ऋग्वेदः सूक्तं ९.४३
← सूक्तं ९.४२ | ऋग्वेदः - मण्डल ९ सूक्तं ९.४३ मेध्यातिथिः काण्वः |
सूक्तं ९.४४ → |
दे. पवमानः सोमः। गायत्री |
यो अत्य इव मृज्यते गोभिर्मदाय हर्यतः ।
तं गीर्भिर्वासयामसि ॥१॥
तं नो विश्वा अवस्युवो गिरः शुम्भन्ति पूर्वथा ।
इन्दुमिन्द्राय पीतये ॥२॥
पुनानो याति हर्यतः सोमो गीर्भिः परिष्कृतः ।
विप्रस्य मेध्यातिथेः ॥३॥
पवमान विदा रयिमस्मभ्यं सोम सुश्रियम् ।
इन्दो सहस्रवर्चसम् ॥४॥
इन्दुरत्यो न वाजसृत्कनिक्रन्ति पवित्र आ ।
यदक्षारति देवयुः ॥५॥
पवस्व वाजसातये विप्रस्य गृणतो वृधे ।
सोम रास्व सुवीर्यम् ॥६॥
सायणभाष्यम्
यो अत्यइव' इति षडृचमेकोनविंशं सूक्तम् । ऋष्याद्याः पूर्ववत् । “यो अत्यइव' इत्यनुक्रान्तम् । गतो विनियोगः ॥
यो अत्य॑ इव मृ॒ज्यते॒ गोभि॒र्मदा॑य हर्य॒तः ।
तं गी॒र्भिर्वा॑सयामसि ॥१
यः । अत्यः॑ऽइव । मृ॒ज्यते॑ । गोभिः॑ । मदा॑य । ह॒र्य॒तः ।
तम् । गीः॒ऽभिः । वा॒स॒या॒म॒सि॒ ॥१
यः । अत्यःऽइव । मृज्यते । गोभिः । मदाय । हर्यतः ।
तम् । गीःऽभिः । वासयामसि ॥१
“यः सोमः “अत्यइव अतनशीलोऽश्व इव “गोभिः वसतीवरीभिरद्भिर्गोविकारैः पय आदिभिर्वा मृज्यते मिश्र्यते । किमर्थम् । “मदाय देवानाम् । कीदृशः । यः “हर्यतः कान्तः । “तं सोमं “गीर्भिः स्तुतिभिः “वासयामसि वासयामः ॥
तं नो॒ विश्वा॑ अव॒स्युवो॒ गिरः॑ शुंभंति पू॒र्वथा॑ ।
इंदु॒मिंद्रा॑य पी॒तये॑ ॥२
तम् । नः॒ । विश्वाः॑ । अ॒व॒स्युवः॑ । गिरः॑ । शु॒म्भ॒न्ति॒ । पू॒र्वऽथा॑ ।
इन्दु॑म् । इन्द्रा॑य । पी॒तये॑ ॥२
तम् । नः । विश्वाः । अवस्युवः । गिरः । शुम्भन्ति । पूर्वऽथा ।
इन्दुम् । इन्द्राय । पीतये ॥२
“तम् “इन्दुं सोमं “नः अस्माकं “विश्वाः सर्वाः “अवस्युवः । अवो रक्षणम् । तदिच्छन्त्यः “गिरः स्तुतयः “पूर्वथा पूर्वमिव पूर्वं यथा तथैवेदानीमपि “शुम्भन्ति दीपयन्ति । किमर्थम् । “इन्द्राय इन्द्रस्य “पीतये पानाय ।।
पु॒ना॒नो या॑ति हर्य॒तः सोमो॑ गी॒र्भिः परि॑ष्कृतः ।
विप्र॑स्य॒ मेध्या॑तिथेः ॥३
पु॒ना॒नः । या॒ति॒ । ह॒र्य॒तः । सोमः॑ । गीः॒ऽभिः । परि॑ऽकृतः ।
विप्र॑स्य । मेध्य॑ऽअतिथेः ॥३
