ऋग्वेदः सूक्तं ९.९९
← सूक्तं ९.९८ | ऋग्वेदः - मण्डल ९ सूक्तं ९.९९ रेभसूनू काश्यपौ |
सूक्तं ९.१०० → |
दे. पवमानः सोमः। अनुष्टुप्, १ बृहती |
आ हर्यताय धृष्णवे धनुस्तन्वन्ति पौंस्यम् ।
शुक्रां वयन्त्यसुराय निर्णिजं विपामग्रे महीयुवः ॥१॥
अध क्षपा परिष्कृतो वाजाँ अभि प्र गाहते ।
यदी विवस्वतो धियो हरिं हिन्वन्ति यातवे ॥२॥
तमस्य मर्जयामसि मदो य इन्द्रपातमः ।
यं गाव आसभिर्दधुः पुरा नूनं च सूरयः ॥३॥
तं गाथया पुराण्या पुनानमभ्यनूषत ।
उतो कृपन्त धीतयो देवानां नाम बिभ्रतीः ॥४॥
तमुक्षमाणमव्यये वारे पुनन्ति धर्णसिम् ।
दूतं न पूर्वचित्तय आ शासते मनीषिणः ॥५॥
स पुनानो मदिन्तमः सोमश्चमूषु सीदति ।
पशौ न रेत आदधत्पतिर्वचस्यते धियः ॥६॥
स मृज्यते सुकर्मभिर्देवो देवेभ्यः सुतः ।
विदे यदासु संददिर्महीरपो वि गाहते ॥७॥
सुत इन्दो पवित्र आ नृभिर्यतो वि नीयसे ।
इन्द्राय मत्सरिन्तमश्चमूष्वा नि षीदसि ॥८॥
सायणभाष्यम्
‘ आ हर्यताय' इत्यष्टर्चं तृतीयं सूक्तम् । कश्यपगोत्रौ रेभसूनू एतत्संज्ञौ द्वावृषी । आद्या बृहती सप्तानुष्टुभः। पवमानसोमो देवता । तथा चानुक्रान्तम्-' आ हर्यतायाष्टौ रेभसूनू काश्यपौ बृहत्याद्या ' इति । गतो विनियोगः ॥
आ ह॑र्य॒ताय॑ धृ॒ष्णवे॒ धनु॑स्तन्वंति॒ पौंस्यं॑ ।
शु॒क्रां व॑यं॒त्यसु॑राय नि॒र्णिजं॑ वि॒पामग्रे॑ मही॒युवः॑ ॥१
आ । ह॒र्य॒ताय॑ । धृ॒ष्णवे॑ । धनुः॑ । त॒न्व॒न्ति॒ । पौंस्य॑म् ।
शु॒क्राम् । व॒य॒न्ति॒ । असु॑राय । निः॒ऽनिज॑म् । वि॒पाम् । अग्रे॑ । म॒ही॒युवः॑ ॥१
आ । हर्यताय । धृष्णवे । धनुः । तन्वन्ति । पौंस्यम् ।
शुक्राम् । वयन्ति । असुराय । निःऽनिजम् । विपाम् । अग्रे । महीयुवः ॥१
"हर्यताय सर्वैः स्पृहणीयाय “धृष्णवे शत्रूणां धर्षणशीलाय सोमाय “पौंस्यं पुंस्त्वस्याभिव्यञ्जकं “धनुः “आ “तन्वन्ति । धनुषि ज्यां कुर्वन्तीति । सोमस्य धाराविसर्गार्थं वितायमानं पवित्रमभिधीयते । तदेव विवृणोति । “महीयुवः पूजाकामा ऋत्विजः "विपां मेधाविनां देवानाम् "अग्रे पुरस्तात् “शुक्रां शुक्लवर्णां "निर्णिजं यथा सोमो निर्णिज्यते ताम् "असुराय बलवते "वयन्ति वितन्वन्ति । दशापवित्रं विस्तारयन्तीत्यर्थः । वयतिर्गतिकर्मा ॥
अध॑ क्ष॒पा परि॑ष्कृतो॒ वाजाँ॑ अ॒भि प्र गा॑हते ।
यदी॑ वि॒वस्व॑तो॒ धियो॒ हरिं॑ हि॒न्वंति॒ यात॑वे ॥२
अध॑ । क्ष॒पा । परि॑ऽकृतः । वाजा॑न् । अ॒भि । प्र । गा॒ह॒ते॒ ।
यदि॑ । वि॒वस्व॑तः । धियः॑ । हरि॑म् । हि॒न्वन्ति॑ । यात॑वे ॥२
