ऋग्वेदः सूक्तं ९.८८
← सूक्तं ९.८७ | ऋग्वेदः - मण्डल ९ सूक्तं ९.८८ उशना काण्वः। |
सूक्तं ९.८९ → |
दे. पवमानः सोमः। त्रिष्टुप्। |
अयं सोम इन्द्र तुभ्यं सुन्वे तुभ्यं पवते त्वमस्य पाहि ।
त्वं ह यं चकृषे त्वं ववृष इन्दुं मदाय युज्याय सोमम् ॥१॥
स ईं रथो न भुरिषाळयोजि महः पुरूणि सातये वसूनि ।
आदीं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवन्त ॥२॥
वायुर्न यो नियुत्वाँ इष्टयामा नासत्येव हव आ शम्भविष्ठः ।
विश्ववारो द्रविणोदा इव त्मन्पूषेव धीजवनोऽसि सोम ॥३॥
इन्द्रो न यो महा कर्माणि चक्रिर्हन्ता वृत्राणामसि सोम पूर्भित् ।
पैद्वो न हि त्वमहिनाम्नां हन्ता विश्वस्यासि सोम दस्योः ॥४॥
अग्निर्न यो वन आ सृज्यमानो वृथा पाजांसि कृणुते नदीषु ।
जनो न युध्वा महत उपब्दिरियर्ति सोमः पवमान ऊर्मिम् ॥५॥
एते सोमा अति वाराण्यव्या दिव्या न कोशासो अभ्रवर्षाः ।
वृथा समुद्रं सिन्धवो न नीचीः सुतासो अभि कलशाँ असृग्रन् ॥६॥
शुष्मी शर्धो न मारुतं पवस्वानभिशस्ता दिव्या यथा विट् ।
आपो न मक्षू सुमतिर्भवा नः सहस्राप्साः पृतनाषाण्न यज्ञः ॥७॥
राज्ञो नु ते वरुणस्य व्रतानि बृहद्गभीरं तव सोम धाम ।
शुचिष्ट्वमसि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम ॥८॥
सायणभाष्यम्
'अयं सोमः' इत्यष्टर्चं तृतीयं सूक्तम् । ऋष्याद्याः पूर्ववत् । अयं सोमोऽष्टौ ' इत्यनुक्रान्तम् । गतो विनियोगः ॥
अ॒यं सोम॑ इन्द्र॒ तुभ्यं॑ सुन्वे॒ तुभ्यं॑ पवते॒ त्वम॑स्य पाहि ।
त्वं ह॒ यं च॑कृ॒षे त्वं व॑वृ॒ष इन्दुं॒ मदा॑य॒ युज्या॑य॒ सोमं॑ ॥१
अ॒यम् । सोमः॑ । इ॒न्द्र॒ । तुभ्य॑म् । सु॒न्वे॒ । तुभ्य॑म् । प॒व॒ते॒ । त्वम् । अ॒स्य॒ । पा॒हि॒ ।
त्वम् । ह॒ । यम् । च॒कृ॒षे । त्वम् । व॒वृ॒षे । इन्दु॑म् । मदा॑य । युज्या॑य । सोम॑म् ॥१
अयम् । सोमः । इन्द्र । तुभ्यम् । सुन्वे । तुभ्यम् । पवते । त्वम् । अस्य । पाहि ।
त्वम् । ह । यम् । चकृषे । त्वम् । ववृषे । इन्दुम् । मदाय । युज्याय । सोमम् ॥१
हे “इन्द्र "अयं “सोमः “तुभ्यं त्वदर्थं "सुन्वे सूयते ॥ सुनोतेः कर्मार्थे लटि ‘ लोपस्त आत्मनेपदेषु' इति तलोपः ॥ “तुभ्यं त्वदर्थमेव “पवते पूयते । “त्वं च "अस्य अमुं "पाहि पिब । “त्वं “ह “यम् “इन्दुं “सोमं “चकृषे करोषि । “त्वं च यं “ववृषे वृतवानसि । किमर्थम् । "मदाय “युज्याय सहायाय । सोम इन्द्राय बलकरत्वात् सहाय इति प्रसिद्धम् । यमेवं करोषि त्वं तं पाहीति समन्वयः।।
