ऋग्वेदः सूक्तं ९.७०
← सूक्तं ९.६९ | ऋग्वेदः - मण्डल ९ सूक्तं ९.७० रेणुर्वैश्वामित्रः |
सूक्तं ९.७१ → |
दे. पवमानः सोमः। जगती, १० त्रिष्टुप् |
त्रिरस्मै सप्त धेनवो दुदुह्रे सत्यामाशिरं पूर्व्ये व्योमनि ।
चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्धत ॥१॥
स भिक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे ।
तेजिष्ठा अपो मंहना परि व्यत यदी देवस्य श्रवसा सदो विदुः ॥२॥
ते अस्य सन्तु केतवोऽमृत्यवोऽदाभ्यासो जनुषी उभे अनु ।
येभिर्नृम्णा च देव्या च पुनत आदिद्राजानं मनना अगृभ्णत ॥३॥
स मृज्यमानो दशभिः सुकर्मभिः प्र मध्यमासु मातृषु प्रमे सचा ।
व्रतानि पानो अमृतस्य चारुण उभे नृचक्षा अनु पश्यते विशौ ॥४॥
स मर्मृजान इन्द्रियाय धायस ओभे अन्ता रोदसी हर्षते हितः ।
वृषा शुष्मेण बाधते वि दुर्मतीरादेदिशानः शर्यहेव शुरुधः ॥५॥
स मातरा न ददृशान उस्रियो नानददेति मरुतामिव स्वनः ।
जानन्नृतं प्रथमं यत्स्वर्णरं प्रशस्तये कमवृणीत सुक्रतुः ॥६॥
रुवति भीमो वृषभस्तविष्यया शृङ्गे शिशानो हरिणी विचक्षणः ।
आ योनिं सोमः सुकृतं नि षीदति गव्ययी त्वग्भवति निर्णिगव्ययी ॥७॥
शुचिः पुनानस्तन्वमरेपसमव्ये हरिर्न्यधाविष्ट सानवि ।
जुष्टो मित्राय वरुणाय वायवे त्रिधातु मधु क्रियते सुकर्मभिः ॥८॥
पवस्व सोम देववीतये वृषेन्द्रस्य हार्दि सोमधानमा विश ।
पुरा नो बाधाद्दुरिताति पारय क्षेत्रविद्धि दिश आहा विपृच्छते ॥९॥
हितो न सप्तिरभि वाजमर्षेन्द्रस्येन्दो जठरमा पवस्व ।
नावा न सिन्धुमति पर्षि विद्वाञ्छूरो न युध्यन्नव नो निद स्पः ॥१०॥
सायणभाष्यम्
‘ त्रिरस्मै ' इति दशर्चं तृतीयं सूक्तं वैश्वामित्रस्य रेणोरार्षम् । दशमी त्रिष्टुप् शिष्टा जगत्यः ।। पवमानः सोमो देवता । ' त्रिरस्मै रेणुः' इत्यनुक्रान्तम् । गतो विनियोगः ॥
त्रिर॑स्मै स॒प्त धे॒नवो॑ दुदुह्रे स॒त्यामा॒शिरं॑ पू॒र्व्ये व्यो॑मनि ।
च॒त्वार्य॒न्या भुव॑नानि नि॒र्णिजे॒ चारू॑णि चक्रे॒ यदृ॒तैरव॑र्धत ॥१
त्रिः । अ॒स्मै॒ । स॒प्त । धे॒नवः॑ । दु॒दु॒ह्रे॒ । स॒त्याम् । आ॒ऽशिर॑म् । पू॒र्व्ये । विऽओ॑मनि ।
च॒त्वारि॑ । अ॒न्या । भुव॑नानि । निः॒ऽनिजे॑ । चारू॑णि । च॒क्रे॒ । यत् । ऋ॒तैः । अव॑र्धत ॥१
