सामग्री पर जाएँ

ऋग्वेदः सूक्तं ९.९१

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ९.९१ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ९.९० ऋग्वेदः - मण्डल ९
सूक्तं ९.९१
कश्यपो मारीचः
सूक्तं ९.९२ →
दे. पवमानः सोमः। त्रिष्टुप्


असर्जि वक्वा रथ्ये यथाजौ धिया मनोता प्रथमो मनीषी ।
दश स्वसारो अधि सानो अव्येऽजन्ति वह्निं सदनान्यच्छ ॥१॥
वीती जनस्य दिव्यस्य कव्यैरधि सुवानो नहुष्येभिरिन्दुः ।
प्र यो नृभिरमृतो मर्त्येभिर्मर्मृजानोऽविभिर्गोभिरद्भिः ॥२॥
वृषा वृष्णे रोरुवदंशुरस्मै पवमानो रुशदीर्ते पयो गोः ।
सहस्रमृक्वा पथिभिर्वचोविदध्वस्मभिः सूरो अण्वं वि याति ॥३॥
रुजा दृळ्हा चिद्रक्षसः सदांसि पुनान इन्द ऊर्णुहि वि वाजान् ।
वृश्चोपरिष्टात्तुजता वधेन ये अन्ति दूरादुपनायमेषाम् ॥४॥
स प्रत्नवन्नव्यसे विश्ववार सूक्ताय पथः कृणुहि प्राचः ।
ये दुःषहासो वनुषा बृहन्तस्ताँस्ते अश्याम पुरुकृत्पुरुक्षो ॥५॥
एवा पुनानो अपः स्वर्गा अस्मभ्यं तोका तनयानि भूरि ।
शं नः क्षेत्रमुरु ज्योतींषि सोम ज्योङ्नः सूर्यं दृशये रिरीहि ॥६॥


सायणभाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

तृतीयं श्रुतितत्वज्ञः सप्तमस्याष्टकस्य सः ।

व्याख्याय सायणामात्यश्चतुर्थं व्याचिकीर्षति ॥

तत्र ‘असर्जि' इति षडृचं षष्ठं सूक्तं मारीचस्य कश्यपस्यार्षं त्रैष्टुभं पवमानसोमदेवताकम् । ‘ असर्जि कश्यपः' इत्यनुक्रान्तम् । गतो विनियोगः ॥