स ईं॒ रथो॒ न भु॑रि॒षाळ॑योजि म॒हः पु॒रूणि॑ सा॒तये॒ वसू॑नि ।
आदीं॒ विश्वा॑ नहु॒ष्या॑णि जा॒ता स्व॑र्षाता॒ वन॑ ऊ॒र्ध्वा न॑वन्त ॥२
सः । ई॒मिति॑ । रथः॑ । न । भु॒रि॒षाट् । अ॒यो॒जि॒ । म॒हः । पु॒रूणि॑ । सा॒तये॑ । वसू॑नि ।
आत् । ई॒मिति॑ । विश्वा॑ । न॒हु॒ष्या॑णि । जा॒ता । स्वः॑ऽसाता । वने॑ । ऊ॒र्ध्वा । न॒व॒न्त॒ ॥२
सः । ईमिति । रथः । न । भुरिषाट् । अयोजि । महः । पुरूणि । सातये । वसूनि ।
आत् । ईमिति । विश्वा । नहुष्याणि । जाता । स्वःऽसाता । वने । ऊर्ध्वा । नवन्त ॥२
“स “ईं सोऽयं सोमः “भुरिषाट् भूरिभारस्य सोढा “रथो “न रथ इव भुरिषाट् प्रभूतस्य भारस्य सोढा “अयोजि युज्यते । कीदृशः सः । “महः महान् । किमर्थमयोजि । “पुरूणि बहूनि “वसूनि धनानि “सातये अस्मभ्यं दातुम् । “आदीं योगानन्तरं “विश्वा विश्वानि सर्वाणि नहुष्याणि । नहुषो मनुष्याः । तेषां संबन्धीनि “जाता जातान्यस्मद्विरोधीनि “ऊर्ध्वा उन्मुखानि “वने वननीये “स्वर्षाता स्वर्षातौ । संग्रामनामैतत् । स्वर्गलाभयुक्ते संग्रामे “नवन्त गच्छन्तु । नवतिर्गतिकर्मा । यद्वा। सोमं संग्रामे युद्धार्थिनः संगच्छन्ति ॥
वा॒युर्न यो नि॒युत्वाँ॑ इ॒ष्टया॑मा॒ नास॑त्येव॒ हव॒ आ शम्भ॑विष्ठः ।
वि॒श्ववा॑रो द्रविणो॒दा इ॑व॒ त्मन्पू॒षेव॑ धी॒जव॑नोऽसि सोम ॥३
वा॒युः । न । यः । नि॒युत्वा॑न् । इ॒ष्टऽया॑मा । नास॑त्याऽइव । हवे॑ । आ । शम्ऽभ॑विष्ठः ।
वि॒श्वऽवा॑रः । द्र॒वि॒णो॒दाःऽइ॑व । त्मन् । पू॒षाऽइ॑व । धी॒ऽजव॑नः । अ॒सि॒ । सो॒म॒ ॥३
वायुः । न । यः । नियुत्वान् । इष्टऽयामा । नासत्याऽइव । हवे । आ । शम्ऽभविष्ठः ।
विश्वऽवारः । द्रविणोदाःऽइव । त्मन् । पूषाऽइव । धीऽजवनः । असि । सोम ॥३
“यः सोमः “नियुत्वान् । नियुतो वायोरश्वाः । तद्वान् “वायुर्न वायुरिव “इष्टयामा इष्टगमनः । “नासत्येव अश्विनाविव “हवम् आह्वानमाकर्ण्य “आ सर्वतः “शंभविष्ठः सुखस्य भावयितृतमः । “द्रविणोदाइव धनदातेव' “त्मन् आत्मनि “विश्ववारः विश्वैर्वरणीयो भवति तद्वद्विश्ववारोऽसि । “पूषेव पोषकः सवितेव “धीजवनः मनोवेगः “असि । यद्वा कर्मणां प्रवर्तयितासि हे “सोम ॥
इन्द्रो॒ न यो म॒हा कर्मा॑णि॒ चक्रि॑र्ह॒न्ता वृ॒त्राणा॑मसि सोम पू॒र्भित् ।
पै॒द्वो न हि त्वमहि॑नाम्नां ह॒न्ता विश्व॑स्यासि सोम॒ दस्योः॑ ॥४