त्रिः । अस्मै । सप्त । धेनवः । दुदुह्रे । सत्याम् । आऽशिरम् । पूर्व्ये । विऽओमनि ।
चत्वारि । अन्या । भुवनानि । निःऽनिजे । चारूणि । चक्रे । यत् । ऋतैः । अवर्धत ॥१
“अस्मै पवमानाय “पूर्व्ये पूर्वैः कृते "व्योमनि । विविधमोमावनं गमनं देवानामत्रेति व्योम यज्ञः । तस्मिन् स्थिताय । यद्वा । प्रत्ने व्योमन्यन्तरिक्षे वर्तमानाय । "त्रिः "सप्त एकविंशतिसंख्याकाः “धेनवः प्रीणयित्र्यो गावः “सत्यां यथार्थभूताम् “आशिरम् आश्रयणसाधनं क्षीरादि “दुदुहे दुहन्ति । यद्वा । त्रिः सप्त द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः' (तै. सं.५.४.१२.२) इत्येतैः सर्वैः सह गोषु पय उत्पाद्यते तद्भावो दुहन्त इति । किंचायं सोमः "अन्या अन्यानि “चत्वारि “भुवनानि उदकानि वसतीवरीस्तिस्रश्चैकधना इति तानि चतुःसंख्याकानि “चारूणि कल्याणान्युदकानि “निर्णिजे निर्णेजनाय परिशोधनाय परिपोषणाय वा “चक्रे । कदा करोति । “यत् यदा अयम् "ऋतैः यज्ञैः “अवर्धत वर्धितवान् तदा करोति ॥
स भिक्ष॑माणो अ॒मृत॑स्य॒ चारु॑ण उ॒भे द्यावा॒ काव्ये॑ना॒ वि श॑श्रथे ।
तेजि॑ष्ठा अ॒पो मं॒हना॒ परि॑ व्यत॒ यदी॑ दे॒वस्य॒ श्रव॑सा॒ सदो॑ वि॒दुः ॥२
सः । भिक्ष॑माणः । अ॒मृत॑स्य । चारु॑णः । उ॒भे इति॑ । द्यावा॑ । काव्ये॑न । वि । श॒श्र॒थे॒ ।
तेजि॑ष्ठाः । अ॒पः । मं॒हना॑ । परि॑ । व्य॒त॒ । यदि॑ । दे॒वस्य॑ । श्रव॑सा । सदः॑ । वि॒दुः ॥२
सः । भिक्षमाणः । अमृतस्य । चारुणः । उभे इति । द्यावा । काव्येन । वि । शश्रथे ।
तेजिष्ठाः । अपः । मंहना । परि । व्यत । यदि । देवस्य । श्रवसा । सदः । विदुः ॥२
“सः पवमानः “चारुणः कल्याणस्य “अमृतस्य उदकस्य । ‘क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानसंज्ञा । चतुर्थ्यर्थे बहुलम्' (पा. सू. २.३.६२) इति षष्ठी । चारूदकं “भिक्षमाणः यष्टृभिर्याच्यमानः सन् "उभे । द्यावादेशस्य द्वंद्वे विहितत्वादत्रोत्तरपदाभावे द्वंद्वः प्रतीयते । उभे द्यावापृथिव्यौ “काव्येन कविकर्मणा “वि “शश्रथे विवृते करोति । यज्ञनिमित्तेन उदकेन संपूरयतीत्यर्थः । किंच "तेजिष्ठाः अतिशयेन दीप्तानि “अपः उदकानि "मंहना महत्त्वेन “परि “व्यत वरणार्थं परित आच्छादयति । “यदि यदा ऋत्विजः “देवस्य द्योतमानस्य सोमस्य “सदः स्थानं “श्रवसा हविषा युक्ताः सन्तः “विदुः यागार्थं जानन्ति लभन्ते तदा परित आवृणोतीति । ‘ विद ज्ञाने'।' सिजभ्यस्त°' इति झेर्जुसादेशः ॥
