सामग्री पर जाएँ

ऋग्वेदः सूक्तं ९.८६

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ९.८६ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ९.८५ ऋग्वेदः - मण्डल ९
सूक्तं ९.८६
[[लेखकः :|]]
सूक्तं ९.८७ →
ऋ. १-१० अकृष्टा माषाः, ११-२० सिकता निवावरी, २१-३० पृश्नियोऽजाः, ३१-४० अकृष्टमाषादयस्त्रयः, ४१-४५ भौमोऽत्रिः, ४६-४८ गृत्समदः शौनकः।

दे. पवमानः सोमः। जगती।


प्र त आशवः पवमान धीजवो मदा अर्षन्ति रघुजा इव त्मना ।
दिव्याः सुपर्णा मधुमन्त इन्दवो मदिन्तमासः परि कोशमासते ॥१॥
प्र ते मदासो मदिरास आशवोऽसृक्षत रथ्यासो यथा पृथक् ।
धेनुर्न वत्सं पयसाभि वज्रिणमिन्द्रमिन्दवो मधुमन्त ऊर्मयः ॥२॥
अत्यो न हियानो अभि वाजमर्ष स्वर्वित्कोशं दिवो अद्रिमातरम् ।
वृषा पवित्रे अधि सानो अव्यये सोमः पुनान इन्द्रियाय धायसे ॥३॥
प्र त आश्विनीः पवमान धीजुवो दिव्या असृग्रन्पयसा धरीमणि ।
प्रान्तरृषय स्थाविरीरसृक्षत ये त्वा मृजन्त्यृषिषाण वेधसः ॥४॥
विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोस्ते सतः परि यन्ति केतवः ।
व्यानशिः पवसे सोम धर्मभिः पतिर्विश्वस्य भुवनस्य राजसि ॥५॥
उभयतः पवमानस्य रश्मयो ध्रुवस्य सतः परि यन्ति केतवः ।
यदी पवित्रे अधि मृज्यते हरिः सत्ता नि योना कलशेषु सीदति ॥६॥
यज्ञस्य केतुः पवते स्वध्वरः सोमो देवानामुप याति निष्कृतम् ।
सहस्रधारः परि कोशमर्षति वृषा पवित्रमत्येति रोरुवत् ॥७॥
राजा समुद्रं नद्यो वि गाहतेऽपामूर्मिं सचते सिन्धुषु श्रितः ।
अध्यस्थात्सानु पवमानो अव्ययं नाभा पृथिव्या धरुणो महो दिवः ॥८॥
दिवो न सानु स्तनयन्नचिक्रदद्द्यौश्च यस्य पृथिवी च धर्मभिः ।
इन्द्रस्य सख्यं पवते विवेविदत्सोमः पुनानः कलशेषु सीदति ॥९॥
ज्योतिर्यज्ञस्य पवते मधु प्रियं पिता देवानां जनिता विभूवसुः ।
दधाति रत्नं स्वधयोरपीच्यं मदिन्तमो मत्सर इन्द्रियो रसः ॥१०॥
अभिक्रन्दन्कलशं वाज्यर्षति पतिर्दिवः शतधारो विचक्षणः ।
हरिर्मित्रस्य सदनेषु सीदति मर्मृजानोऽविभिः सिन्धुभिर्वृषा ॥११॥
अग्रे सिन्धूनां पवमानो अर्षत्यग्रे वाचो अग्रियो गोषु गच्छति ।
अग्रे वाजस्य भजते महाधनं स्वायुधः सोतृभिः पूयते वृषा ॥१२॥
अयं मतवाञ्छकुनो यथा हितोऽव्ये ससार पवमान ऊर्मिणा ।
तव क्रत्वा रोदसी अन्तरा कवे शुचिर्धिया पवते सोम इन्द्र ते ॥१३॥
द्रापिं वसानो यजतो दिविस्पृशमन्तरिक्षप्रा भुवनेष्वर्पितः ।
स्वर्जज्ञानो नभसाभ्यक्रमीत्प्रत्नमस्य पितरमा विवासति ॥१४॥
सो अस्य विशे महि शर्म यच्छति यो अस्य धाम प्रथमं व्यानशे ।
पदं यदस्य परमे व्योमन्यतो विश्वा अभि सं याति संयतः ॥१५॥