इन्द्रः॑ । न । यः । म॒हा । कर्मा॑णि । चक्रिः॑ । ह॒न्ता । वृ॒त्राणा॑म् । अ॒सि॒ । सो॒म॒ । पूः॒ऽभित् ।
पै॒द्वः । न । हि । त्वम् । अहि॑ऽनाम्नाम् । ह॒न्ता । विश्व॑स्य । अ॒सि॒ । सो॒म॒ । दस्योः॑ ॥४
इन्द्रः । न । यः । महा । कर्माणि । चक्रिः । हन्ता । वृत्राणाम् । असि । सोम । पूःऽभित् ।
पैद्वः । न । हि । त्वम् । अहिऽनाम्नाम् । हन्ता । विश्वस्य । असि । सोम । दस्योः ॥४
“इन्द्रो “न इन्द्र इव “यः त्वं “महा महान्ति “कर्माणि “चक्रिः ताच्छील्येन करोषि स त्वं हे “सोम “वृत्राणां शत्रूणां “हन्ता “असि भवसि । तथा “पूर्भित् पुरां भेत्तासि । किंच “पैद्वो “न अश्व इव खलु “अहिनाम्नां “हन्ता भवसि । आगत्य हन्तीत्यहिः । तन्नामकानामित्यर्थः । न केवलं तेषामेव अपि तु “विश्वस्य अपि सर्वस्यापि "दस्योः उपक्षपयितुः शत्रोर्हन्ता असि ॥
अ॒ग्निर्न यो वन॒ आ सृ॒ज्यमा॑नो॒ वृथा॒ पाजां॑सि कृणुते न॒दीषु॑ ।
जनो॒ न युध्वा॑ मह॒त उ॑प॒ब्दिरिय॑र्ति॒ सोमः॒ पव॑मान ऊ॒र्मिं ॥५
अ॒ग्निः । न । यः । वने॑ । आ । सृ॒ज्यमा॑नः । वृथा॑ । पाजां॑सि । कृ॒णु॒ते॒ । न॒दीषु॑ ।
जनः॑ । न । युध्वा॑ । म॒ह॒तः । उ॒प॒ब्दिः । इय॑र्ति । सोमः॑ । पव॑मानः । ऊ॒र्मिम् ॥५
अग्निः । न । यः । वने । आ । सृज्यमानः । वृथा । पाजांसि । कृणुते । नदीषु ।
जनः । न । युध्वा । महतः । उपब्दिः । इयर्ति । सोमः । पवमानः । ऊर्मिम् ॥५
“अग्निर्न अग्निरिव “यः सोमः “वने अरण्ये “आ “सृज्यमानः वनसंबन्ध्यग्निर्यथा बलानि कुरुते' एवं यः सोमः “वृथा अनायासेन “नदीषु आन्तरिक्षाणि “पाजांसि “कृणुते कुरुते । किंच “युध्वा युद्धस्य कत “जनो “न शूरो मनुष्य इव “महतः शत्रोः "उपब्दिः । वाङ्नामैतत् । शब्दयिता सन् "पवमानः पूयमानः “सोमः “ऊर्मिं प्रवृद्धं रसम् “इयर्ति प्रेरयति ।।
ए॒ते सोमा॒ अति॒ वारा॒ण्यव्या॑ दि॒व्या न कोशा॑सो अ॒भ्रव॑र्षाः ।
वृथा॑ समु॒द्रं सिन्ध॑वो॒ न नीचीः॑ सु॒तासो॑ अ॒भि क॒लशाँ॑ असृग्रन् ॥६
ए॒ते । सोमाः॑ । अति॑ । वारा॑णि । अव्या॑ । दि॒व्या । न । कोशा॑सः । अ॒भ्रऽव॑र्षाः ।
वृथा॑ । स॒मु॒द्रम् । सिन्ध॑वः । न । नीचीः॑ । सु॒तासः॑ । अ॒भि । क॒लशा॑न् । अ॒सृ॒ग्र॒न् ॥६
एते । सोमाः । अति । वाराणि । अव्या । दिव्या । न । कोशासः । अभ्रऽवर्षाः ।
वृथा । समुद्रम् । सिन्धवः । न । नीचीः । सुतासः । अभि । कलशान् । असृग्रन् ॥६