ते अ॑स्य सन्तु के॒तवोऽमृ॑त्य॒वोऽदा॑भ्यासो ज॒नुषी॑ उ॒भे अनु॑ ।
येभि॑र्नृ॒म्णा च॑ दे॒व्या॑ च पुन॒त आदिद्राजा॑नं म॒नना॑ अगृभ्णत ॥३
ते । अ॒स्य॒ । स॒न्तु॒ । के॒तवः॑ । अमृ॑त्यवः । अदा॑भ्यासः । ज॒नुषी॒ इति॑ । उ॒भे इति॑ । अनु॑ ।
येभिः॑ । नृ॒म्णा । च॒ । दे॒व्या॑ । च॒ । पु॒न॒ते । आत् । इत् । राजा॑नम् । म॒ननाः॑ । अ॒गृ॒भ्ण॒त॒ ॥३
ते । अस्य । सन्तु । केतवः । अमृत्यवः । अदाभ्यासः । जनुषी इति । उभे इति । अनु ।
येभिः । नृम्णा । च । देव्या । च । पुनते । आत् । इत् । राजानम् । मननाः । अगृभ्णत ॥३
“अस्य एतादृशस्य सोमस्य "केतवः प्रज्ञापकाः सर्वैश्चायनीयाः “अमृत्यवः मरणधर्मरहिता अत एव “अदाभ्यासः । दभेश्चेति वक्तव्यम्' (पा. सू. ३. १. १२४. ३) इति ण्यत् । परैरहिंस्याः “ते तादृशाः अस्य रश्मयः “उभे “जनुषी जन्मनी स्थावरजङ्गमात्मके द्वे “अनु लक्षीकृत्य “सन्तु रक्षन्तु । ओषधीनामयं सोमो रेतो निषिञ्चति यज्ञे मनुष्याणां च धाराः स्रवन्ति खलु । सोऽयं “येभिः यैः केतुभिः "नृम्णा नृम्णानि बलानि “देव्या देवार्हाणि “च अन्नानि “पुनते प्रेरयति “आदित् अभिषवानन्तरमेव “राजानं सोमं “मननाः मननीयाः स्तुतयः "अगृभ्णत परिगृह्णन्ति । प्राप्नुवन्तीत्यर्थः । ‘ हृग्रहोः' इति भकारः ॥
स मृ॒ज्यमा॑नो द॒शभिः॑ सु॒कर्म॑भि॒ः प्र म॑ध्य॒मासु॑ मा॒तृषु॑ प्र॒मे सचा॑ ।
व्र॒तानि॑ पा॒नो अ॒मृत॑स्य॒ चारु॑ण उ॒भे नृ॒चक्षा॒ अनु॑ पश्यते॒ विशौ॑ ॥४
सः । मृ॒ज्यमा॑नः । द॒शऽभिः॑ । सु॒कर्म॑ऽभिः । प्र । म॒ध्य॒मासु॑ । मा॒तृषु॑ । प्र॒ऽमे । सचा॑ ।
व्र॒तानि॑ । पा॒नः । अ॒मृत॑स्य । चारु॑णः । उ॒भे इति॑ । नृ॒ऽचक्षाः॑ । अनु॑ । प॒श्य॒ते॒ । विशौ॑ ॥४
सः । मृज्यमानः । दशऽभिः । सुकर्मऽभिः । प्र । मध्यमासु । मातृषु । प्रऽमे । सचा ।
व्रतानि । पानः । अमृतस्य । चारुणः । उभे इति । नृऽचक्षाः । अनु । पश्यते । विशौ ॥४