प्रवद्भार्गवम् Pravadbhargavam

प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतं सखा सख्युर्न प्र मिनाति संगिरम् ।
मर्य इव युवतिभिः समर्षति सोमः कलशे शतयाम्ना पथा ॥१६॥
प्र वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवसनेष्वक्रमुः ।
सोमं मनीषा अभ्यनूषत स्तुभोऽभि धेनवः पयसेमशिश्रयुः ॥१७॥
आ नः सोम संयतं पिप्युषीमिषमिन्दो पवस्व पवमानो अस्रिधम् ।
या नो दोहते त्रिरहन्नसश्चुषी क्षुमद्वाजवन्मधुमत्सुवीर्यम् ॥१८॥
वृषा मतीनां पवते विचक्षणः सोमो अह्नः प्रतरीतोषसो दिवः ।
क्राणा सिन्धूनां कलशाँ अवीवशदिन्द्रस्य हार्द्याविशन्मनीषिभिः ॥१९॥
मनीषिभिः पवते पूर्व्यः कविर्नृभिर्यतः परि कोशाँ अचिक्रदत् ।
त्रितस्य नाम जनयन्मधु क्षरदिन्द्रस्य वायोः सख्याय कर्तवे ॥२०॥
अयं पुनान उषसो वि रोचयदयं सिन्धुभ्यो अभवदु लोककृत् ।
अयं त्रिः सप्त दुदुहान आशिरं सोमो हृदे पवते चारु मत्सरः ॥२१॥
पवस्व सोम दिव्येषु धामसु सृजान इन्दो कलशे पवित्र आ ।
सीदन्निन्द्रस्य जठरे कनिक्रदन्नृभिर्यतः सूर्यमारोहयो दिवि ॥२२॥
अद्रिभिः सुतः पवसे पवित्र आँ इन्दविन्द्रस्य जठरेष्वाविशन् ।
त्वं नृचक्षा अभवो विचक्षण सोम गोत्रमङ्गिरोभ्योऽवृणोरप ॥२३॥
त्वां सोम पवमानं स्वाध्योऽनु विप्रासो अमदन्नवस्यवः ।
त्वां सुपर्ण आभरद्दिवस्परीन्दो विश्वाभिर्मतिभिः परिष्कृतम् ॥२४॥
अव्ये पुनानं परि वार ऊर्मिणा हरिं नवन्ते अभि सप्त धेनवः ।
अपामुपस्थे अध्यायवः कविमृतस्य योना महिषा अहेषत ॥२५॥
इन्दुः पुनानो अति गाहते मृधो विश्वानि कृण्वन्सुपथानि यज्यवे ।
गाः कृण्वानो निर्णिजं हर्यतः कविरत्यो न क्रीळन्परि वारमर्षति ॥२६॥
असश्चतः शतधारा अभिश्रियो हरिं नवन्तेऽव ता उदन्युवः ।
क्षिपो मृजन्ति परि गोभिरावृतं तृतीये पृष्ठे अधि रोचने दिवः ॥२७॥
तवेमाः प्रजा दिव्यस्य रेतसस्त्वं विश्वस्य भुवनस्य राजसि ।
अथेदं विश्वं पवमान ते वशे त्वमिन्दो प्रथमो धामधा असि ॥२८॥
त्वं समुद्रो असि विश्ववित्कवे तवेमाः पञ्च प्रदिशो विधर्मणि ।
त्वं द्यां च पृथिवीं चाति जभ्रिषे तव ज्योतींषि पवमान सूर्यः ॥२९॥
त्वं पवित्रे रजसो विधर्मणि देवेभ्यः सोम पवमान पूयसे ।
त्वामुशिजः प्रथमा अगृभ्णत तुभ्येमा विश्वा भुवनानि येमिरे ॥३०॥
प्र रेभ एत्यति वारमव्ययं वृषा वनेष्वव चक्रदद्धरिः ।
सं धीतयो वावशाना अनूषत शिशुं रिहन्ति मतयः पनिप्नतम् ॥३१॥
स सूर्यस्य रश्मिभिः परि व्यत तन्तुं तन्वानस्त्रिवृतं यथा विदे ।
नयन्नृतस्य प्रशिषो नवीयसीः पतिर्जनीनामुप याति निष्कृतम् ॥३२॥
राजा सिन्धूनां पवते पतिर्दिव ऋतस्य याति पथिभिः कनिक्रदत् ।
सहस्रधारः परि षिच्यते हरिः पुनानो वाचं जनयन्नुपावसुः ॥३३॥
पवमान मह्यर्णो वि धावसि सूरो न चित्रो अव्ययानि पव्यया ।
गभस्तिपूतो नृभिरद्रिभिः सुतो महे वाजाय धन्याय धन्वसि ॥३४॥
इषमूर्जं पवमानाभ्यर्षसि श्येनो न वंसु कलशेषु सीदसि ।
इन्द्राय मद्वा मद्यो मदः सुतो दिवो विष्टम्भ उपमो विचक्षणः ॥३५॥
सप्त स्वसारो अभि मातरः शिशुं नवं जज्ञानं जेन्यं विपश्चितम् ।
अपां गन्धर्वं दिव्यं नृचक्षसं सोमं विश्वस्य भुवनस्य राजसे ॥३६॥
ईशान इमा भुवनानि वीयसे युजान इन्दो हरितः सुपर्ण्यः ।
तास्ते क्षरन्तु मधुमद्घृतं पयस्तव व्रते सोम तिष्ठन्तु कृष्टयः ॥३७॥
त्वं नृचक्षा असि सोम विश्वतः पवमान वृषभ ता वि धावसि ।
स नः पवस्व वसुमद्धिरण्यवद्वयं स्याम भुवनेषु जीवसे ॥३८॥
गोवित्पवस्व वसुविद्धिरण्यविद्रेतोधा इन्दो भुवनेष्वर्पितः ।
त्वं सुवीरो असि सोम विश्ववित्तं त्वा विप्रा उप गिरेम आसते ॥३९॥
उन्मध्व ऊर्मिर्वनना अतिष्ठिपदपो वसानो महिषो वि गाहते ।
राजा पवित्ररथो वाजमारुहत्सहस्रभृष्टिर्जयति श्रवो बृहत् ॥४०॥
स भन्दना उदियर्ति प्रजावतीर्विश्वायुर्विश्वाः सुभरा अहर्दिवि ।
ब्रह्म प्रजावद्रयिमश्वपस्त्यं पीत इन्दविन्द्रमस्मभ्यं याचतात् ॥४१॥
सो अग्रे अह्नां हरिर्हर्यतो मदः प्र चेतसा चेतयते अनु द्युभिः ।
द्वा जना यातयन्नन्तरीयते नरा च शंसं दैव्यं च धर्तरि ॥४२॥

प्रवर्ग्यगानम्१-५

अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मधुनाभ्यञ्जते ।
सिन्धोरुच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमासु गृभ्णते ॥४३॥
विपश्चिते पवमानाय गायत मही न धारात्यन्धो अर्षति ।
अहिर्न जूर्णामति सर्पति त्वचमत्यो न क्रीळन्नसरद्वृषा हरिः ॥४४॥
अग्रेगो राजाप्यस्तविष्यते विमानो अह्नां भुवनेष्वर्पितः ।
हरिर्घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः ॥४५॥
असर्जि स्कम्भो दिव उद्यतो मदः परि त्रिधातुर्भुवनान्यर्षति ।
अंशुं रिहन्ति मतयः पनिप्नतं गिरा यदि निर्णिजमृग्मिणो ययुः ॥४६॥
प्र ते धारा अत्यण्वानि मेष्यः पुनानस्य संयतो यन्ति रंहयः ।
यद्गोभिरिन्दो चम्वोः समज्यस आ सुवानः सोम कलशेषु सीदसि ॥४७॥
पवस्व सोम क्रतुविन्न उक्थ्योऽव्यो वारे परि धाव मधु प्रियम् ।
जहि विश्वान्रक्षस इन्दो अत्रिणो बृहद्वदेम विदथे सुवीराः ॥४८॥


सायणभाष्यम्

अथ पञ्चमेऽनुवाक एकादश सूक्तानि । तत्र प्र ते ' इत्यष्टाचत्वारिंशदृचं प्रथमं सूक्तम् ।। प्रथमदशर्चस्य आकृष्टा' इति माषा इति च द्विनामान ऋषिगणा द्रष्टारः । द्वितीयस्य दशर्चस्य सिकता इति नीवावरी इति द्विनामान ऋषिगणाः । तृतीयस्य दशर्चस्य पृश्नय इत्यजा इति च नामद्वयोपेता ऋषिगणाः । अदृष्टार्थमेषां द्विनामत्वमवगन्तव्यम् । चतुर्थस्य दशर्चस्य आकृष्टा माषा इत्यादिद्विनामानस्त्रयो गणा द्रष्टारः । एवं चत्वारिंशद्गताः । अथ पञ्चानां भौमोऽत्रिर्ऋषिः । ततस्तिसृणां गृत्समदः । जगती छन्दः । पवमानः सोमो देवता । तथा चानुक्रान्तं----' प्र तेऽष्टाचत्वारिंशदृषिगणा दशर्चा आकृष्टा माषाः प्रथमे सिकता निवावरी द्वितीये पृश्नयोऽजास्तृतीये त्रयश्चतुर्थेऽत्रिः पञ्चान्त्यास्तिस्रो गृत्समदः' इति । गतो विनियोगः ॥


