सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १/औशनम्(प्रतुद्र)

विकिस्रोतः तः
औशनम्
औशनम्

१०. उशनाः काव्यः । त्रिष्टुप् । पवमानः सोमः।
प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष ।
अश्वं न त्वा वाजिनं मर्जयन्तोऽच्छा बर्ही रशनाभिर्नयन्ति ॥ ६७७ ॥ ऋ. ९.८७.१
स्वायुधः पवते देव इन्दुरशस्तिहा वृजना रक्षमाणः ।
पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः ॥ ६७८ ॥
ऋषिर्विप्रः पुरएता जनानामृभुर्धीर उशना काव्येन ।
स चिद्विवेद निहितं यदासामपीच्या३ं गुह्यं नाम गोनां ॥ ६७९ ॥
धा. २१. उ. न. स्व. ५. हु. ॥१०॥
इति तृतीयः खण्डः

४. औशनम् ॥ उशनाः । त्रिष्टुप् । पवमानः सोमः ।
प्रातू ।। द्रवापरिकोशाम् । निषोऽ३दा। नृभाइᳲपुना । नोऽ३ अभि। वाजमर्षा। अश्वंनत्वावाजिनम्मा। जयाऽ२३न्ताः ॥ अच्छाबर्हाइः ॥ रशना । भाऽ३४३इः । नाऽ३याऽ५"न्ताऽ६५६इ ॥ श्रीः ॥ सूवा ॥ युधाᳲपवतेदाइ । वईऽ३न्दूः । अशास्तिहा । वृजना । रक्षमाणाः। पितादेवानांजनिता। सुदाऽ२३क्षाः ॥ विष्टम्भोदाइ ॥वोऽ३धरु। णाऽ३४३ः। पाऽ३र्थाऽ५इव्या'ऽ६५६:॥ श्रीः ॥ आर्षीः ॥ विप्रा ᳲपुरएता। जनाऽ३नाम् । ऋभूर्धीराः। उशना । कावियेना । सचिद्विवेदनिहिताम् । यदाऽ२३साम् ।। अपाइचियाम् ।। गुहियम् । नाऽ३४३ । माऽ३गोऽ५"नाऽ६५६ म् ।। दी. १६. उत्. १० मा २८ डै (४)


[सम्पाद्यताम्]

टिप्पणी

....स्वायुधः पवते देव इन्दुर् अशस्तिहा वृजना रक्षमाणः। पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः॥ इति। आ दिवो विष्टम्भम् उच्छिश्रियतुः। तं हैवासुरान् नातीयुः। तौ हाभिः कामदुघाभिर् देवानां जग्मतुः। तौ हागतौ महयांचक्रे - ऋषिर् विप्रः पुरएता जनानाम् ऋभुर् धीर उशना काव्येन। स चिद् विवेद निहितं यद् आसाम् अपीच्यं गुह्यं नाम गोनाम्॥ इति। ता एताः पशव्या ऋचः। अव पशून् रुन्द्धे बहुपशुर् भवत्य् एताभिर् ऋग्भिस् तुष्टुवानः। तास्व् औशनम्। उशना वै काव्यो देवेष्व् अमर्त्यं गन्धर्वलोकम् ऐच्छत्। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स देवेष्व् अमर्त्यं गन्धर्वलोकम् आश्नुत। तद् एतल् लोकवित् साम। अश्नुते देवेष्व् अमर्त्यं गन्धर्वलोकम् एते तुष्टुवानः। यद् उशना काव्यो ऽपश्यत् तस्माद् औशनम् इत्य् आख्यायते॥,,, - जैब्रा १.१२७

अथ यद् वो ऽवोचं स्वर्गस्य स्म लोकस्य पथो ऽञ्जसायनान् मेतेत्य्, औशनकावे एव वस् तद् अवोचम् इति। एष ह वै स्वर्गस्य लोकस्य पन्था अञ्जसायनो यद् औशनकावे। औशनं पुरस्ताद् भवति कावम् उपरिष्टात्। ताव् एतत् पितापुत्राव् एव नावम् अजतः। - जैब्रा २.४२१

संवत्सरमष्टमे काले भुञ्जानो ग्राम्यमन्नं प्र तु द्रवेति दशतमावर्तयन् नैमिशीयं द्वादश सँवत्सरमवाप्नोति ॥ सामविधानब्रा. १.४.१०

पृष्ठ्यषडहस्य प्रथमस्याह्नः माध्यन्दिनसवनम् - प्र तु द्रव (सा० ६७७-९) इत्यौशन(ऊ० १. १. ४) मन्त्यम् । - आर्षेयकल्पः, अध्यायः १, पृ. १०८

औशनम्(प्रतुद्र) दश. १. ४ प्रतुद्रव स्वायुधःप ऋषिर्विप्रः

औशनम्(प्रेष्ठंवो) दश. ९.११ प्रेष्ठंवोअति कविमिवप्र त्वंयविष्ठ

औशनम्(इनोरा) एका. २.२० इनोराजन् कृष्णांयदेनीम् भद्रोभद्रया

औशनम्(आजागृ) अही. ८. ५ आजागृविः सपुनानः सवर्द्धिता

औशनम्(साकमु) सत्र. २. ४ साकमुक्षः संमातृभिः उतप्रपि

औशनानि(अबोधि) सत्र ३ . ८ अबोध्यग्निः अबोधिहोता यदींगणस्य

औशनम्(इदंश्रे) सत्र ३. ९ इदंश्रेष्ठम् रुशद्वत्सा समानोअध्वा

औशनम्(आभाति) सत्र ३. १० आभात्यग्निः नसंस्कृतम् उतायातम्

औशनम् ,, ५.१० तिस्रोवाचः अभिब्रह्मीः रायस्समु ५२४