अस॑र्जि॒ वक्वा॒ रथ्ये॒ यथा॒जौ धि॒या म॒नोता॑ प्रथ॒मो म॑नी॒षी ।

दश॒ स्वसा॑रो॒ अधि॒ सानो॒ अव्येऽज॑न्ति॒ वह्निं॒ सद॑ना॒न्यच्छ॑ ॥ १

अस॑र्जि । वक्वा॑ । रथ्ये॑ । यथा॑ । आ॒जौ । धि॒या । म॒नोता॑ । प्र॒थ॒मः । म॒नी॒षी ।

दश॑ । स्वसा॑रः । अधि॑ । सानौ॑ । अव्ये॑ । अज॑न्ति । वह्नि॑म् । सद॑नानि । अच्छ॑ ॥१

असर्जि । वक्वा । रथ्ये । यथा । आजौ । धिया । मनोता । प्रथमः । मनीषी ।

दश । स्वसारः । अधि । सानौ । अव्ये । अजन्ति । वह्निम् । सदनानि । अच्छ ॥१

“वक्का शब्दयमानः । ‘वच परिभाषणे'। वनिप् । एतादृशः पवमानः सोमः “आजौ । अजन्ति कर्मार्थमृत्विज इत्याजिर्यज्ञः । तस्मिन् “धिया कर्मणा स्तोत्रेण वा साकम् "असर्जि सृज्यते पात्रेष्विति । तत्र दृष्टान्तः। “रथ्ये “यथा रथार्ह आजौ । संग्रामनामैतत् अजन्ति प्रक्षिपन्ति आयुधान्यत्रेति । तस्मिन्नश्वो यथा धियाङ्गुल्या सृज्यते तद्वत् । कीदृशः । “मनोता यस्मिन् देवानां मनांस्योतानि प्रोतानि सः । तथा च ब्राह्मणं - तस्मिन् हि तेषां मनांस्योतानि ' (ऐ. ब्रा. २.१०) इति । “प्रथमः सर्वेषां देवानां मुख्यः “मनीषी । मनस ईषा मनीषा स्तुतिः । तद्वान् । “दश “स्वासरः दशसंख्याका अङ्गुलयः “सदनानि यज्ञगृहाणि “अच्छ अभिमुखीकृत्य “वह्निं वोढारं सोमं “सानौ समुच्छ्रिते । अधिः सप्तम्यर्थानुवादकः । “अव्ये अविभवे अविवालेन कृते पवित्रे “अजन्ति प्रेरयन्ति । ‘ अज गतिक्षेपणयोः ।।


वी॒ती जन॑स्य दि॒व्यस्य॑ क॒व्यैरधि॑ सुवा॒नो न॑हु॒ष्ये॑भि॒रिन्दुः॑ ।

प्र यो नृभि॑र॒मृतो॒ मर्त्ये॑भिर्मर्मृजा॒नोऽवि॑भि॒र्गोभि॑र॒द्भिः ॥ २

वी॒ती । जन॑स्य । दि॒व्यस्य॑ । क॒व्यैः । अधि॑ । सु॒वा॒नः । न॒हु॒ष्ये॑भिः । इन्दुः॑ ।

प्र । यः । नृऽभिः॑ । अ॒मृतः॑ । मर्त्ये॑भिः । म॒र्मृ॒जा॒नः । अवि॑ऽभिः । गोभिः॑ । अ॒त्ऽभिः ॥२

वीती । जनस्य । दिव्यस्य । कव्यैः । अधि । सुवानः । नहुष्येभिः । इन्दुः ।

प्र । यः । नृऽभिः । अमृतः । मर्त्येभिः । मर्मृजानः । अविऽभिः । गोभिः । अत्ऽभिः ॥२

“कव्यैः साधुभिः स्तोतृभिः “नहुष्येभिः मनुष्यैः "सुवानः अभिषूयमाणः “इन्दुः सोमः “दिव्यस्य दिवि भवस्य “जनस्य देवगणस्य “वीती। ‘सुपां सुलुक्' इति चतुर्थ्याः पूर्वसवर्णदीर्घः । सोमभक्षणार्थं यज्ञम् “अधि गच्छति । किंच “अमृतः मरणधर्मरहितः “यः सोमः “नृभिः कर्मनेतृभिः “मर्त्येभिः मर्त्यैः "अविभिः अविमयैः पवित्रैस्तथा “गोभिः अनडुहैरधिषवणचर्मभिः यद्वा गोविकारैः क्षीरादिभिः "अद्भिः वसतीवर्यादिभिरुदकैश्च “मर्मृजानः भृशं शोध्यमानः सन् यज्ञं प्रति गच्छति । उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ॥


वृषा॒ वृष्णे॒ रोरु॑वदं॒शुर॑स्मै॒ पव॑मानो॒ रुश॑दीर्ते॒ पयो॒ गोः ।

स॒हस्र॒मृक्वा॑ प॒थिभि॑र्वचो॒विद॑ध्व॒स्मभिः॒ सूरो॒ अण्वं॒ वि या॑ति ॥ ॥३

वृषा॑ । वृष्णे॑ । रोरु॑वत् । अं॒शुः । अ॒स्मै॒ । पव॑मानः । रुश॑त् । ई॒र्ते॒ । पयः॑ । गोः ।

स॒हस्र॑म् । ऋक्वा॑ । प॒थिऽभिः॑ । व॒चः॒ऽवित् । अ॒ध्व॒स्मऽभिः॑ । सूरः॑ । अण्व॑म् । वि । या॒ति॒ ॥३

वृषा । वृष्णे । रोरुवत् । अंशुः । अस्मै । पवमानः । रुशत् । ईर्ते । पयः । गोः ।

सहस्रम् । ऋक्वा । पथिऽभिः । वचःऽवित् । अध्वस्मऽभिः । सूरः । अण्वम् । वि । याति ॥३

