ऋग्वेदः सूक्तं ९.३७

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ९.३७ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ९.३६ ऋग्वेदः - मण्डल ९
सूक्तं ९.३७
रहूगण आङ्गिरसः
सूक्तं ९.३८ →
दे. पवमानः सोमः। गायत्री।


स सुतः पीतये वृषा सोमः पवित्रे अर्षति ।
विघ्नन्रक्षांसि देवयुः ॥१॥
स पवित्रे विचक्षणो हरिरर्षति धर्णसिः ।
अभि योनिं कनिक्रदत् ॥२॥
स वाजी रोचना दिवः पवमानो वि धावति ।
रक्षोहा वारमव्ययम् ॥३॥
स त्रितस्याधि सानवि पवमानो अरोचयत् ।
जामिभिः सूर्यं सह ॥४॥
स वृत्रहा वृषा सुतो वरिवोविददाभ्यः ।
सोमो वाजमिवासरत् ॥५॥
स देवः कविनेषितोऽभि द्रोणानि धावति ।
इन्दुरिन्द्राय मंहना ॥६॥


सायणभाष्यम्

‘स सुतः' इति षडृचं त्रयोदशं सूक्तं रहूगणस्यार्षं गायत्रं सौम्यम् । अनुक्रम्यते च-स सुतो रहूगणः' इति । गतो विनियोगः ॥


स सु॒तः पी॒तये॒ वृषा॒ सोमः॑ प॒वित्रे॑ अर्षति ।

वि॒घ्नन्रक्षां॑सि देव॒युः ॥१

सः । सु॒तः । पी॒तये॑ । वृषा॑ । सोमः॑ । प॒वित्रे॑ । अ॒र्ष॒ति॒ ।

वि॒ऽघ्नन् । रक्षां॑सि । दे॒व॒ऽयुः ॥१

सः । सुतः । पीतये । वृषा । सोमः । पवित्रे । अर्षति ।

विऽघ्नन् । रक्षांसि । देवऽयुः ॥१

“सः “सोमः “पीतये इन्द्रादिपानाय “सुतः अभिषुतः “वृषा वर्षणः सन् "पवित्रे . "अर्षति गच्छति । किं कुर्वन्। “रक्षांसि “विघ्नन्’ “देवयुः देवकामः स इत्यन्वयः ॥


स प॒वित्रे॑ विचक्ष॒णो हरि॑रर्षति धर्ण॒सिः ।

अ॒भि योनिं॒ कनि॑क्रदत् ॥२

सः । प॒वित्रे॑ । वि॒ऽच॒क्ष॒णः । हरिः॑ । अ॒र्ष॒ति॒ । ध॒र्ण॒सिः ।

अ॒भि । योनि॑म् । कनि॑क्रदत् ॥२

सः । पवित्रे । विऽचक्षणः । हरिः । अर्षति । धर्णसिः ।

अभि । योनिम् । कनिक्रदत् ॥२

“सः “सोमः "विचक्षणः । पश्यतिकर्मैतत् । सर्वस्य द्रष्टा “हरिः हरितवर्णः सोमः “धर्णसिः सर्वस्य धारकः “पवित्रे “अर्षति गच्छति । पश्चात् "कनिक्रदत् शब्दं कुर्वन् “योनिं स्थानं द्रोणकलशम् “अभि गच्छति ॥


स वा॒जी रो॑च॒ना दि॒वः पव॑मानो॒ वि धा॑वति ।

र॒क्षो॒हा वार॑म॒व्ययं॑ ॥३

सः । वा॒जी । रो॒च॒ना । दि॒वः । पव॑मानः । वि । धा॒व॒ति॒ ।

र॒क्षः॒ऽहा । वार॑म् । अ॒व्यय॑म् ॥३

सः । वाजी । रोचना । दिवः । पवमानः । वि । धावति ।

रक्षःऽहा । वारम् । अव्ययम् ॥३

“स “वाजी वेजनवानश्वस्थानीयः “दिवः स्वर्गस्य “रोचना रोचकः “पवमानः पूयमानः “वि “धावति । कीदृशः । “रक्षोहा रक्षोहन्ता “अव्ययं “वारं दशापवित्रमतीत्य च धावति ।।


स त्रि॒तस्याधि॒ सान॑वि॒ पव॑मानो अरोचयत् ।

जा॒मिभिः॒ सूर्यं॑ स॒ह ॥४

सः । त्रि॒तस्य॑ । अधि॑ । सान॑वि । पव॑मानः । अ॒रो॒च॒य॒त् ।

जा॒मिऽभिः॑ । सूर्य॑म् । स॒ह ॥४

सः । त्रितस्य । अधि । सानवि । पवमानः । अरोचयत् ।

जामिऽभिः । सूर्यम् । सह ॥४

“सः सोमः “त्रितस्य महर्षेः “अधि “सानवि समुच्छ्रिते यज्ञे । अधीति सप्तम्यर्थानुवादी। “पवमानः पूयमानः "जामिभिः प्रवृद्धैर्बन्धुभूतैर्वा स्वतेजोभिः “सह सहितः सन् 'सूर्यम् “अरोचयत् प्रकाशितवान् ॥


स वृ॑त्र॒हा वृषा॑ सु॒तो व॑रिवो॒विददा॑भ्यः ।

सोमो॒ वाज॑मिवासरत् ॥५

सः । वृ॒त्र॒ऽहा । वृषा॑ । सु॒तः । व॒रि॒वः॒ऽवित् । अदा॑भ्यः ।

सोमः॑ । वाज॑म्ऽइव । अ॒स॒र॒त् ॥५

सः । वृत्रऽहा । वृषा । सुतः । वरिवःऽवित् । अदाभ्यः ।

सोमः । वाजम्ऽइव । असरत् ॥५

“स “वृत्रहा “वृषा वर्षकः “सुतः अभिषुतः “वरिवोवित् यष्टुर्धनस्य लम्भकः “अदाभ्यः अन्यैरदम्भनीयः “सोमः “वाजमिव संग्राममश्व इव "असरत् गच्छति कलशम् ॥


स दे॒वः क॒विने॑षि॒तो॒३॒॑ऽभि द्रोणा॑नि धावति ।

इंदु॒रिंद्रा॑य मं॒हना॑ ॥६

सः । दे॒वः । क॒विना॑ । इ॒षि॒तः । अ॒भि । द्रोणा॑नि । धा॒व॒ति॒ ।

इन्दुः॑ । इन्द्रा॑य । मं॒हना॑ ॥६

सः । देवः । कविना । इषितः । अभि । द्रोणानि । धावति ।

इन्दुः । इन्द्राय । मंहना ॥६

"सः सोमः “देवः “इन्दुः क्लिद्यमानः “कविना क्रान्तप्रज्ञेनाध्वर्युणा “इषितः प्रेरितः सन् “द्रोणानि द्रोणकलशान् “अभि “धावति अभिगच्छति । किमर्थम् । “इन्द्राय इन्द्रार्थम् । “मंहना महान् स इति समन्वयः ॥ ॥ २७ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.३७&oldid=208624" इत्यस्माद् प्रतिप्राप्तम्