प्र त॑ आ॒शवः॑ पवमान धी॒जवो॒ मदा॑ अर्षंति रघु॒जा इ॑व॒ त्मना॑ ।

दि॒व्याः सु॑प॒र्णा मधु॑मंत॒ इंद॑वो म॒दिंत॑मासः॒ परि॒ कोश॑मासते ॥१

प्र । ते॒ । आ॒शवः॑ । प॒व॒मा॒न॒ । धी॒ऽजवः॑ । मदाः॑ । अ॒र्ष॒न्ति॒ । र॒घु॒जाःऽइ॑व । त्मना॑ ।

दि॒व्याः । सु॒ऽप॒र्णाः । मधु॑ऽमन्तः । इन्द॑वः । म॒दिन्ऽत॑मासः । परि॑ । कोश॑म् । आ॒स॒ते॒ ॥१

प्र । ते । आशवः । पवमान । धीऽजवः । मदाः । अर्षन्ति । रघुजाःऽइव । त्मना ।

दिव्याः । सुऽपर्णाः । मधुऽमन्तः । इन्दवः । मदिन्ऽतमासः । परि । कोशम् । आसते ॥१

हे "पवमान पूयमान सोम "ते तव “आशवः व्याप्ताः “धीजवः मनोवेगा: “मदाः मदकरा रसाः अर्षन्ति गच्छन्ति । “त्मना आत्मनैव । अनायासेनेत्यर्थः । क इव । "रघुजाइव । रघुः। शीघ्रगा वडवाः । तत्र जाता रघुजाः । त इव निर्गतास्ते "दिव्याः दिवि भवाः । अन्तरिक्षे दशापवित्रे धार्यमाणा इत्यर्थः । “सुपर्णाः सुपतनाः "मधुमन्तः माधुर्योपेताः “मदिन्तमासः अतिशयेन मादयितृतमाः "इन्दवः दीप्ता रसाः "कोशं द्रोणकलशं "परि "आसते पर्युपविशन्ति ॥


प्र ते॒ मदा॑सो मदि॒रास॑ आ॒शवोऽसृ॑क्षत॒ रथ्या॑सो॒ यथा॒ पृथ॑क् ।

धे॒नुर्न व॒त्सं पय॑सा॒भि व॒ज्रिण॒मिंद्र॒मिंद॑वो॒ मधु॑मंत ऊ॒र्मयः॑ ॥२

प्र । ते॒ । मदा॑सः । म॒दि॒रासः॑ । आ॒शवः॑ । असृ॑क्षत । रथ्या॑सः । यथा॑ । पृथ॑क् ।

धे॒नुः । न । व॒त्सम् । पय॑सा । अ॒भि । व॒ज्रिण॑म् । इन्द्र॑म् । इन्द॑वः । मधु॑ऽमन्तः । ऊ॒र्मयः॑ ॥२

प्र । ते । मदासः । मदिरासः । आशवः । असृक्षत । रथ्यासः । यथा । पृथक् ।

धेनुः । न । वत्सम् । पयसा । अभि । वज्रिणम् । इन्द्रम् । इन्दवः । मधुऽमन्तः । ऊर्मयः ॥२

“प्र “असृक्षत प्रसृज्यन्ते “ते तव “मदिरासः मदकराः “आशवः व्याप्ताः “मदासः मदा रसाः । क इव । “रथ्यासः रथ्या अश्वाः ते “यथा तथा “पृथक् प्रसृज्यन्ते । ते “मधुमन्तः माधुर्योपेताः “ऊर्मयः प्रवृद्धरसाः “इन्दवः सोमाः “धेनुः “पयसा “वत्सम् इव स्वरसेन “वज्रिणमिन्द्रम् “अभि गच्छन्ति ॥


अत्यो॒ न हि॑या॒नो अ॒भि वाज॑मर्ष स्व॒र्वित्कोशं॑ दि॒वो अद्रि॑मातरं ।

वृषा॑ प॒वित्रे॒ अधि॒ सानो॑ अ॒व्यये॒ सोमः॑ पुना॒न इं॑द्रि॒याय॒ धाय॑से ॥३

अत्यः॑ । न । हि॒या॒नः । अ॒भि । वाज॑म् । अ॒र्ष॒ । स्वः॒ऽवित् । कोश॑म् । दि॒वः । अद्रि॑ऽमातरम् ।

वृषा॑ । प॒वित्रे॑ । अधि॑ । सानौ॑ । अ॒व्यये॑ । सोमः॑ । पु॒ना॒नः । इ॒न्द्रि॒याय॑ । धाय॑से ॥३

अत्यः । न । हियानः । अभि । वाजम् । अर्ष । स्वःऽवित् । कोशम् । दिवः । अद्रिऽमातरम् ।

वृषा । पवित्रे । अधि । सानौ । अव्यये । सोमः । पुनानः । इन्द्रियाय । धायसे ॥३

“अत्यो “न अश्व इव “हियानः प्रेर्यमाणः “वाजं संग्रामम् “अभि “अर्ष अभिगच्छ । तथा “स्वर्वित् सर्ववित् “कोशं द्रोणकलशं “दिवः द्युलोकात् अद्रिमातरम् । अद्रिर्मेघः। तेन तज्जन्यमुदकं लक्ष्यते । तस्य निर्मातारमभ्यर्ष । अथ प्रत्यक्षकृतः । “वृषा वर्षकः “सोमः “अव्यये अविमये “अधि “सानौ । अधीति सप्तम्यर्थानुवादी । समुच्छ्रिते तस्मिन् “पुनानः पूयमानो भवति । किमर्थम् । “धायसे धारकाय “इन्द्रियाय तदर्थम् ॥


प्र त॒ आश्वि॑नीः पवमान धी॒जुवो॑ दि॒व्या अ॑सृग्र॒न्पय॑सा॒ धरी॑मणि ।

प्रांतर्ऋष॑यः॒ स्थावि॑रीरसृक्षत॒ ये त्वा॑ मृ॒जंत्यृ॑षिषाण वे॒धसः॑ ॥४

प्र । ते॒ । आश्वि॑नीः । प॒व॒मा॒न॒ । धी॒ऽजुवः॑ । दि॒व्याः । अ॒सृ॒ग्र॒न् । पय॑सा । धरी॑मणि ।

प्र । अ॒न्तः । ऋष॑यः । स्थावि॑रीः । अ॒सृ॒क्ष॒त॒ । ये । त्वा॒ । मृ॒जन्ति॑ । ऋ॒षि॒ऽसा॒ण॒ । वे॒धसः॑ ॥४

प्र । ते । आश्विनीः । पवमान । धीऽजुवः । दिव्याः । असृग्रन् । पयसा । धरीमणि ।

प्र । अन्तः । ऋषयः । स्थाविरीः । असृक्षत । ये । त्वा । मृजन्ति । ऋषिऽसाण । वेधसः ॥४