“वृषा कामानां वर्षको वृषेवाचरन् वा “रोरुवत् भृशं शब्दायमानः “अंशुः सोमः “पवमानः पूयमानः सन् “अस्मै “वृष्णे वर्षकायेन्द्राय तदर्थं “रुशत् । रोचतेरिदं रूपम् । आरोचमानं श्वेतं “गोः “पयः आश्रयणद्रव्यम् “ईर्ते गच्छति । ‘ ईर गतौ । आदादिकः । किंच “ऋक्वा । 'छन्दसीवनिपौ' इति मत्वर्थीयो वनिप् । स्तोत्रवानत एव “वचोवित् स्तुतीनां ज्ञाता “सूरः सुवीर्यः सर्वेषामग्निष्टोमादिकर्मणि प्रेरकः सोमः “अध्वस्मभिः ध्वंसनवर्जितैर्हिंसारहितैः “सहस्रं पथिभिः बहुभिर्मार्गैः “अण्वं सूक्ष्मच्छिद्रं पवित्रं “वि “याति । अतीत्य द्रोणकलशं गच्छति ।।


रु॒जा दृ॒ळ्हा चि॑द्र॒क्षसः॒ सदां॑सि पुना॒न इ॑न्द ऊर्णुहि॒ वि वाजा॑न् ।

वृ॒श्चोपरि॑ष्टात्तुज॒ता व॒धेन॒ ये अन्ति॑ दू॒रादु॑पना॒यमे॑षाम् ॥ ४

रु॒ज । दृ॒ळ्हा । चि॒त् । र॒क्षसः॑ । सदां॑सि । पु॒ना॒नः । इ॒न्दो॒ इति॑ । ऊ॒र्णु॒हि॒ । वि । वाजा॑न् ।

वृ॒श्च । उ॒परि॑ष्टात् । तु॒ज॒ता । व॒धेन॑ । ये । अन्ति॑ । दू॒रात् । उ॒प॒ऽना॒यम् । ए॒षा॒म् ॥४

रुज । दृळ्हा । चित् । रक्षसः । सदांसि । पुनानः । इन्दो इति । ऊर्णुहि । वि । वाजान् ।

वृश्च । उपरिष्टात् । तुजता । वधेन । ये । अन्ति । दूरात् । उपऽनायम् । एषाम् ॥४

हे सोम “दृळ्हा “चित् दृढान्यपि परैरगन्तव्यत्वेन “रक्षसः राक्षसस्य “सदांसि स्थानानि पुराणि "रुज विनाशय । रुजो भङ्गे' तौदादिकः । किंच हे “इन्दो पवमान “पुनानः पवित्रादिभिः पूयमानस्त्वं “वाजान् तस्यान्नानि तस्य बलानि वा “ऊर्णुहि आच्छादय । आहरेत्यर्थः । तथा “ये राक्षसाः “उपरिष्टात् ऊर्ध्वदेशादागच्छन्ति ये वा “अन्ति अन्तिके समीप आगच्छन्ति ये च “दूरात् दूरदेशाद्वागच्छन्ति तेषां राक्षसानाम् “उपनायम् उपनेतारं स्वामिनं “तुजता । तुजतिर्हिंसाकर्मा । हिंसकेन “वधेन हननसाधनेनायुधेन त्वं “वृश्च छिन्धि । ' ओव्रश्चू छेदने' तौदादिकः ॥


स प्र॑त्न॒वन्नव्य॑से विश्ववार सू॒क्ताय॑ प॒थः कृ॑णुहि॒ प्राचः॑ ।

ये दुः॒षहा॑सो व॒नुषा॑ बृ॒हन्त॒स्ताँस्ते॑ अश्याम पुरुकृत्पुरुक्षो ॥ ५

सः । प्र॒त्न॒ऽवत् । नव्य॑से । वि॒श्व॒ऽवा॒र॒ । सु॒ऽउ॒क्ताय॑ । प॒थः । कृ॒णु॒हि॒ । प्राचः॑ ।

ये । दुः॒ऽसहा॑सः । व॒नुषा॑ । बृ॒हन्तः॑ । तान् । ते॒ । अ॒श्या॒म॒ । पु॒रु॒ऽकृ॒त् । पु॒रु॒क्षो॒ इति॑ पुरुऽक्षो ॥५

