विश्वा॑नि । वार्या॑ । अ॒भि । दे॒वान् । ऋ॒त॒ऽवृधः॑ ।
सोमः॑ । पु॒ना॒नः । अ॒र्ष॒ति॒ ॥५
अभि । विश्वानि । वार्या । अभि । देवान् । ऋतऽवृधः ।
सोमः । पुनानः । अर्षति ॥५
अयं “सोमः “पुनान: पूयमानः “विश्वानि “वार्या वरणीयानि धनानि “अभि “अर्षति । तथा “ऋतावृधः यज्ञवर्धकान् "देवान् “अभि अर्षति ।।
गोम॑न्नः सोम वी॒रव॒दश्वा॑व॒द्वाज॑वत्सु॒तः ।
पव॑स्व बृह॒तीरिषः॑ ॥६
गोऽम॑त् । नः॒ । सो॒म॒ । वी॒रऽव॑त् । अश्व॑ऽवत् । वाज॑ऽवत् । सु॒तः ।
पव॑स्व । बृ॒ह॒तीः । इषः॑ ॥६
गोऽमत् । नः । सोम । वीरऽवत् । अश्वऽवत् । वाजऽवत् । सुतः ।
पवस्व । बृहतीः । इषः ॥६
हे “सोम “सुतः त्वं “नः अस्मभ्यं “गोमत् गोभिर्युक्तं “वीरवत् बहुभिर्वीरैरुपेतम् “अश्वावत् अश्वैर्युक्तं “वाजवत् वाजैर्बलैः संग्रामैर्वोपेतं धनं "बृहतीरिषः प्रभूतान्यन्नानि “पवस्व । प्रयच्छेत्यर्थः ॥ ॥ ३२ ॥
मण्डल ९ | |||
---|---|---|---|