हे “पवमान सोम “ते तव “आश्विनीः व्याप्ताः ॥ ‘ अशू व्याप्तौ ' इत्यस्मादौणादिको विनिः । ततोऽण् । व्यत्ययेनाद्युदात्तः ॥ “धीजुवः मनोवेगाः "दिव्याः दिवि भवा दिवः पतन्त्यो धाराः “पयसा युक्ताः “धरीमणि धारके द्रोणकलशे “प्र “असृग्रन् गच्छन्ति । “ये “वेधसः विधातारः “ऋषयः हे सोम “ऋषिषाण ऋषिभिः संभक्त “त्वा त्वां “मृजन्ति अभिषुण्वन्ति ते ऋषयः “स्थाविरीः स्थविरा धाराः “अन्तः मध्ये पात्रस्यान्तः “प्र “असृक्षत प्रसृजन्ति ।।


विश्वा॒ धामा॑नि विश्वचक्ष॒ ऋभ्व॑सः प्र॒भोस्ते॑ स॒तः परि॑ यंति के॒तवः॑ ।

व्या॒न॒शिः प॑वसे सोम॒ धर्म॑भिः॒ पति॒र्विश्व॑स्य॒ भुव॑नस्य राजसि ॥५

विश्वा॑ । धामा॑नि । वि॒श्व॒ऽच॒क्षः॒ । ऋभ्व॑सः । प्र॒ऽभोः । ते॒ । स॒तः । परि॑ । य॒न्ति॒ । के॒तवः॑ ।

वि॒ऽआ॒न॒शिः । प॒व॒से॒ । सो॒म॒ । धर्म॑ऽभिः । पतिः॑ । विश्व॑स्य । भुव॑नस्य । रा॒ज॒सि॒ ॥५

विश्वा । धामानि । विश्वऽचक्षः । ऋभ्वसः । प्रऽभोः । ते । सतः । परि । यन्ति । केतवः ।

विऽआनशिः । पवसे । सोम । धर्मऽभिः । पतिः । विश्वस्य । भुवनस्य । राजसि ॥५

हे “विश्वचक्षः सर्वस्य द्रष्टः सोम “प्रभोः परिवृढस्य “सतः “ते तव “ऋभ्वसः । ऋभ्वा इति महन्नाम । महान्तः “केतवः रश्मयः “विश्वा सर्वाणि “धामानि तेजःस्थानानि देवशरीराणि “परि “यन्ति परिगच्छन्ति । प्रकाशयन्तीत्यर्थः । हे “सोम “व्यानशिः व्यापनशीलश्च त्वं “धर्मभिः धारकैः रसनिस्यन्दैः “पवसे पूयसे । “विश्वस्य “भुवनस्य च "पतिः स्वामी त्वं “राजसि ईश्वरो भवसि ॥ ॥१२॥


उ॒भ॒यतः॒ पव॑मानस्य र॒श्मयो॑ ध्रु॒वस्य॑ स॒तः परि॑ यंति के॒तवः॑ ।

यदी॑ प॒वित्रे॒ अधि॑ मृ॒ज्यते॒ हरिः॒ सत्ता॒ नि योना॑ क॒लशे॑षु सीदति ॥६

उ॒भ॒यतः॑ । पव॑मानस्य । र॒श्मयः॑ । ध्रु॒वस्य॑ । स॒तः । परि॑ । य॒न्ति॒ । के॒तवः॑ ।

यदि॑ । प॒वित्रे॑ । अधि॑ । मृ॒ज्यते॑ । हरिः॑ । सत्ता॑ । नि । योना॑ । क॒लशे॑षु । सी॒द॒ति॒ ॥६

उभयतः । पवमानस्य । रश्मयः । ध्रुवस्य । सतः । परि । यन्ति । केतवः ।

यदि । पवित्रे । अधि । मृज्यते । हरिः । सत्ता । नि । योना । कलशेषु । सीदति ॥६

“पवमानस्य पूयमानस्य “ध्रुवस्य स्वयमविचलितस्य “सतः विद्यमानस्य सोमस्य “केतवः प्रज्ञापकाः “रश्मयः “उभयतः इतश्चामुतश्च “परि “यन्ति परिगच्छन्ति । अभिषवसमय एवं भवति । “यदि यदा “पवित्रे देशापवित्रे “हरिः हरितवर्णोऽयम् “अधि “मृज्यते तदानीं “सत्ता सदनशीलोऽयं योनौ स्वीये स्थाने “कलशेषु द्रोणकलशादिषु “नि “षीदति ॥


य॒ज्ञस्य॑ के॒तुः प॑वते स्वध्व॒रः सोमो॑ दे॒वाना॒मुप॑ याति निष्कृ॒तं ।

स॒हस्र॑धारः॒ परि॒ कोश॑मर्षति॒ वृषा॑ प॒वित्र॒मत्ये॑ति॒ रोरु॑वत् ॥७

य॒ज्ञस्य॑ । के॒तुः । प॒व॒ते॒ । सु॒ऽअ॒ध्व॒रः । सोमः॑ । दे॒वाना॑म् । उप॑ । या॒ति॒ । निः॒ऽकृ॒तम् ।

स॒हस्र॑ऽधारः । परि॑ । कोश॑म् । अ॒र्ष॒ति॒ । वृषा॑ । प॒वित्र॑म् । अति॑ । ए॒ति॒ । रोरु॑वत् ॥७

यज्ञस्य । केतुः । पवते । सुऽअध्वरः । सोमः । देवानाम् । उप । याति । निःऽकृतम् ।

सहस्रऽधारः । परि । कोशम् । अर्षति । वृषा । पवित्रम् । अति । एति । रोरुवत् ॥७

“यज्ञस्य “केतुः प्रज्ञापकः “स्वध्वरः शोभनयागः “सोमः “पवते पूयते अभिषूयते । तादृशः सोमः “देवानां “निष्कृतं संस्कृतं स्थानम् “उप “याति उपगच्छति । तदर्थं “सहस्रधारः “कोशं द्रोणकलशं “परि “अर्षति । ततस्तदर्थं “वृषा सेक्तायं “रोरुवत् शब्दयन् “पवित्रम् अतिक्रम्य गच्छत्यधोदेशम् ॥


राजा॑ समु॒द्रं न॒द्यो॒३॒॑ वि गा॑हते॒ऽपामू॒र्मिं स॑चते॒ सिंधु॑षु श्रि॒तः ।

अध्य॑स्था॒त्सानु॒ पव॑मानो अ॒व्ययं॒ नाभा॑ पृथि॒व्या ध॒रुणो॑ म॒हो दि॒वः ॥८

राजा॑ । स॒मु॒द्रम् । न॒द्यः॑ । वि । गा॒ह॒ते॒ । अ॒पाम् । ऊ॒र्मिम् । स॒च॒ते॒ । सिन्धु॑षु । श्रि॒तः ।

अधि॑ । अ॒स्था॒त् । सानु॑ । पव॑मानः । अ॒व्यय॑म् । नाभा॑ । पृ॒थि॒व्याः । ध॒रुणः॑ । म॒हः । दि॒वः ॥८