सः । प्रत्नऽवत् । नव्यसे । विश्वऽवार । सुऽउक्ताय । पथः । कृणुहि । प्राचः ।

ये । दुःऽसहासः । वनुषा । बृहन्तः । तान् । ते । अश्याम । पुरुऽकृत् । पुरुक्षो इति पुरुऽक्षो ॥५

हे “विश्ववार विश्वैः सर्वैर्वरणीय हे सोम “सः तादृशस्त्वं “प्रत्नवत् पुराण इव स्थितस्त्वं “नव्यसे नवीयसे नवतराय । नवशब्दादीयसुनीकारलोपश्छान्दसः । तस्मै "सूक्ताय शोभनस्तुतिकाय मह्यं “पथः मार्गान् “प्राचः प्राचीनान् कृणुहि कुरु। सर्वत्र गमनं प्रयच्छेत्यर्थः । ‘ कृवि हिंसाकरणयोः'। ' धिन्विकृण्व्योरञ्च' इत्युप्रत्ययः । हे “पुरुकृत् बहुकर्मन् हे पुरुक्षो । ' टुक्षु शब्दे'। मितद्र्वादित्वाड्डुप्रत्ययः (पा. सू. ३. ३.१८०.१ )। बहुविधं शब्दायमान हे सोम “दुःसहासः रक्षोभिः सोढुमशक्याः अत एव “वनुषा । वनतिर्हिंसार्थः। हिंसया युक्ताः "बृहन्तः महान्तः “ये त्वदीया अंशाः सन्ति “तांस्ते तव स्वभूतानंशान् वयं यज्ञे "अश्याम प्राप्नुयाम


ए॒वा पु॑ना॒नो अ॒पः स्व१॒॑र्गा अ॒स्मभ्यं॑ तो॒का तन॑यानि॒ भूरि॑ ।

शं नः॒ क्षेत्र॑मु॒रु ज्योतीं॑षि सोम॒ ज्योङ्नः॒ सूर्यं॑ दृ॒शये॑ रिरीहि ॥ ६

ए॒व । पु॒ना॒नः । अ॒पः । स्वः॑ । गाः । अ॒स्मभ्य॑म् । तो॒का । तन॑यानि । भूरि॑ ।

शम् । नः॒ । क्षेत्र॑म् । उ॒रु । ज्योतीं॑षि । सो॒म॒ । ज्योक् । नः॒ । सूर्य॑म् । दृ॒शये॑ । रि॒री॒हि॒ ॥६

एव । पुनानः । अपः । स्वः । गाः । अस्मभ्यम् । तोका । तनयानि । भूरि ।

शम् । नः । क्षेत्रम् । उरु । ज्योतींषि । सोम । ज्योक् । नः । सूर्यम् । दृशये । रिरीहि ॥६

हे सोम “एव एवं “पुनानः पूयमानः पवित्रादिभिः “अस्मभ्यं “रिरीहि प्रापय प्रयच्छ । किं तत्। “अपः । अप इत्यन्तरिक्षनाम । आप्नोति सर्वमपि । अन्तरिक्षं “स्वः स्वर्गं द्युलोकं “गाः । सर्वैर्गम्यतेऽत्रेति गावः पृथिव्यः । ताः पृथिवीश्च “भूरि । ' सुपां सुलुक्' इति द्वितीयाया लुक् । बहून् “तोका पुत्रान् “तनयानि । तन्वन्ति कुलमिति तनयाः पौत्राः । तांश्च तथा “नः अस्मभ्यं “क्षेत्रं “शं सुखकरं कुरु । हे “सोम “ज्योतींषि नक्षत्राणि “उरु उरूणि अन्तरिक्षे विस्तीर्णानि कुरु । तथा “नः अस्मभ्यं "सूर्यम् आदित्यं “ज्योक् । चिरनामैतत् । चिरकालं “दृशये द्रष्टुं कुरु ॥ ॥ १ ॥


टिप्पणी

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.९१&oldid=272996" इत्यस्माद् प्रतिप्राप्तम्