ऋग्वेदः सूक्तं ९.८९

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.८८ ऋग्वेदः - मण्डल ९
सूक्तं ९.८९
उशना काव्यः
सूक्तं ९.९० →
दे. पवमानः सोमः। त्रिष्टुप्


प्रो स्य वह्निः पथ्याभिरस्यान्दिवो न वृष्टिः पवमानो अक्षाः ।
सहस्रधारो असदन्न्यस्मे मातुरुपस्थे वन आ च सोमः ॥१॥
राजा सिन्धूनामवसिष्ट वास ऋतस्य नावमारुहद्रजिष्ठाम् ।
अप्सु द्रप्सो वावृधे श्येनजूतो दुह ईं पिता दुह ईं पितुर्जाम् ॥२॥
सिंहं नसन्त मध्वो अयासं हरिमरुषं दिवो अस्य पतिम् ।
शूरो युत्सु प्रथमः पृच्छते गा अस्य चक्षसा परि पात्युक्षा ॥३॥*
मधुपृष्ठं घोरमयासमश्वं रथे युञ्जन्त्युरुचक्र ऋष्वम् ।
स्वसार ईं जामयो मर्जयन्ति सनाभयो वाजिनमूर्जयन्ति ॥४॥
चतस्र ईं घृतदुहः सचन्ते समाने अन्तर्धरुणे निषत्ताः ।
ता ईमर्षन्ति नमसा पुनानास्ता ईं विश्वतः परि षन्ति पूर्वीः ॥५॥
विष्टम्भो दिवो धरुणः पृथिव्या विश्वा उत क्षितयो हस्ते अस्य ।
असत्त उत्सो गृणते नियुत्वान्मध्वो अंशुः पवत इन्द्रियाय ॥६॥
वन्वन्नवातो अभि देववीतिमिन्द्राय सोम वृत्रहा पवस्व ।
शग्धि महः पुरुश्चन्द्रस्य रायः सुवीर्यस्य पतयः स्याम ॥७॥


सायणभाष्यम्

‘प्रो स्य वह्निः' इति सप्तर्चं चतुर्थं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘प्रो स्य सप्त' इत्यनुक्रान्तम् । गतो विनियोगः ॥


प्रो स्य वह्निः॑ प॒थ्या॑भिरस्यांदि॒वो न वृ॒ष्टिः पव॑मानो अक्षाः ।

स॒हस्र॑धारो असद॒न्न्य१॒॑स्मे मा॒तुरु॒पस्थे॒ वन॒ आ च॒ सोमः॑ ॥१

प्रो इति॑ । स्यः । वह्निः॑ । प॒थ्या॑भिः । अ॒स्या॒न् । दि॒वः । न । वृ॒ष्टिः । पव॑मानः । अ॒क्षा॒रिति॑ ।

स॒हस्र॑ऽधारः । अ॒स॒द॒त् । नि । अ॒स्मे इति॑ । मा॒तुः । उ॒पऽस्थे॑ । वने॑ । आ । च॒ । सोमः॑ ॥

प्रो इति । स्यः । वह्निः । पथ्याभिः । अस्यान् । दिवः । न । वृष्टिः । पवमानः । अक्षारिति ।

सहस्रऽधारः । असदत् । नि । अस्मे इति । मातुः । उपऽस्थे । वने । आ । च । सोमः ॥

प्र ऊ इति निपातद्वयसमुदाय एको निपातितः । “प्रो “अस्यान् प्रस्यन्दते “स्यः सः “वह्निः वोढा “पथ्याभिः यज्ञमार्गैः । “दिवो “न “वृष्टिः दिवः सकाशात् वृष्टिरिव “पवमानः पूयमानः सन् "अक्षाः व्याप्नोषि । सोऽयं “सोमः “सहस्रधारः बहुधारः सन् “अस्मे अस्मासु “नि “असदत् निषीदति ॥