राजा । समुद्रम् । नद्यः । वि । गाहते । अपाम् । ऊर्मिम् । सचते । सिन्धुषु । श्रितः ।

अधि । अस्थात् । सानु । पवमानः । अव्ययम् । नाभा । पृथिव्याः । धरुणः । महः । दिवः ॥८

अयं सोमः “राजा “समुद्रम् अन्तरिक्षं “नद्यः तत्रत्या अपश्च “वि “गाहते । विगाह्य च “अपामूर्मिं “सचते उदकपूरं स्रवति । “सिन्धुषु उदकेषु ग्रहेषु वा “श्रितः सन् । हूयमानः सन् रश्मिद्वारा सूर्यं प्राप्य अन्तरिक्षे मेघेषु वर्तत इत्यर्थः । अस्यैव वृष्टिसाधनत्वात् । यद्वा । लुप्तोपममेतत् । समुद्रं नद्य इव सिन्धुषु वसतीवरीषु श्रित आश्रितः सन् समुद्रम् अभिषुतसोमरसाधारपात्रं वि गाहते अभिषवात्पूर्वम् । पश्चात् “पवमानः पूयमानः “अव्ययं "सानु समुच्छ्रितं दशापवित्रम् “अध्यस्थात् अधितिष्ठति । कुत्र देशे। “नाभा “पृथिव्याः नाभिस्थानीये यज्ञे। तत्संबन्धिनि हविर्धान इत्यर्थः । ‘ यज्ञमाहुर्भुवनस्य नाभिम् ' (तै. सं. ७.४.१८.२ ) इति श्रुतेः । कीदृशः । “महो “दिवः द्युलोकस्य “धरुणः धर्ता ॥


दि॒वो न सानु॑ स्त॒नय॑न्नचिक्रद॒द्द्यौश्च॒ यस्य॑ पृथि॒वी च॒ धर्म॑भिः ।

इंद्र॑स्य स॒ख्यं प॑वते वि॒वेवि॑द॒त्सोमः॑ पुना॒नः क॒लशे॑षु सीदति ॥९

दि॒वः । न । सानु॑ । स्त॒नय॑न् । अ॒चि॒क्र॒द॒त् । द्यौः । च॒ । यस्य॑ । पृ॒थि॒वी । च॒ । धर्म॑ऽभिः ।

इन्द्र॑स्य । स॒ख्यम् । प॒व॒ते॒ । वि॒ऽवेवि॑दत् । सोमः॑ । पु॒ना॒नः । क॒लशे॑षु । सी॒द॒ति॒ ॥९

दिवः । न । सानु । स्तनयन् । अचिक्रदत् । द्यौः । च । यस्य । पृथिवी । च । धर्मऽभिः ।

इन्द्रस्य । सख्यम् । पवते । विऽवेविदत् । सोमः । पुनानः । कलशेषु । सीदति ॥९

"दिवो “न "सानु “स्तनयन् द्युलोकस्य समुच्छ्रितं स्थानं शब्दयन्निव “अचिक्रदत् क्रन्दते “यस्य सोमस्य “धर्मभिः धारणैः “द्यौश्च “पृथिवी “च धृते स्याताम् । वृष्टिप्रदानद्वारौषध्याद्युत्पादनेन देवानां हविर्भावेन चोभयधारकत्वं प्रसिद्धम् । तादृशः “सोमः महानुभावः सोमः “पुनानः पूयमानः “इन्द्रस्य “सख्यं “विवेविदत् “पवते पूयते पवित्रे । सः पुनानः सोमः “कलशेषु “सीदति निवसति


ज्योति॑र्य॒ज्ञस्य॑ पवते॒ मधु॑ प्रि॒यं पि॒ता दे॒वानां॑ जनि॒ता वि॒भूव॑सुः ।

दधा॑ति॒ रत्नं॑ स्व॒धयो॑रपी॒च्यं॑ म॒दिंत॑मो मत्स॒र इं॑द्रि॒यो रसः॑ ॥१०

ज्योतिः॑ । य॒ज्ञस्य॑ । प॒व॒ते॒ । मधु॑ । प्रि॒यम् । पि॒ता । दे॒वाना॑म् । ज॒नि॒ता । वि॒भुऽव॑सुः ।

दधा॑ति । रत्न॑म् । स्व॒धयोः॑ । अ॒पी॒च्य॑म् । म॒दिन्ऽत॑मः । म॒त्स॒रः । इ॒न्द्रि॒यः । रसः॑ ॥१०

ज्योतिः । यज्ञस्य । पवते । मधु । प्रियम् । पिता । देवानाम् । जनिता । विभुऽवसुः ।

दधाति । रत्नम् । स्वधयोः । अपीच्यम् । मदिन्ऽतमः । मत्सरः । इन्द्रियः । रसः ॥१०

“यज्ञस्य “ज्योतिः प्रकाशकः सोमः “प्रियं “देवानां “मधु मधुरं रसं “पवते क्षरति । यद्वा । ज्योतिर्यज्ञस्येत्येतदपि मधुविशेषणम् । तथा सति उक्तलक्षणं मधु पवते पूयत इत्यर्थः । सोमरसो विशेष्यते । “पिता रक्षिता “देवानां “जनिता उत्पादयिता सर्वस्य “विभूवसुः प्रभूतधनः । ईदृशः सः “स्वधयोः द्यावापृथिव्योः। ‘ स्वधे पुरंधी ' इति द्यावाथिवीनामसु पठितः । तयोः “अपीच्यम् अन्तर्हितं "रत्नं रमणीयं धनं “दधाति स्थापयति स्तोतृषु । पुनः स एव विशेष्यते । “मदिन्तमः मादयितृतमः “मत्सरः सोमः “इन्द्रियः इन्द्रेण जुष्ट इन्द्रस्य वर्धको वा “रसः रसरूपः ॥ ॥ १३ ॥


अ॒भि॒क्रंद॑न्क॒लशं॑ वा॒ज्य॑र्षति॒ पति॑र्दि॒वः श॒तधा॑रो विचक्ष॒णः ।

हरि॑र्मि॒त्रस्य॒ सद॑नेषु सीदति मर्मृजा॒नोऽवि॑भिः॒ सिंधु॑भि॒र्वृषा॑ ॥११

अ॒भि॒ऽक्रन्द॑न् । क॒लश॑म् । वा॒जी । अ॒र्ष॒ति॒ । पतिः॑ । दि॒वः । श॒तऽधा॑रः । वि॒ऽच॒क्ष॒णः ।

हरिः॑ । मि॒त्रस्य॑ । सद॑नेषु । सी॒द॒ति॒ । म॒र्मृ॒जा॒नः । अवि॑ऽभिः । सिन्धु॑ऽभिः । वृषा॑ ॥११

