ऋग्वेदः सूक्तं ९.३६

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ९.३६ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ९.३५ ऋग्वेदः - मण्डल ९
सूक्तं ९.३६
प्रभूवसुराङ्गिरसः।
सूक्तं ९.३७ →
दे. पवमानः सोमः। गायत्री।


असर्जि रथ्यो यथा पवित्रे चम्वोः सुतः ।
कार्ष्मन्वाजी न्यक्रमीत् ॥१॥
स वह्निः सोम जागृविः पवस्व देववीरति ।
अभि कोशं मधुश्चुतम् ॥२॥
स नो ज्योतींषि पूर्व्य पवमान वि रोचय ।
क्रत्वे दक्षाय नो हिनु ॥३॥
शुम्भमान ऋतायुभिर्मृज्यमानो गभस्त्योः ।
पवते वारे अव्यये ॥४॥
स विश्वा दाशुषे वसु सोमो दिव्यानि पार्थिवा ।
पवतामान्तरिक्ष्या ॥५॥
आ दिवस्पृष्ठमश्वयुर्गव्ययुः सोम रोहसि ।
वीरयुः शवसस्पते ॥६॥


सायणभाष्यम्

'असर्जि' इति षडृचं द्वादशं सूक्तम् । ऋष्याद्याः पूर्ववत् । असर्जि' इत्यनुक्रान्तम् । गतो विनियोगः ॥


अस॑र्जि॒ रथ्यो॑ यथा प॒वित्रे॑ च॒म्वोः॑ सु॒तः ।

कार्ष्म॑न्वा॒जी न्य॑क्रमीत् ॥१

अस॑र्जि । रथ्यः॑ । य॒था॒ । प॒वित्रे॑ । च॒म्वोः॑ । सु॒तः ।

कार्ष्म॑न् । वा॒जी । नि । अ॒क्र॒मी॒त् ॥१

असर्जि । रथ्यः । यथा । पवित्रे । चम्वोः । सुतः ।

कार्ष्मन् । वाजी । नि । अक्रमीत् ॥१

“रथ्यो “यथा रथसंबन्ध्यश्व इव स यथा विसृज्यते तद्वत् “चम्वोः अधिषवणफलकयोः “सुतः अभिषुतः सोमः "असर्जि सृष्टोऽभूत् "पवित्रे । तथाभूतः “वाजी वेजनवान् सोमाख्योऽश्वः “कार्ष्मन् । कार्ष्म युद्धमितरेतरकर्षणात् । अत्र देवानामाकर्षणवति यज्ञाख्ये संग्रामे “न्यक्रमीत् नितरां क्रामति ॥


स वह्निः॑ सोम॒ जागृ॑विः॒ पव॑स्व देव॒वीरति॑ ।

अ॒भि कोशं॑ मधु॒श्चुतं॑ ॥२

सः । वह्निः॑ । सो॒म॒ । जागृ॑विः । पव॑स्व । दे॒व॒ऽवीः । अति॑ ।

अ॒भि । कोश॑म् । म॒धु॒ऽश्चुत॑म् ॥२

सः । वह्निः । सोम । जागृविः । पवस्व । देवऽवीः । अति ।

अभि । कोशम् । मधुऽश्चुतम् ॥२

हे “सोम “स “वह्निः वाहकः "जागृविः जागरूकः “देववीः देवकामस्त्वं मधुश्चुतं मधुस्रावि “कोशं दशापवित्रमतिक्रम्य “अभि “पवस्व द्रोणकलशं प्रति क्षर ॥


स नो॒ ज्योतीं॑षि पूर्व्य॒ पव॑मान॒ वि रो॑चय ।

क्रत्वे॒ दक्षा॑य नो हिनु ॥३

सः । नः॒ । ज्योतीं॑षि । पू॒र्व्य॒ । पव॑मान । वि । रो॒च॒य॒ ।

क्रत्वे॑ । दक्षा॑य । नः॒ । हि॒नु॒ ॥३

सः । नः । ज्योतींषि । पूर्व्य । पवमान । वि । रोचय ।

क्रत्वे । दक्षाय । नः । हिनु ॥३

हे “पूर्व्य पुराण “पवमान सोम “नः अस्माकं “ज्योतींषि दिव्यानि स्थानानि “वि “रोचय प्रकाशय । किंच “क्रत्वे कर्मणे यागाय “दक्षाय बलाय च बलप्रदाय यागाय वा “नः अस्मान् “हिनु प्रेरय ॥


शुं॒भमा॑न ऋता॒युभि॑र्मृ॒ज्यमा॑नो॒ गभ॑स्त्योः ।

पव॑ते॒ वारे॑ अ॒व्यये॑ ॥४

शु॒म्भमा॑नः । ऋ॒त॒युऽभिः॑ । मृ॒ज्यमा॑नः । गभ॑स्त्योः ।

पव॑ते । वारे॑ । अ॒व्यये॑ ॥४

शुम्भमानः । ऋतयुऽभिः । मृज्यमानः । गभस्त्योः ।

पवते । वारे । अव्यये ॥४

“ऋतायुभिः यज्ञकामैर्ऋत्विग्भिः “शुम्भमानः अलंक्रियमाणस्तेषामेव “गभस्त्योः हस्तयोः “मृज्यमानः सोमः “अव्यये अविमये “वारे वाले देशापवित्रे “पवते पूयते ॥


स विश्वा॑ दा॒शुषे॒ वसु॒ सोमो॑ दि॒व्यानि॒ पार्थि॑वा ।

पव॑ता॒मांतरि॑क्ष्या ॥५

सः । विश्वा॑ । दा॒शुषे॑ । वसु॑ । सोमः॑ । दि॒व्यानि॑ । पार्थि॑वा ।

पव॑ताम् । आ । अ॒न्तरि॑क्ष्या ॥५

सः । विश्वा । दाशुषे । वसु । सोमः । दिव्यानि । पार्थिवा ।

पवताम् । आ । अन्तरिक्ष्या ॥५

“सः अभिषूयमाणः “सोमः “दाशुषे हविर्दात्रे “विश्वा सर्वाणि “वसु वसूनि धनानि “पवतां प्रयच्छतु । विश्वानीयुक्तस्य विवरणं शिष्टम् । “दिव्यानि दिवि भवानि “पार्थिवा पृथिवीसंबद्धानि “अन्तरिक्ष्या अन्तरिक्षे भवानि च पवताम् ॥


आ दि॒वस्पृ॒ष्ठम॑श्व॒युर्ग॑व्य॒युः सो॑म रोहसि ।

वी॒र॒युः श॑वसस्पते ॥६

आ । दि॒वः । पृ॒ष्ठम् । अ॒श्व॒ऽयुः । ग॒व्य॒ऽयुः । सो॒म॒ । रो॒ह॒सि॒ ।

वी॒र॒ऽयुः । श॒व॒सः॒ । प॒ते॒ ॥६

आ । दिवः । पृष्ठम् । अश्वऽयुः । गव्यऽयुः । सोम । रोहसि ।

वीरऽयुः । शवसः । पते ॥६

हे “सोम त्वं स्तोतॄणाम् “अश्वयुः अश्वमिच्छन् “गव्ययुः गा इच्छन् “वीरयुः पुत्रानिच्छन् “दिवस्पृष्ठं द्युलोकम् “आ “रोहसि आहुतिद्वारा हे “शवसस्पते अन्नस्य पालक ॥ ॥ २६ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.३६&oldid=208623" इत्यस्माद् प्रतिप्राप्तम्