सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ९/औदलम्
अभी नो वाजसातमं रयिमर्ष शतस्पृहं ।
इन्दो सहस्रभर्णसं तुविद्युम्नं विभासहं ॥ १२३८ ॥ ऋ. ९.९८.१
वयं ते अस्य राधसो वसोर्वसो पुरुस्पृहः ।
नि नेदिष्ठतमा इषः स्याम सुम्ने ते आध्रिगो ॥ १२३९ ॥
परि स्य स्वानो अक्षरिदिन्दुरव्ये मदच्युतः ।
धारा य ऊर्ध्वो अध्वरे भ्राजा न याति गव्ययुः ॥ १२४० ॥
टिप्पणी
औदलं भवति। उदलो वा एतेन वैश्वामित्रः प्रजातिं भूमानमगच्छत् प्रजायते बहुर्भवत्यौदलेन तुष्टुवानः - पञ्च.ब्रा १४.११.३२
अथौदलम्। उदलो वै दैवरातो ऽकामयताग्रो मुख्यो ब्रह्मवर्चसी स्याम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै सो ऽग्र्यो मुख्यो ब्रह्मवर्चस्य् अभवत्। अग्रिया मुख्या ब्रह्मवर्चसिनो ऽसामेति सत्रम् आसते। अग्रिया एव मुख्या ब्रह्मवर्चसिनो भवन्ति। तत् स्वारम् अनुष्टुभि क्रियते, रूपसमृद्धतायै। गायत्रयोनि सद् अनुष्टुभि क्रियते। द्वन्द्वं वै भूत्वा पशवो वीर्याण्य् उद्यच्छन्ति। पशवश् छन्दोमाः। तस्माच् छन्दोमेषु क्रियते। यद् उदलो दैवरातो ऽपश्यत् तस्माद् औदलम् इत्य् आख्यायते॥जैब्रा ३.२२८
दशरात्रे अष्टमस्याह्नः - अभीनोवाजसातममिति गौरीवितं च कौत्सं च शुद्धाशुद्धीयं च क्रौञ्चं च रयिष्ठं चौदलं च । - आर्षेयकल्पः उपोद्घातः पृ, ७९