अभिऽक्रन्दन् । कलशम् । वाजी । अर्षति । पतिः । दिवः । शतऽधारः । विऽचक्षणः ।

हरिः । मित्रस्य । सदनेषु । सीदति । मर्मृजानः । अविऽभिः । सिन्धुऽभिः । वृषा ॥११

“वाजी वेजनवान् गमनवान् अश्वसदृशो वा सोमः “अभिक्रन्दन् शब्दं कुर्वन् “कलशम् अभि “अर्षति गच्छति । कीदृशो वाजी । “दिवः “पतिः द्युलोकस्य स्वामी “शतधारः शतसंख्याकधारः “विचक्षणः विद्रष्टा । “हरिः हरितवर्णो रसात्मकः सोमः “मित्रस्य देवानां मित्रभूतस्य यज्ञस्य वा “सदनेषु स्थानेषु “सीदति पात्रेषु धृतः सन् । कीदृशो हरिः । “सिन्धुभिः स्यन्दनसाधनैः “अविभिः दशापवित्रच्छिद्रैः “मर्मृजानः शोध्यमानः “वृषा वर्षकः ॥


अग्रे॒ सिंधू॑नां॒ पव॑मानो अर्ष॒त्यग्रे॑ वा॒चो अ॑ग्रि॒यो गोषु॑ गच्छति ।

अग्रे॒ वाज॑स्य भजते महाध॒नं स्वा॑यु॒धः सो॒तृभिः॑ पूयते॒ वृषा॑ ॥१२

अग्रे॑ । सिन्धू॑नाम् । पव॑मानः । अ॒र्ष॒ति॒ । अग्रे॑ । वा॒चः । अ॒ग्रि॒यः । गोषु॑ । ग॒च्छ॒ति॒ ।

अग्रे॑ । वाज॑स्य । भ॒ज॒ते॒ । म॒हा॒ऽध॒नम् । सु॒ऽआ॒यु॒धः । सो॒तृऽभिः॑ । पू॒य॒ते॒ । वृषा॑ ॥१२

अग्रे । सिन्धूनाम् । पवमानः । अर्षति । अग्रे । वाचः । अग्रियः । गोषु । गच्छति ।

अग्रे । वाजस्य । भजते । महाऽधनम् । सुऽआयुधः । सोतृऽभिः । पूयते । वृषा ॥१२

“यः सोमः “पवमानः “सिन्धूनां स्यन्दमानानामुदकानाम् “अग्रे “अर्षति गच्छति । तथा “अग्रियः अग्रार्हः श्रेष्ठः “अग्रे “वाचः माध्यमिकाया अग्रे अर्षति। तथा “गोषु रश्मिषु “गच्छति । तथा “वाजस्य अन्नस्य बलस्य वा लाभाय “महाधनं संग्रामं “भजते । सः “स्वायुधः “वृषा वर्षकः सोमः “सोतृभिः अभिषवकर्तृभिः “पूयते ॥


अ॒यं म॒तवां॑छकु॒नो यथा॑ हि॒तोऽव्ये॑ ससार॒ पव॑मान ऊ॒र्मिणा॑ ।

तव॒ क्रत्वा॒ रोद॑सी अंत॒रा क॑वे॒ शुचि॑र्धि॒या प॑वते॒ सोम॑ इंद्र ते ॥१३

अ॒यम् । म॒तऽवा॑न् । श॒कु॒नः । यथा॑ । हि॒तः । अव्ये॑ । स॒सा॒र॒ । पव॑मानः । ऊ॒र्मिणा॑ ।

तव॑ । क्रत्वा॑ । रोद॑सी॒ इति॑ । अ॒न्त॒रा । क॒वे॒ । शुचिः॑ । धि॒या । प॒व॒ते॒ । सोमः॑ । इ॒न्द्र॒ । ते॒ ॥१३

अयम् । मतऽवान् । शकुनः । यथा । हितः । अव्ये । ससार । पवमानः । ऊर्मिणा ।

तव । क्रत्वा । रोदसी इति । अन्तरा । कवे । शुचिः । धिया । पवते । सोमः । इन्द्र । ते ॥१३

“अयं सोमः “मतवान् । मतं संमतं प्रियं स्तोत्रम् । तद्वान् “पवमानः पूयमानः शोध्यमानश्च सन् “हितः प्रेरितः “शकुनः पक्षी “यथा शीघ्रं गच्छति तथा “अव्ये पवित्रे “ऊर्मिणा रसेन “ससार गच्छति । हे “कवे क्रान्तप्रज्ञ अनूचान वा । ये वा अनूचानास्ते कवयः' (ऐ. ब्रा. २. ३८) इति श्रुतेः । तादृश यजमान यद्वा उक्तलक्षण “इन्द्र “ते तव “क्रत्वा कर्मणा “धिया प्रज्ञया च । यद्वा । विशेषणविशेष्यभावः । धिया धारकेण क्रत्वा कर्मणा “रोदसी “अन्तरा रोदस्योर्द्यावापृथिव्योरन्तरा “शुचिः “सोमः “पवते पूयते ॥


द्रा॒पिं वसा॑नो यज॒तो दि॑वि॒स्पृश॑मंतरिक्ष॒प्रा भुव॑ने॒ष्वर्पि॑तः ।

स्व॑र्जज्ञा॒नो नभ॑सा॒भ्य॑क्रमीत्प्र॒त्नम॑स्य पि॒तर॒मा वि॑वासति ॥१४

द्रा॒पिम् । वसा॑नः । य॒ज॒तः । दि॒वि॒ऽस्पृश॑म् । अ॒न्त॒रि॒क्ष॒ऽप्राः । भुव॑नेषु । अर्पि॑तः ।

स्वः॑ । ज॒ज्ञा॒नः । नभ॑सा । अ॒भि । अ॒क्र॒मी॒त् । प्र॒त्नम् । अ॒स्य॒ । पि॒तर॑म् । आ । वि॒वा॒स॒ति॒ ॥१४

द्रापिम् । वसानः । यजतः । दिविऽस्पृशम् । अन्तरिक्षऽप्राः । भुवनेषु । अर्पितः ।

स्वः । जज्ञानः । नभसा । अभि । अक्रमीत् । प्रत्नम् । अस्य । पितरम् । आ । विवासति ॥१४

“दिविस्पृशं दिविस्प्रष्टारं “द्रापिं कवचं तेजोरूपं “वसानः आच्छादयन् “यजतः यष्टव्यः “अन्तरिक्षप्राः अन्तरिक्षस्य पूरक उदकेन तादृशः सोमः “भुवनेषु उदकेषु “अर्पितः “स्वः सर्वं स्वेन पाययितव्यं देवसंघं स्वर्गं वा “जज्ञानः जनयन् । अथवा । स्वरुदकम् । तज्जनयन् । “नभसा उदकेन “अभ्यक्रमीत् अभिक्रामति । “अस्य उदकस्य “पितरं पालकं “प्रत्नं पुराणमिन्द्रम् “आ “विवासति परिचरति ॥