अध । क्षपा । परिऽकृतः । वाजान् । अभि । प्र । गाहते ।
यदि । विवस्वतः । धियः । हरिम् । हिन्वन्ति । यातवे ॥२
“क्षपा । 'सुपां सुलुक्' इति पञ्चम्या आकारः । क्षपाया रात्रेः "अध अनन्तरं प्रातःकाले “परिष्कृतः । भूषणार्थे ' संपर्युपेभ्यः' इति करोतेः सुडागमः । अद्भिरलंकृतः । यद्वा । क्षपयित्र्यां सेनायामलंकृतः । सोमः "वाजान् अन्नानि बलानि वाभिलक्ष्य “प्र “गाहते प्रगच्छति । "विवस्वतः परिचरणवतो यजमानस्य "धियः कर्मसाधनभूता अङ्गुलयः "हरिं हरितवर्णमेतमंशुं “यातवे पात्राण्यभिगमनाय "यदि “हिन्वन्ति प्रेरयन्ति तर्हि सवनानि गच्छतीति ॥
तम॑स्य मर्जयामसि॒ मदो॒ य इं॑द्र॒पात॑मः ।
यं गाव॑ आ॒सभि॑र्द॒धुः पु॒रा नू॒नं च॑ सू॒रयः॑ ॥३
तम् । अ॒स्य॒ । म॒र्ज॒या॒म॒सि॒ । मदः॑ । यः । इ॒न्द्र॒ऽपात॑मः ।
यम् । गावः॑ । आ॒सऽभिः॑ । द॒धुः । पु॒रा । नू॒नम् । च॒ । सू॒रयः॑ ॥३
तम् । अस्य । मर्जयामसि । मदः । यः । इन्द्रऽपातमः ।
यम् । गावः । आसऽभिः । दधुः । पुरा । नूनम् । च । सूरयः ॥३
"अस्य सोमस्य "तं रसं “मर्जयामसि मर्जयामः शोधयामः । अलंकुर्मो वा। “यः "मदः मदको रसः "इन्द्रपातमः इन्द्रेणात्यन्तं पातव्यो भवति । किंच “गावः गन्तारः "सूरयः स्तोतारः “पुरा “च "नूनम् इदानीं च "यं सोमरसम् "आसभिः आस्यैः "दधुः धारयन्ति । पिबन्तीति यावत् । यद्वा । गावो धेनवो यं सोमं तृणादिष्ववस्थितमासभिरास्यैर्दधुर्धारयन्ति तृणरूपेण भक्षयन्ति ॥
तं गाथ॑या पुरा॒ण्या पु॑ना॒नम॒भ्य॑नूषत ।
उ॒तो कृ॑पंत धी॒तयो॑ दे॒वानां॒ नाम॒ बिभ्र॑तीः ॥४
तम् । गाथ॑या । पु॒रा॒ण्या । पु॒ना॒नम् । अ॒भि । अ॒नू॒ष॒त॒ ।
उ॒तो इति॑ । कृ॒प॒न्त॒ । धी॒तयः॑ । दे॒वाना॑म् । नाम॑ । बिभ्र॑तीः ॥४
तम् । गाथया । पुराण्या । पुनानम् । अभि । अनूषत ।
उतो इति । कृपन्त । धीतयः । देवानाम् । नाम । बिभ्रतीः ॥४
“पुनानं पूयमानं "तं सोमं "पुराण्या पुरा कृतया "गाथया स्तुत्या "अभ्यनूषत स्तोतारः अभिष्टुवन्ति । 'नू स्तवने'। लुङि रूपम् । "उतो अपि च "नाम कर्मार्थं नमनं "बिभ्रतीः बिभ्राणाः “धीतयः "अङ्गुलयः "देवानां सोमरूपहविष्प्रदानाय "कृपन्त कल्पयन्ति समर्था भवन्ति । ‘ कृपू सामर्थ्ये ' ॥
तमु॒क्षमा॑णम॒व्यये॒ वारे॑ पुनंति धर्ण॒सिं ।
दू॒तं न पू॒र्वचि॑त्तय॒ आ शा॑सते मनी॒षिणः॑ ॥५
तम् । उ॒क्षमा॑णम् । अ॒व्यये॑ । वारे॑ । पु॒न॒न्ति॒ । ध॒र्ण॒सिम् ।
दू॒तम् । न । पू॒र्वऽचि॑त्तये । आ । शा॒स॒ते॒ । म॒नी॒षिणः॑ ॥५
तम् । उक्षमाणम् । अव्यये । वारे । पुनन्ति । धर्णसिम् ।
