सामवेदः/कौथुमीया/संहिता/ऊहगानम्/अहीनपर्व/विंशः ६/वाराहम्

विकिस्रोतः तः
वाराहम्.
वाराहम्.

प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति ।
महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन् ॥१११६ ॥ ऋ. ९.९७.७
प्र हंसासस्तृपला वग्नुमच्छामादस्तं वृषगणा अयासुः ।
आङ्गोषिणं पवमानं सखायो दुर्मर्षं वाणं प्र वदन्ति साकं ॥ १११७ ॥
स योजत उरुगायस्य जूतिं वृथा क्रीडन्तं मिमते न गावः ।
परीणसं कृणुते तिग्मशृङ्गो दिवा हरिर्ददृशे नक्तमृज्रः ॥ १११८ ॥

१६. वाराहम् ।। वराहः । त्रिष्टुप् । पवमानस्सोमः ॥

हाउहाउ । हुप् । प्रकावियाम् । उशने । वब्रुवाणाः ॥ देवोदेवा । नाऽञ्जनि । माविवक्ती ॥ महिव्रताः । शुचिबाs३ । धुᳲपवाकाः ॥ पदावरा । होs३अभि । आs३४३इ । तीs३राs५इ " भाs६५६न् ॥ श्रीः ॥ प्रह৺सासाः । तृपला । वग्नुमच्छा ॥ अमादस्ताम् । वृषग । णाअयासूः ॥ अङ्गोषिणाम् । पवमा । न৺सखायाः ॥ दुर्मर्षवा । णाऽ३म्प्रव । दाऽ३४३ । तीऽ३साऽ५"काऽ६५६म् ॥ श्रीः॥ ॥ सयोजताइ । उरुगा । यस्यजूतीम् ॥ वृथाक्रीडा । ताऽ३म्मिम । तेनगावाः ॥ परीणसाम् । कृणुते । तिग्मशृङ्गाः ॥ हाउहाउ । हुप् । दिवाहराइः । ददृशे । नाऽ३४३। क्ताऽ३माऽ५" र्ज्राऽ६५६: ।।

दी. २३ . उ. १.९ मा. २९. ढो. ॥ ६५१॥

[सम्पाद्यताम्]