"सः पवमानः “सुकर्मभिः शोभनकर्मयुक्ताभिः "दशभिः दशसंख्याकाभिरङ्गुलीभिः “मृज्यमानः सः “सचा ‘अग्नौ प्रास्ताहुतिः' इत्यादिक्रमेणापां सहायः “प्रमे लोकान् प्रमातुं “मध्यमासु अन्तरिक्षस्थितासु अवतिष्ठते ॥ प्रमे । प्रपूर्वान्मातेः क्विपि ङयि ‘आतः' इति योगविभागादाकारलोपः ॥ किंच “नृचक्षाः नृणां द्रष्टा पवमानः “चारुणः कल्याणस्य “अमृतस्य उदकस्य वृष्ट्यर्थं “व्रतानि यागादिकर्माणि “पानः रक्षन् “उभे “विशौ मनुष्यान् देवांश्चान्तरिक्षेण गच्छन् “अनु “पश्यते अनुपश्यति । मनुष्यानभिमतदानेन देवान् हविष्प्रदानेनेति ।।
स म॑र्मृजा॒न इ॑न्द्रि॒याय॒ धाय॑स॒ ओभे अ॒न्ता रोद॑सी हर्षते हि॒तः ।
वृषा॒ शुष्मे॑ण बाधते॒ वि दु॑र्म॒तीरा॒देदि॑शानः शर्य॒हेव॑ शु॒रुधः॑ ॥५
सः । म॒र्मृ॒जा॒नः । इ॒न्द्रि॒याय॑ । धाय॑से । आ । उ॒भे इति॑ । अ॒न्तरिति॑ । रोद॑सी॒ इति॑ । ह॒र्ष॒ते॒ । हि॒तः ।
वृषा॑ । शुष्मे॑ण । बा॒ध॒ते॒ । वि । दुः॒ऽम॒तीः । आ॒देदि॑शानः । श॒र्य॒हाऽइ॑व । शु॒रुधः॑ ॥५
सः । मर्मृजानः । इन्द्रियाय । धायसे । आ । उभे इति । अन्तरिति । रोदसी इति । हर्षते । हितः ।
वृषा । शुष्मेण । बाधते । वि । दुःऽमतीः । आदेदिशानः । शर्यहाऽइव । शुरुधः ॥५
“मर्मृजानः पवित्रेण मृज्यमानः “सः पवमानः “धायसे जगतो धारकाय “इन्द्रियाय इन्द्रस्य पर्याप्ताय बलाय तदर्थम् “उभे “रोदसी। ‘ कालाध्वनोः' इति द्वितीया । उभयोः द्यावापृथिव्योः “अन्तः “हितः मध्ये वर्तमानः सन् “आ “हर्षते सर्वतो गच्छति । इन्द्रस्य हि सोमेन बलं भवति । “वृषा कामानामुदकानां वा वर्षकः सोऽयं “शुष्मेण शोषकेण बलेन “दुर्मतीः दुष्टबुद्धीनसुरान् “वि “बाधते विशेषेण पीडयति । किं कुर्वन् । “शुरुधः । शुचा रुन्धन्ति परानिति । पृषोदरादिः । दुःखकारिणोऽसुरान् “आदेदिशानः पुनःपुनराह्वयन् हन्ति । तत्र दृष्टान्तः। “शर्यहेव । हननसाधनैः इषुभिर्हन्ता वीरः प्रतिभटान् यथा हिनस्ति तद्वत् ॥ ॥ २३ ॥
स मा॒तरा॒ न ददृ॑शान उ॒स्रियो॒ नान॑ददेति म॒रुता॑मिव स्व॒नः ।
जा॒नन्नृ॒तं प्र॑थ॒मं यत्स्व॑र्णरं॒ प्रश॑स्तये॒ कम॑वृणीत सु॒क्रतुः॑ ॥६
सः । मा॒तरा॑ । न । ददृ॑शानः । उ॒स्रियः॑ । नान॑दत् । ए॒ति॒ । म॒रुता॑म्ऽइव । स्व॒नः ।
जा॒नन् । ऋ॒तम् । प्र॒थ॒मम् । यत् । स्वः॑ऽनरम् । प्रऽश॑स्तये । कम् । अ॒वृ॒णी॒त॒ । सु॒ऽक्रतुः॑ ॥६