राजा॒ सिंधू॑नामवसिष्ट॒ वास॑ ऋ॒तस्य॒ नाव॒मारु॑ह॒द्रजि॑ष्ठां ।

अ॒प्सु द्र॒प्सो वा॑वृधे श्ये॒नजू॑तो दु॒ह ईं॑ पि॒ता दु॒ह ईं॑ पि॒तुर्जां ॥२

राजा॑ । सिन्धू॑नाम् । अ॒व॒सि॒ष्ट॒ । वासः॑ । ऋ॒तस्य॑ । नाव॑म् । आ । अ॒रु॒ह॒त् । रजि॑ष्ठाम् ।

अ॒प्ऽसु । द्र॒प्सः । व॒वृ॒धे॒ । श्ये॒नऽजू॑तः । दु॒हे । ई॒म् । पि॒ता । दु॒हे । ई॒म् । पि॒तुः । जाम् ॥

राजा । सिन्धूनाम् । अवसिष्ट । वासः । ऋतस्य । नावम् । आ । अरुहत् । रजिष्ठाम् ।

अप्ऽसु । द्रप्सः । ववृधे । श्येनऽजूतः । दुहे । ईम् । पिता । दुहे । ईम् । पितुः । जाम् ॥

अयं “राजा सोमः “सिन्धूनाम् उदकानां क्षीरादिस्यन्दिनीनां गवां वा “वासः वसनस्थानीयं क्षीराख्यं श्रयणद्रव्यम् “अवसिष्ट आच्छादयति । तथा कृत्वा “रजिष्ठाम् ऋजुतराम् “ऋतस्य यज्ञस्य “नावमारुहत् आरोहति । सः “द्रप्सः सोमरसः “श्येनजूतः श्येनेनापहृतो रसः “अप्सु वसतीवरीषु “ववृधे वर्धते। “ईं तमिमं “पितुः पालकात् पितृस्थानीयात् द्युलोकात् "जां जातमपत्यं सोमम् “ईम् अयं “पिता पालको लोकः “दुहे दोग्धि रसम् । तथाध्वर्युरपि दुहे दोग्धि । अथवा । उक्तलक्षणमेतं सोमं पिता पालकः स्वामी यजमानो दोग्धि फलं तथा दुहेऽध्वर्युरपि रसं दुहे। यद्वा । दुह ईमिति पुनरुक्तिरादरार्था ॥


सिं॒हं न॑संत॒ मध्वो॑ अ॒यासं॒ हरि॑मरु॒षं दि॒वो अ॒स्य पतिं॑ ।

शूरो॑ यु॒त्सु प्र॑थ॒मः पृ॑च्छते॒ गा अस्य॒ चक्ष॑सा॒ परि॑ पात्यु॒क्षा ॥३

सिं॒हम् । न॒स॒न्त॒ । मध्वः॑ । अ॒यास॑म् । हरि॑म् । अ॒रु॒षम् । दि॒वः । अ॒स्य । पति॑म् ।

शूरः॑ । यु॒त्ऽसु । प्र॒थ॒मः । पृ॒च्छ॒ते॒ । गाः । अस्य॑ । चक्ष॑सा । परि॑ । पा॒ति॒ । उ॒क्षा ॥

सिंहम् । नसन्त । मध्वः । अयासम् । हरिम् । अरुषम् । दिवः । अस्य । पतिम् ।

शूरः । युत्ऽसु । प्रथमः । पृच्छते । गाः । अस्य । चक्षसा । परि । पाति । उक्षा ॥

“सिंहं शत्रूणां हिंसकं सिंहसदृशं “मध्वः उदकस्य “अयासं प्रेरकं “हरिं हरितवर्णम् “अस्य “दिवः द्युलोकस्य "पतिं पालकं सोमं “नसन्त व्याप्नुवन्ति यजमानाः। “युत्सु संग्रामेषु “शूरः “प्रथमः देवानां मध्ये मुख्यः सोमः “गाः पणिभिरपहृताः “पृच्छते मार्गज्ञान् । पणीन् हत्वा गा लब्धुं गोमार्गं पृच्छतीत्यर्थः । किंच “अस्य “चक्षसा सामर्थ्येन “उक्षा सेक्ता देवेन्द्रः “परि “पाति विश्वम् ॥