दूतम् । न । पूर्वऽचित्तये । आ । शासते । मनीषिणः ॥५
“उक्षमाणम् अद्भिः सिच्यमानं “धर्णसिं सर्वस्य धारकं "तं सोमम् "अव्यये अविमये "वारे वाले पवित्रे “पुनन्ति शोधयन्ति । ततः "मनीषिणः मेधाविनो यजमानाः तमिमं सोमं "दूतं “न दूतमिव "पूर्वचित्तये देवानां पूर्वमेव प्रज्ञापनाय “आ “शासते प्रार्थयन्ते ॥ ॥ २५ ॥
स पु॑ना॒नो म॒दिंत॑मः॒ सोम॑श्च॒मूषु॑ सीदति ।
प॒शौ न रेत॑ आ॒दध॒त्पति॑र्वचस्यते धि॒यः ॥६
सः । पु॒ना॒नः । म॒दिन्ऽत॑मः । सोमः॑ । च॒मूषु॑ । सी॒द॒ति॒ ।
प॒शौ । न । रेतः॑ । आ॒ऽदध॑त् । पतिः॑ । व॒च॒स्य॒ते॒ । धि॒यः ॥६
सः । पुनानः । मदिन्ऽतमः । सोमः । चमूषु । सीदति ।
पशौ । न । रेतः । आऽदधत् । पतिः । वचस्यते । धियः ॥६
“मदिन्तमः अत्यन्तं मादयिता “सः "सोमः "पुनानः पूयमानः सन् “चमूषु चमसेषु “सीदति । ततः "पशौ "न यथा पशौ कश्चिद्वृषभो रेत आदधाति तद्वञ्चमसादिषु "रेतः स्वीयं रसम् “आदधत् आदधानः "धियः कर्मणः "पतिः पालयितायं सोमः “वचस्यते अभिष्टूयते ॥
स मृ॑ज्यते सु॒कर्म॑भिर्दे॒वो दे॒वेभ्यः॑ सु॒तः ।
वि॒दे यदा॑सु संद॒दिर्म॒हीर॒पो वि गा॑हते ॥७
सः । मृ॒ज्य॒ते॒ । सु॒कर्म॑ऽभिः । दे॒वः । दे॒वेभ्यः॑ । सु॒तः ।
वि॒दे । यत् । आ॒सु॒ । स॒म्ऽद॒दिः । म॒हीः । अ॒पः । वि । गा॒ह॒ते॒ ॥७
सः । मृज्यते । सुकर्मऽभिः । देवः । देवेभ्यः । सुतः ।
विदे । यत् । आसु । सम्ऽददिः । महीः । अपः । वि । गाहते ॥७
“देवेभ्यः देवार्थं “सुतः अभिषुतः “देवः द्योतमानः स्तोतव्यो वा "सः सोमः "सुकर्मभिः ऋत्विग्भिः "मृज्यते परिपूयते । "यत् यदायं सोमः “आसु प्रजासु "संददिः सम्यग्धनदानशील इति “विदे ज्ञायते तदानीं "महीः महतीः "अपः वसतीवरीः "वि “गाहते विशेषेणाभिगच्छति । यदा सोममभिषुण्वन्ति तदा तेभ्यो धनं प्रयच्छतीत्यर्थः ॥
सु॒त इं॑दो प॒वित्र॒ आ नृभि॑र्य॒तो वि नी॑यसे ।
इंद्रा॑य मत्स॒रिंत॑मश्च॒मूष्वा नि षी॑दसि ॥८
सु॒तः । इ॒न्दो॒ इति॑ । प॒वित्रे॑ । आ । नृऽभिः॑ । य॒तः । वि । नी॒य॒से॒ ।
इन्द्रा॑य । म॒त्स॒रिन्ऽत॑मः । च॒मूषु॑ । आ । नि । सी॒द॒सि॒ ॥८
सुतः । इन्दो इति । पवित्रे । आ । नृऽभिः । यतः । वि । नीयसे ।
इन्द्राय । मत्सरिन्ऽतमः । चमूषु । आ । नि । सीदसि ॥८
हे “इन्दो “सुतः अभिषुतः “यतः आयतः सर्वतो विस्तृतस्त्वं “नृभिः कर्मनेतृभिर्ऋत्विग्भिः “पवित्रे “वि “नीयसे विशेषेण नीयमानो भवसि । ततः “मत्सरिन्तमः अतिशयेन मादयिता त्वम् “इन्द्राय इन्द्रार्थं “चमूषु चमसेषु “आ “नि “षीदसि ॥ ॥ २६ ॥
मण्डल ९ | |||
---|---|---|---|