सः । मातरा । न । ददृशानः । उस्रियः । नानदत् । एति । मरुताम्ऽइव । स्वनः ।
जानन् । ऋतम् । प्रथमम् । यत् । स्वःऽनरम् । प्रऽशस्तये । कम् । अवृणीत । सुऽक्रतुः ॥६
“सः पवमानः “मातरा मातरौ द्यावापृथिव्यौ “ददृशानः पुनःपुनः पश्यन् ततः “नानदत् भृशं शब्दं कुर्वन् “एति सर्वत्र गच्छति । तत्र दृष्टान्तः । “उस्रियः “न । उस्रियेति गोनाम । तस्य स्वभूतो वत्सो यथा मातरं गां पश्यन् शब्दं करोति तद्वत् । किंच “मरुतामिव । यथा मरुतां गणः “स्वनः । पचाद्यजन्तः । स्वनं कुर्वन् सर्वतो गच्छति तद्वत् । “यत् उदकं “स्वर्णरम् । स्वरिति सर्वपर्यायः । सर्वमनुष्यहितं भवति । सर्वे हि मनुष्या उदके संगच्छन्ते तत्कार्यत्वात् । तादृशं “प्रथमं मुख्यम् “ऋतम् उदकं “जानन् विद्वान् “सुक्रतुः शोभनकर्मा सुप्रज्ञो वा स पवमानः “प्रशस्तये प्रशंसनायात्मस्तोत्रकरणाय "कं मनुष्यम् “अवृणीत समभजत । नान्यमस्मद्व्यतिरिक्तमित्यर्थः ॥
रु॒वति॑ भी॒मो वृ॑ष॒भस्त॑वि॒ष्यया॒ शृङ्गे॒ शिशा॑नो॒ हरि॑णी विचक्ष॒णः ।
आ योनिं॒ सोम॒ः सुकृ॑तं॒ नि षी॑दति ग॒व्ययी॒ त्वग्भ॑वति नि॒र्णिग॒व्ययी॑ ॥७
रु॒वति॑ । भी॒मः । वृ॒ष॒भः । त॒वि॒ष्यया॑ । शृङ्गे॒ इति॑ । शिशा॑नः । हरि॑णी॒ इति॑ । वि॒ऽच॒क्ष॒णः ।
आ । योनि॑म् । सोमः॑ । सुऽकृ॑तम् । नि । सी॒द॒ति॒ । ग॒व्ययी॑ । त्वक् । भ॒व॒ति॒ । निः॒ऽनिक् । अ॒व्ययी॑ ॥७
रुवति । भीमः । वृषभः । तविष्यया । शृङ्गे इति । शिशानः । हरिणी इति । विऽचक्षणः ।
आ । योनिम् । सोमः । सुऽकृतम् । नि । सीदति । गव्ययी । त्वक् । भवति । निःऽनिक् । अव्ययी ॥७
“भीमः शत्रूणां भयंकरः “वृषभः कामानामुदकानां वा वर्षणः “विचक्षणः सर्वस्य विदर्शनशीलः स पवमानः “तविष्यया । तु इति वृद्ध्यर्थः । अस्मात् “ अच इः' (उ. सू. ४. १३८ ) इति इप्रत्ययः । तस्मादिच्छायामर्थे क्यच् । सर्वप्रातिपदिकेभ्यः (का. ७.१.५१.३ ) इति सुगागमः । आत्मनो बलेच्छया “हरिणी हरितवर्णे द्वे “शृङ्गे “शिशानः तीक्ष्णीकुर्वन् द्रोणकलशं प्रति द्वाभ्यां धाराभ्यां स्थाल्याग्रयणं गृह्णाति । तदुच्यते । ते धारारूपशृङ्गे तीक्ष्णीकुर्वन् “रुवति शब्दायते । ‘रु शब्दे'। ‘बहुलं छन्दसि' इति शः । ततः सः “सोमः “सुकृतं सुष्ठु कृतं “योनिं स्वस्थानं द्रोणकलशम् “आ “नि “षीदति समन्तात्तिष्ठति । तस्य सोमस्य “निर्णिक् निर्नेक्त्री परिशोधयित्री “गव्ययी गोमयी “त्वग्भवति । आनडुहे हि चर्मणि सोमाभिषवः । एवम् “अव्ययी अविमयी त्वक् च निर्नेक्त्री भवति । तद्धि दशापवित्रापेक्ष्यमभिहितम् ॥