सो अ॑स्य वि॒शे महि॒ शर्म॑ यच्छति॒ यो अ॑स्य॒ धाम॑ प्रथ॒मं व्या॑न॒शे ।

प॒दं यद॑स्य पर॒मे व्यो॑म॒न्यतो॒ विश्वा॑ अ॒भि सं या॑ति सं॒यतः॑ ॥१५

सः । अ॒स्य॒ । वि॒शे । महि॑ । शर्म॑ । य॒च्छ॒ति॒ । यः । अ॒स्य॒ । धाम॑ । प्र॒थ॒मम् । वि॒ऽआ॒न॒शे ।

प॒दम् । यत् । अ॒स्य॒ । प॒र॒मे । विऽओ॑मनि । अतः॑ । विश्वाः॑ । अ॒भि । सम् । या॒ति॒ । स॒म्ऽयतः॑ ॥१५

सः । अस्य । विशे । महि । शर्म । यच्छति । यः । अस्य । धाम । प्रथमम् । विऽआनशे ।

पदम् । यत् । अस्य । परमे । विऽओमनि । अतः । विश्वाः । अभि । सम् । याति । सम्ऽयतः ॥१५

“सः सोमः “अस्य इन्द्रस्य “विशे प्रवेशनाय "महि महत् “शर्म सुखं “यच्छति । “यः सोमः “अस्य इन्द्रस्य “धाम तेजोयुक्तं शरीरं “प्रथमम् इतरदेवप्राप्तेः पूर्वं “व्यानशे प्राप्तवान् । “यत् यस्य “अस्य सोमस्य “परमे उत्कृष्टे “व्योमन् विशेषेण रक्षके द्युलोके वेद्यां वा “पदं भवति । “यतः यस्मात् सोमात् तृप्त इन्द्रः सोमः स्वयं वा “विश्वाः “संयतः सर्वान् संग्रामान “अभि “याति' सम्यगभिगच्छति । स सोमो महि शर्म यच्छतीति संबन्धः ॥ ॥ १४ ॥


प्रो अ॑यासी॒दिंदु॒रिंद्र॑स्य निष्कृ॒तं सखा॒ सख्यु॒र्न प्र मि॑नाति सं॒गिरं॑ ।

मर्य॑ इव युव॒तिभिः॒ सम॑र्षति॒ सोमः॑ क॒लशे॑ श॒तया॑म्ना प॒था ॥१६

प्रो इति॑ । अ॒या॒सी॒त् । इन्दुः॑ । इन्द्र॑स्य । निः॒ऽकृ॒तम् । सखा॑ । सख्युः॑ । न । प्र । मि॒ना॒ति॒ । स॒म्ऽगिर॑म् ।

मर्यः॑ऽइव । यु॒व॒तिऽभिः॑ । सम् । अ॒र्ष॒ति॒ । सोमः॑ । क॒लशे॑ । श॒तऽया॑म्ना । प॒था ॥१६

प्रो इति । अयासीत् । इन्दुः । इन्द्रस्य । निःऽकृतम् । सखा । सख्युः । न । प्र । मिनाति । सम्ऽगिरम् ।

मर्यःऽइव । युवतिऽभिः । सम् । अर्षति । सोमः । कलशे । शतऽयाम्ना । पथा ॥१६

"इन्दुः सोमः “इन्द्रस्य “निष्कृतं स्थानमुदरं “प्रो “अयासीत् प्रैव गच्छति । गत्वा च “सखा सखिभूतः सोमः “सख्युः इन्द्रस्य “संगिरं सम्यग्गिरणाधारभूतमुदरं “न “प्र “मिनाति न हिनस्ति । किंच “मर्यइव “युवतिभिः मर्त्यो यथा युवतिभिः सह संगतो भवति तद्वदयमपि सोमः युवतिभिर्मिश्रणशीलाभिर्वसतीवरीभिरद्भिः सह “समर्षति संगच्छतेऽभिषवकाले । पश्चात् “सोमः “शतयाम्ना अनेकयानसाधनच्छिद्रोपेतेन “पथा मार्गेण दशापवित्रसंबन्धिनि “कलशे द्रोणकलशे गच्छतीति शेषः । यद्वा एकमेव वाक्यम् । यथा मर्यो युवतिभिः सह संगच्छते एवं कलशे शतयाम्ना पथा संगच्छतेऽद्भिः॥


प्र वो॒ धियो॑ मंद्र॒युवो॑ विप॒न्युवः॑ पन॒स्युवः॑ सं॒वस॑नेष्वक्रमुः ।

सोमं॑ मनी॒षा अ॒भ्य॑नूषत॒ स्तुभो॒ऽभि धे॒नवः॒ पय॑सेमशिश्रयुः ॥१७

प्र । वः॒ । धियः॑ । म॒न्द्र॒ऽयुवः॑ । वि॒प॒न्युवः॑ । प॒न॒स्युवः॑ । स॒म्ऽवस॑नेषु । अ॒क्र॒मुः॒ ।

सोम॑म् । म॒नी॒षाः । अ॒भि । अ॒नू॒ष॒त॒ । स्तुभः॑ । अ॒भि । धे॒नवः॑ । पय॑सा । ई॒म् । अ॒शि॒श्र॒युः॒ ॥१७

प्र । वः । धियः । मन्द्रऽयुवः । विपन्युवः । पनस्युवः । सम्ऽवसनेषु । अक्रमुः ।

सोमम् । मनीषाः । अभि । अनूषत । स्तुभः । अभि । धेनवः । पयसा । ईम् । अशिश्रयुः ॥१७

हे सोम “वः युष्माकं “धियः ध्यातारः “मन्द्रयुवः मदकरं शब्दं कामयमानाः “पनस्युवः स्तुतिं कामयमानाः “विपन्युवः । स्तोतृनामैतत् । स्तोतारः “संवसनेषु संवासयोग्येषु यागगृहेषु “प्र “अक्रमुः प्रक्रमन्ते । तदेवाह । “सोमं “मनीषाः मनस ईश्वराः “स्तुभः स्तोतारः “अभ्यनूषत अभिष्टुवन्ति । “धेनवः अपि “पयसा स्वीयेन “ईम् एनं सोमम् “अभि “अशिश्रयुः अभिश्रीणन्ति ।


आ नः॑ सोम सं॒यतं॑ पि॒प्युषी॒मिष॒मिंदो॒ पव॑स्व॒ पव॑मानो अ॒स्रिधं॑ ।

या नो॒ दोह॑ते॒ त्रिरह॒न्नस॑श्चुषी क्षु॒मद्वाज॑व॒न्मधु॑मत्सु॒वीर्यं॑ ॥१८

आ । नः॒ । सो॒म॒ । स॒म्ऽयत॑म् । पि॒प्युषी॑म् । इष॑म् । इन्दो॒ इति॑ । पव॑स्व । पव॑मानः । अ॒स्रिध॑म् ।

या । नः॒ । दोह॑ते । त्रिः । अह॑न् । अस॑श्चुषी । क्षु॒ऽमत् । वाज॑ऽवत् । मधु॑ऽमत् । सु॒ऽवीर्य॑म् ॥१८