पुनानः । याति । हर्यतः । सोमः । गीःऽभिः । परिऽकृतः ।
विप्रस्य । मेध्यऽअतिथेः ॥३
“पुनानः पूयमानः “हर्यतः कमनीयः “सोमो “गीर्भिः “परिष्कृतः स्तुतिभिरलंकृतः “याति कलशं प्रति । किमर्थम् । “विप्रस्य मेधाविनः “मेध्यातिथेः मम यागार्थम् । यद्वा । मम गीर्भिरिति संबन्धः॥
पव॑मान वि॒दा र॒यिम॒स्मभ्यं॑ सोम सु॒श्रियं॑ ।
इंदो॑ स॒हस्र॑वर्चसं ॥४
पव॑मान । वि॒दाः । र॒यिम् । अ॒स्मभ्य॑म् । सो॒म॒ । सु॒ऽश्रिय॑म् ।
इन्दो॒ इति॑ । स॒हस्र॑ऽवर्चसम् ॥४
पवमान । विदाः । रयिम् । अस्मभ्यम् । सोम । सुऽश्रियम् ।
इन्दो इति । सहस्रऽवर्चसम् ॥४
हे “पवमान “इन्दो “सोम “अस्मभ्यं “सुश्रियं शोभनया श्रिया युक्तं “सहस्रवर्चसं बहुदीप्तिं “रयिं धनं “विदाः । देहीत्यर्थः ।।
इंदु॒रत्यो॒ न वा॑ज॒सृत्कनि॑क्रंति प॒वित्र॒ आ ।
यदक्षा॒रति॑ देव॒युः ॥५
इन्दुः॑ । अत्यः॑ । न । वा॒ज॒ऽसृत् । कनि॑क्रन्ति । प॒वित्रे॑ । आ ।
यत् । अक्षाः॑ । अति॑ । दे॒व॒ऽयुः ॥५
इन्दुः । अत्यः । न । वाजऽसृत् । कनिक्रन्ति । पवित्रे । आ ।
यत् । अक्षाः । अति । देवऽयुः ॥५
अयम् “इन्दुः “वाजसृत् संग्रामसरणः “अत्यो “न अश्व इव “पवित्र “आ पवित्रे “कनिक्रन्ति शब्दं करोति । “यत् यदा “अक्षाः क्षरति । क्षर संचलने' इत्यस्माच्छान्दसे लुङि तिपि सिच् । ‘ बहुलं छन्दसि' इतीडभावः । इडभावे च ' रात्सस्य ' इति सलोपः । “देवयुः देवकामः सन् तदा शब्दं करोति ॥
पव॑स्व॒ वाज॑सातये॒ विप्र॑स्य गृण॒तो वृ॒धे ।
सोम॒ रास्व॑ सु॒वीर्यं॑ ॥६
पव॑स्व । वाज॑ऽसातये । विप्र॑स्य । गृ॒ण॒तः । वृ॒धे ।
सोम॑ । रास्व॑ । सु॒ऽवीर्य॑म् ॥६
पवस्व । वाजऽसातये । विप्रस्य । गृणतः । वृधे ।
सोम । रास्व । सुऽवीर्यम् ॥६
हे सोम “पवस्व क्षर । किमर्थम् । “वाजसातये अन्नलाभाय। तथा “गृणतः स्तुवतः “विप्रस्य मम मेध्यातिथेः “वृधे वर्धनाय च । हे "सोम “सुवीर्यं शोभनवीर्योपेतं पुत्रं च “रास्व देहि ॥ ॥ ३३ ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाश ऋक्संहिताभाष्ये षष्ठाष्टकेऽष्टमोऽध्यायः ॥
समाप्तं च षष्ठाष्टकम् ॥
मण्डल ९ | |||
---|---|---|---|