शुचिः॑ पुना॒नस्त॒न्व॑मरे॒पस॒मव्ये॒ हरि॒र्न्य॑धाविष्ट॒ सान॑वि ।
जुष्टो॑ मि॒त्राय॒ वरु॑णाय वा॒यवे॑ त्रि॒धातु॒ मधु॑ क्रियते सु॒कर्म॑भिः ॥८
शुचिः॑ । पु॒ना॒नः । त॒न्व॑म् । अ॒रे॒पस॑म् । अव्ये॑ । हरिः॑ । नि । अ॒धा॒वि॒ष्ट॒ । सान॑वि ।
जुष्टः॑ । मि॒त्राय॑ । वरु॑णाय । वा॒यवे॑ । त्रि॒ऽधातु॑ । मधु॑ । क्रि॒य॒ते॒ । सु॒कर्म॑ऽभिः ॥८
शुचिः । पुनानः । तन्वम् । अरेपसम् । अव्ये । हरिः । नि । अधाविष्ट । सानवि ।
जुष्टः । मित्राय । वरुणाय । वायवे । त्रिऽधातु । मधु । क्रियते । सुकर्मऽभिः ॥८
"अरेपसं पापरहितम् । यद्वा । ‘रिपि गतौ । गतिरहितम् । पात्रे स्थितमित्यर्थः । तादृशं “तन्वम् आत्मीयं शरीरं “पुनानः शोधयन् अत एव “शुचिः पूतो दीप्यमानो वा “हरिः हरितवर्णः सोमः “सानवि सानुनि समुच्छ्रिते “अव्ये अविवालकृते दशापवित्रे “न्यधाविष्ट ऋत्विग्भिर्निधीयते । ‘ धूञ् कम्पने । स्यसिच्सीयुट्तासिषु' ( पा. सू. ६. ४. ६२ ) इति कर्मणि लुङि चिण्वदिट् । णित्त्वाद्वृद्धिः । ततः “मित्राय “वरुणाय “वायवे एतेभ्यः “जुष्टः पर्याप्तः “त्रिधातु त्रिसंधानो वसतीवरीभिर्दध्ना पयसा संस्पृष्टः सोमः “त्रिधातु तादृशं “मधु मदकरः सोमः “सुकर्मभिः शोभनकर्मयुक्तैर्ऋत्विग्भिः “क्रियते मित्रादिदेवार्थं प्रदीयते ॥
पव॑स्व सोम दे॒ववी॑तये॒ वृषेन्द्र॑स्य॒ हार्दि॑ सोम॒धान॒मा वि॑श ।
पु॒रा नो॑ बा॒धाद्दु॑रि॒ताति॑ पारय क्षेत्र॒विद्धि दिश॒ आहा॑ विपृच्छ॒ते ॥९
पव॑स्व । सो॒म॒ । दे॒वऽवी॑तये । वृषा॑ । इन्द्र॑स्य । हार्दि॑ । सो॒म॒ऽधान॑म् । आ । वि॒श॒ ।
पु॒रा । नः॒ । बा॒धात् । दुः॒ऽइ॒ता । अति॑ । पा॒र॒य॒ । क्षे॒त्र॒ऽवित् । हि । दिशः॑ । आह॑ । वि॒ऽपृ॒च्छ॒ते ॥९
पवस्व । सोम । देवऽवीतये । वृषा । इन्द्रस्य । हार्दि । सोमऽधानम् । आ । विश ।
पुरा । नः । बाधात् । दुःऽइता । अति । पारय । क्षेत्रऽवित् । हि । दिशः । आह । विऽपृच्छते ॥९