मधु॑पृष्ठं घो॒रम॒यास॒मश्वं॒ रथे॑ युंजंत्युरुच॒क्र ऋ॒ष्वं ।

स्वसा॑र ईं जा॒मयो॑ मर्जयंति॒ सना॑भयो वा॒जिन॑मूर्जयंति ॥४

मधु॑ऽपृष्ठम् । घो॒रम् । अ॒यास॑म् । अश्व॑म् । रथे॑ । यु॒ञ्ज॒न्ति॒ । उ॒रु॒ऽच॒क्रे । ऋ॒ष्वम् ।

स्वसा॑रः । ई॒म् । जा॒मयः॑ । म॒र्ज॒य॒न्ति॒ । सऽना॑भयः । वा॒जिन॑म् । ऊ॒र्ज॒य॒न्ति॒ ॥

मधुऽपृष्ठम् । घोरम् । अयासम् । अश्वम् । रथे । युञ्जन्ति । उरुऽचक्रे । ऋष्वम् ।

स्वसारः । ईम् । जामयः । मर्जयन्ति । सऽनाभयः । वाजिनम् । ऊर्जयन्ति ॥

“मधुपृष्ठं मधुरपृष्ठभागं “घोरं भयानकम् “अयासं गन्तारम् “ऋष्वं दर्शनीयमुक्तलक्षणाश्वस्थानीयं व्याप्तं सोमम् “उरुचक्रे प्रभूतचक्रे “रथे यथाश्वं रथे "युञ्जन्ति रथिकास्तद्वत् प्रभूतचरणे रथे रंहस्य साधने यज्ञाख्ये रथे युञ्जन्ति । योजयन्त्यध्वर्य्वादयः । किंच “ईम् एनं सोमं “स्वसारः स्वयंसारिण्यः परस्परं स्वसृभूता वा “जामयः बन्धुभूता अङ्गुलयः । एकहस्तनिष्पन्नत्वात् स्वसृत्वं जामित्वं च । एवंभूताः "मार्जयन्ति शोधयन्ति । तदेवाह । “सनाभयः समानबन्धनाः “वाजिनं बलवन्तं सोमम् “ऊर्जयन्ति बलिनं कुर्वन्ति ॥


चत॑स्र ईं घृत॒दुहः॑ सचंते समा॒ने अं॒तर्ध॒रुणे॒ निष॑त्ताः ।

ता ई॑मर्षंति॒ नम॑सा पुना॒नास्ता ईं॑ वि॒श्वतः॒ परि॑ षंति पू॒र्वीः ॥५

चत॑स्रः । ई॒म् । घृ॒त॒ऽदुहः॑ । स॒च॒न्ते॒ । स॒मा॒ने । अ॒न्तः । ध॒रुणे॑ । निऽस॑त्ताः ।

ताः । ई॒म् । अ॒र्ष॒न्ति॒ । नम॑सा । पु॒ना॒नाः । ताः । ई॒म् । वि॒श्वतः॑ । परि॑ । स॒न्ति॒ । पू॒र्वीः ॥

चतस्रः । ईम् । घृतऽदुहः । सचन्ते । समाने । अन्तः । धरुणे । निऽसत्ताः ।

ताः । ईम् । अर्षन्ति । नमसा । पुनानाः । ताः । ईम् । विश्वतः । परि । सन्ति । पूर्वीः ॥

