सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ६/श्नौष्ठम्

विकिस्रोतः तः
श्नौष्ठम्
श्नौष्ठम्.

२१
अया पवा पवस्वैना वसूनि मांश्चत्व इन्दो सरसि प्र धन्व |
ब्रघ्नश्चिद्यस्य वातो न जूतिं पुरुमेधाश्चित्तकवे नरं धात् ||११०४ ||
उत न एना पवया पवस्वाधि श्रुते श्रवाय्यस्य तीर्थे |
षष्टिं सहस्रा नैगुतो वसूनि वृक्षं न पक्वं धूनवद्रणाय || ११०५ ||
महीमे अस्य वृष नाम शूषे मांश्चत्वे वा पृशने वा वधत्रे |
अस्वापयन्निगुतः स्नेहयच्चापामित्रां अपाचितो अचेतः || ११०६ ||
(ऋग्वेदः ९.९७.५२)

१८. श्नौष्ठम् ।। श्नुष्टिः। त्रिष्टुप् । पवमानस्सोमः ।।
औहोहाइ । अयोहाइ ॥ पवापवस्वैनावसूऽ२३नी। ओऽ३होइ । इहा। ईऽ३या। माꣳश्चत्वइन्दोसरसिप्रधाऽ२३न्वा । ओऽ३होइ । इहा । ईऽ३या ।। ब्रध्नश्चिद्यस्यवातोनजूऽ२३तीम् । औऽ३होइ । इहो । ईऽ३या ॥ पुरुमेधाश्चित्तकवेनराऽ२३न्धात् । औऽ३होइ । इहा। ईऽ२ । याऽ२३४ । औहोवा ॥ श्रीः ॥ औहोहाइ । उतोहाइ ॥ नएनापवयापवाऽ२३स्वा । औऽ३होइ । इहा । ईऽ३या। अधिश्रुतेश्रवायियस्यताऽ२३इर्थाइ । औऽ३होइ। इहा। ईऽ३या ॥ षष्टिꣳसहस्रानैगुतोवसूऽ२३नी। औऽ३होइ । इहा । ईऽ३या ॥ वृक्षन्नपक्वन्धूनवद्रणाऽ२३या । औऽ३होइ । इहा । ईऽ२ । याऽ२३४ । औहोवा ॥ श्रीः ॥ औहोहाइ । महोहाइ ॥ मेअस्यवृषनामशूऽ२३षाइ.। औऽ३होइ । इहा। ईऽ३या। माꣳश्चत्वेवापृशनेवावधाऽ२३त्राइ । ओऽ३होइ । इहा। ईऽ३या ॥ अस्वापयन्निगुतस्नेहयाऽ२३च्चा । ओऽ३होइ। इहा। इऽ३या ॥ अपामित्राꣳ अपाचितोअचाऽ२३इताः । औऽ३होइ । इहा । ईऽ२ । याऽ२३४ । औहोवा ॥ एऽ३। दीदिहीऽ१ ॥
दी. ४२. उत् . ११, मा. ३१. च. ॥११८।।

[सम्पाद्यताम्]

टिप्पणी

श्नुष्टिः किं भवति, न ज्ञायते। शौनकीये अथर्ववेदे ३.१७.२ मन्त्रः अस्ति -

युनक्त सीरा वि युगा तनोत कृते योनौ वपतेह बीजम् ।

विराजः श्नुष्टिः सभरा असन् नो नेदीय इत्सृण्यः पक्वमा यवन् ॥२॥

ऋग्वेदे १०.१०१.३ मन्त्रः अस्ति -

युनक्त सीरा वि युगा तनुध्वं कृते योनौ वपतेह बीजम् ।

गिरा च श्रुष्टिः सभरा असन्नो नेदीय इत्सृण्यः पक्वमेयात् ॥३॥

अनेन प्रकारेण श्रुष्टि - श्नुष्टि पाठभेदः अस्ति। सायणभाष्यानुसारेण अयं व्याकरणसम्मतः अस्ति। श्नौष्ठं सामे एवं कृषिसंज्ञके मन्त्रे वृक्षे फलस्य पाकस्य उल्लेखः उल्लेखनीयमस्ति।