हे "सोम “वृषा कामानामुदकानां वा सेचकस्त्वं “देववीतये देवानां पानाय “पवस्व कलशादिषु क्षर। अथ हे सोम त्वम् “इन्द्रस्य “हार्दि हृदयंगमं प्रियं “सोमधानम्। सोमो निधीयतेऽस्मिन्निति सोमधानं पात्रम् । तत् “आ “विश प्रविश । किंच “नः अस्माकं “बाधात् बाधनात् पीडनात् “पुरा पूर्वमेव दुरितानि दुर्गमनानि रक्षांसि “अति “पारय अतीत्य पारं गमय । अपि च “क्षेत्रवित् मार्गज्ञः पुरुषः “विपृच्छते विविधं पन्थानं पृच्छते जनाय “दिशः मार्गान् “आह “हि ब्रूते खलु । उक्त्वा तं यथा रक्षति तथा यज्ञमार्गवेत्ता त्वमस्मभ्यं यज्ञपथ उक्त्वास्मान् पालयेति ।
हि॒तो न सप्ति॑र॒भि वाज॑म॒र्षेन्द्र॑स्येन्दो ज॒ठर॒मा प॑वस्व ।
ना॒वा न सिन्धु॒मति॑ पर्षि वि॒द्वाञ्छूरो॒ न युध्य॒न्नव॑ नो नि॒दः स्पः॑ ॥१०
हि॒तः । न । सप्तिः॑ । अ॒भि । वाज॑म् । अ॒र्ष॒ । इन्द्र॑स्य । इ॒न्दो॒ इति॑ । ज॒ठर॑म् । आ । प॒व॒स्व॒ ।
ना॒वा । न । सिन्धु॑म् । अति॑ । प॒र्षि॒ । वि॒द्वान् । शूरः॑ । न । युध्य॑न् । अव॑ । नः॒ । नि॒दः । स्प॒रिति॑ स्पः ॥१०
हितः । न । सप्तिः । अभि । वाजम् । अर्ष । इन्द्रस्य । इन्दो इति । जठरम् । आ । पवस्व ।
नावा । न । सिन्धुम् । अति । पर्षि । विद्वान् । शूरः । न । युध्यन् । अव । नः । निदः । स्परिति स्पः ॥१०
हे सोम ऋत्विग्भिः प्रेर्यमाणः सन् “वाजं सोमनिधानं द्रोणकलशम् “अभि “अर्ष अभिगच्छ । तत्र दृष्टान्तः । “हितो “न “सप्तिः । अश्वो हितः प्रेर्यमाणः सन् वाजं संग्राममभिलक्ष्य यथा याति तद्वत् । ततो हे "इन्दो “इन्द्रस्य “जठरं जठरभूतं द्रोणकलशं वा “आ “पवस्व आभिमुख्येन प्रविश । किंच “विद्वान् सर्वं जानंस्त्वमस्मान् “अति “पर्षि दुरितान्यतीत्य पारय । तत्र दृष्टान्तः । "नावा “न । यथा नाविकाः “सिन्धुं नदीं नावा मनुष्यान् पारयन्ति तद्वत् । किंच हे सोम त्वं “शूरो “न शूरो वीर इव “युध्यन् शत्रून् संप्रहरन् “निदः निन्दकाच्छत्रोः “नः अस्मान् “अव “स्पः अवपारय । बाधां विनाश्य पालय । यद्वा । नोऽस्माकं निदो निन्दकाञ्छत्रूनव स्पः अवाङ्मुखं जहि । 'स्पॄ हिंसायाम्'। ‘ बहुलं छन्दसि ' इति श्नाप्रत्ययस्य लुक् । तिपि गुणे हल्यङ्यादिना तिपो लोपः ॥ ॥ २४ ॥
मण्डल ९ | |||
---|---|---|---|