“चतस्रः “घृतदुहः घृतदोग्ध्र्यो गावः “ईम एनं सोमं “सचन्ते सेवन्ते । कीदृश्यस्ताः । “समाने एकस्मिन् “धरुणे सर्वेषां धारकेऽन्तरिक्षे “निषत्ताः निषण्णाः । “ताः घृतदुहः “ईम एनम् “अर्षन्ति प्राप्नुवन्ति “नमसा अन्नेन “पुनानाः पूयमानाः सत्यः। “ताः “पूर्वीः बह्व्यः प्रभूता गावः “विश्वतः सर्वतः “परि “षन्ति परिभवन्ति ॥ विष्टम्भो दिवो धुरुणः पृथिव्या विश्व उत क्षितयो हस्ते अस्य ।


वि॒ष्टं॒भो दि॒वो ध॒रुणः॑ पृथि॒व्या विश्वा॑ उ॒त क्षि॒तयो॒ हस्ते॑ अस्य ।

अस॑त्त॒ उत्सो॑ गृण॒ते नि॒युत्वा॒न्मध्वो॑ अं॒शुः प॑वत इंद्रि॒याय॑ ॥६

वि॒ष्ट॒म्भः । दि॒वः । ध॒रुणः॑ । पृ॒थि॒व्याः । विश्वाः॑ । उ॒त । क्षि॒तयः॑ । हस्ते॑ । अ॒स्य॒ ।

अस॑त् । ते॒ । उत्सः॑ । गृ॒ण॒ते । नि॒युत्वा॑न् । मध्वः॑ । अं॒शुः । प॒व॒ते॒ । इ॒न्द्रि॒याय॑ ॥

विष्टम्भः । दिवः । धरुणः । पृथिव्याः । विश्वाः । उत । क्षितयः । हस्ते । अस्य ।

असत् । ते । उत्सः । गृणते । नियुत्वान् । मध्वः । अंशुः । पवते । इन्द्रियाय ॥

अयं सोमः “दिवः द्युलोकस्य विष्टम्भभूतः । यथा गृहस्थ स्तम्भस्तद्वत्। तथा “पृथिव्याः “धरुणः धारकः । “उत अपि च “विश्वाः सर्वाः “क्षितयः प्रजाः “अस्य सोमस्य हस्ते भवन्ति । “उत्सः । उत्सरन्त्यस्मात् कामा इत्युत्सः सोमः। सः “गृणते स्तुवते “ते तुभ्यं “नियुत्वान् अश्ववान् “असत् भवतु । स सोमः “मध्वः मधु । कर्मणि षष्ठी । मधुररसः “अंशुः सोमः । ‘ अंशुः शमष्टमात्रो भवति' (निरु. २. ५) इति यास्कः । “इन्द्रियाय “पवते पूयते अभिषूयते ॥


व॒न्वन्नवा॑तो अ॒भि दे॒ववी॑ति॒मिंद्रा॑य सोम वृत्र॒हा प॑वस्व ।

श॒ग्धि म॒हः पु॑रुश्चं॒द्रस्य॑ रा॒यः सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥७

व॒न्वन् । अवा॑तः । अ॒भि । दे॒वऽवी॑तिम् । इन्द्रा॑य । सो॒म॒ । वृ॒त्र॒ऽहा । प॒व॒स्व॒ ।

श॒ग्धि । म॒हः । पु॒रु॒ऽच॒न्द्रस्य॑ । रा॒यः । सु॒ऽवीर्य॑स्य । पत॑यः । स्या॒म॒ ॥

वन्वन् । अवातः । अभि । देवऽवीतिम् । इन्द्राय । सोम । वृत्रऽहा । पवस्व ।

शग्धि । महः । पुरुऽचन्द्रस्य । रायः । सुऽवीर्यस्य । पतयः । स्याम ॥

हे सोम वन्वन्नवातः शत्रुभिरनभिभूतः देववीतिं यज्ञमभिगच्छ। शत्रुहंता रसन् इंद्राय पवस्व । बहुभिः स्पृहणीयं धनं देहि । वयं च सुवीर्यस्य पतयः स्याम।

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.८९&oldid=180099" इत्यस्माद् पुनः प्राप्तिः