“एते पूयमानाः “सोमाः “अव्या अविमयानि “वाराणि वालानि “अति गच्छन्तीति शेषः । तत्र दृष्टान्तः । “दिव्या “न “कोशासः दिवि भवाः कोशा आप इव । ता विशेष्यन्ते । “अभ्रवर्षाः अभ्रैर्वृष्यमाणाः । किंच “वृथा अनायासेन “समुद्रं “सिन्धवो “न नद्य इव “नीचीः नीचीनाग्राः “सुतासः अभिषुताः सोमाः “कलशान् “अभि “असृग्रन् अभिगच्छन्ति ॥
शु॒ष्मी शर्धो॒ न मारु॑तं पव॒स्वान॑भिशस्ता दि॒व्या यथा॒ विट् ।
आपो॒ न म॒क्षू सु॑म॒तिर्भ॑वा नः स॒हस्रा॑प्साः पृतना॒षाण्न य॒ज्ञः ॥७
शु॒ष्मी । शर्धः॑ । न । मारु॑तम् । प॒व॒स्व॒ । अन॑भिऽशस्ता । दि॒व्या । यथा॑ । विट् ।
आपः॑ । न । म॒क्षु । सु॒ऽम॒तिः । भ॒व॒ । नः॒ । स॒हस्र॑ऽअप्साः । पृ॒त॒ना॒षाट् । न । य॒ज्ञः ॥७
शुष्मी । शर्धः । न । मारुतम् । पवस्व । अनभिऽशस्ता । दिव्या । यथा । विट् ।
आपः । न । मक्षु । सुऽमतिः । भव । नः । सहस्रऽअप्साः । पृतनाषाट् । न । यज्ञः ॥७
हे सोम “शुष्मी । शुष्मं बलं शोषणात् । बलवांस्त्वं “मारुतं “शर्धो “न मरुतां बलमिव “पवस्व । तत्र दृष्टान्तमेव स्पष्टयति । “यथा "दिव्या "विट् प्रजा "अनभिशस्ता । अभिशासो निन्दा । अनिन्दिता पवते । ‘ मरुतो वै देवानां विशः '(तै. सं. २. २. ५, ७) इति हि ब्राह्मणम् । किंच “आपो “न उदकानीव “मक्षु क्षिप्रं पवमानस्त्वं "सुमतिः “भव “नः अस्माकम् । किंच “सहस्राप्साः। अप्स इति रूपनाम । बहुरूपस्त्वं “पृतनाषाट् पृतनानामभिभवितेन्द्र इव "यज्ञः यष्टव्यो भवसीति ॥
राज्ञो॒ नु ते॒ वरु॑णस्य व्र॒तानि॑ बृ॒हद्ग॑भी॒रं तव॑ सोम॒ धाम॑ ।
शुचि॒ष्ट्वम॑सि प्रि॒यो न मि॒त्रो द॒क्षाय्यो॑ अर्य॒मेवा॑सि सोम ॥८
राज्ञः॑ । नु । ते॒ । वरु॑णस्य । व्र॒तानि॑ । बृ॒हत् । ग॒भी॒रम् । तव॑ । सो॒म॒ । धाम॑ ।
शुचिः॑ । त्वम् । अ॒सि॒ । प्रि॒यः । न । मि॒त्रः । द॒क्षाय्यः॑ । अ॒र्य॒माऽइ॑व । अ॒सि॒ । सो॒म॒ ॥८
राज्ञः । नु । ते । वरुणस्य । व्रतानि । बृहत् । गभीरम् । तव । सोम । धाम ।
शुचिः । त्वम् । असि । प्रियः । न । मित्रः । दक्षाय्यः । अर्यमाऽइव । असि । सोम ॥८
हे “सोम “वरुणस्य वारकस्य “ते तव “व्रतानि कर्माणि "नु क्षिप्रं करोमीति शेषः । हे “सोम “तव “धाम तेजःस्थानं “बृहत् महत् “गभीरं च । “प्रियः “मित्रः इव “त्वं “शुचिः दीप्तः शुद्धो वा “असि । “अर्यमेव अर्यमा देव इव त्वं “दक्षाय्यः “असि ॥ ॥ २४ ॥
मण्डल ९ | |||
---|---|---|---|