आ । नः । सोम । सम्ऽयतम् । पिप्युषीम् । इषम् । इन्दो इति । पवस्व । पवमानः । अस्रिधम् ।

या । नः । दोहते । त्रिः । अहन् । असश्चुषी । क्षुऽमत् । वाजऽवत् । मधुऽमत् । सुऽवीर्यम् ॥१८

हे “इन्दो दीप्त “सोम “पवमानः त्वं “नः अस्माकं “संयतं संगृहीतं “पिप्युषीं प्रवृद्धम् “इषम् अन्नम् “अस्रिधम् अक्षीणं “पवस्व । प्रयच्छेत्यर्थः । “या यादृशी “नः अस्माकम् “अहन् अहनि अह्नः “त्रिः त्रिषु सवनेषु “असश्चुषी अप्रतिबन्धा “दोहते क्षरति । किम् । “क्षुमत् शब्दोपेतं सर्वत्र श्रूयमाणं “वाजवत्’ “मधुमत् माधुर्योपेतं "सुवीर्यं शोभनसामर्थ्यं पुत्रं दोहते। तामिषं पवस्वेति समन्वयः ॥


वृषा॑ मती॒नां प॑वते विचक्ष॒णः सोमो॒ अह्नः॑ प्रतरी॒तोषसो॑ दि॒वः ।

क्रा॒णा सिन्धू॑नां क॒लशाँ॑ अवीवश॒दिंद्र॑स्य॒ हार्द्या॑वि॒शन्म॑नी॒षिभिः॑ ॥१९

वृषा॑ । म॒ती॒नाम् । प॒व॒ते॒ । वि॒ऽच॒क्ष॒णः । सोमः॑ । अह्नः॑ । प्र॒ऽत॒री॒ता । उ॒षसः॑ । दि॒वः ।

क्रा॒णा । सिन्धू॑नाम् । क॒लशा॑न् । अ॒वी॒व॒श॒त् । इन्द्र॑स्य । हार्दि॑ । आ॒ऽवि॒शन् । म॒नी॒षिऽभिः॑ ॥१९

वृषा । मतीनाम् । पवते । विऽचक्षणः । सोमः । अह्नः । प्रऽतरीता । उषसः । दिवः ।

क्राणा । सिन्धूनाम् । कलशान् । अवीवशत् । इन्द्रस्य । हार्दि । आऽविशन् । मनीषिऽभिः ॥१९

अयं “सोमः “पवते अभिषूयते । कीदृशः सोमः । “मतीनाम् । मतयः स्तोतारः । तेषां “वृषा वर्षकः कामानां “विचक्षणः विद्रष्टा "अह्नः “उषसो “दिवः द्युलोकस्यादित्यस्य वा “प्रतरीता प्रवर्धयिता। किंच “सिन्धूनां स्यन्दमानानामुदकानां “क्राणा कर्ता ॥ करोतेः शानचि • बहुलं छन्दसि ' इति विकरणस्य लुक् । सुः। ‘सुपां सुलुक्' इत्याकारः ॥ “कलशानवीवशत् कामयते प्रवेष्टुम् । किं कुर्वन् । “इन्द्रस्य "हार्दि हृदयम् "आविशन् प्रविशन् “मनीषिभिः स्तुत इति शेषः । यद्वा । व्यवहितमपि मनीषिभिरित्येतत् पवत इत्यनेन संबध्यते ॥


म॒नी॒षिभिः॑ पवते पू॒र्व्यः क॒विर्नृभि॑र्य॒तः परि॒ कोशाँ॑ अचिक्रदत् ।

त्रि॒तस्य॒ नाम॑ ज॒नय॒न्मधु॑ क्षर॒दिंद्र॑स्य वा॒योः स॒ख्याय॒ कर्त॑वे ॥२०

म॒नी॒षिऽभिः॑ । प॒व॒ते॒ । पू॒र्व्यः । क॒विः । नृऽभिः॑ । य॒तः । परि॑ । कोशा॑न् । अ॒चि॒क्र॒द॒त् ।

त्रि॒तस्य॑ । नाम॑ । ज॒नय॑न् । मधु॑ । क्ष॒र॒त् । इन्द्र॑स्य । वा॒योः । स॒ख्याय॑ । कर्त॑वे ॥२०

मनीषिऽभिः । पवते । पूर्व्यः । कविः । नृऽभिः । यतः । परि । कोशान् । अचिक्रदत् ।

त्रितस्य । नाम । जनयन् । मधु । क्षरत् । इन्द्रस्य । वायोः । सख्याय । कर्तवे ॥२०

अयं सोमः “मनीषिभिः मेधाविभिरध्वर्य्वादिभिः “पवते पूयते । यद्वा । अयं मनीषिभिर्मनीषिणीभिर्धाराभिः पवते क्षरति । कीदृशोऽयम् । “पूर्व्यः पुराणः “कविः मेधावी “नृभिः नेतृभिरध्वर्य्वादिभिः “यतः नियमितः सन् "कोशान् कलशान प्राप्तुं “परि “अचिक्रदत् परिक्रन्दते शब्दं करोति । “त्रितस्य त्रिषु स्थानेषु विस्तृतस्येन्द्रस्य संबन्धि “नाम नामकमुदकं “जनयन् उत्पादयन् “मधु मधुरं रसं “क्षरत् क्षरति । किमर्थम् । “इन्द्रस्य “वायोः च “सख्याय "कर्तवे सख्यं कर्तुम् ॥ ॥१५॥


अ॒यं पु॑ना॒न उ॒षसो॒ वि रो॑चयद॒यं सिन्धु॑भ्यो अभवदु लोक॒कृत् ।

अ॒यं त्रिः स॒प्त दु॑दुहा॒न आ॒शिरं॒ सोमो॑ हृ॒दे प॑वते॒ चारु॑ मत्स॒रः ॥२१

अ॒यम् । पु॒ना॒नः । उ॒षसः॑ । वि । रो॒च॒य॒त् । अ॒यम् । सिन्धु॑ऽभ्यः । अ॒भ॒व॒त् । ऊं॒ इति॑ । लो॒क॒ऽकृत् ।

अ॒यम् । त्रिः । स॒प्त । दु॒दु॒हा॒नः । आ॒ऽशिर॑म् । सोमः॑ । हृ॒दे । प॒व॒ते॒ । चारु॑ । म॒त्स॒रः ॥२१

अयम् । पुनानः । उषसः । वि । रोचयत् । अयम् । सिन्धुऽभ्यः । अभवत् । ऊं इति । लोकऽकृत् ।

अयम् । त्रिः । सप्त । दुदुहानः । आऽशिरम् । सोमः । हृदे । पवते । चारु । मत्सरः ॥२१

“अयं सोमः “पुनानः पूयमानः “उषसो “वि “रोचयत् विविधं रोचयति । “अयं “सिन्धुभ्यः स्यन्दमानाभ्योऽद्भ्यो वसतीवरीभ्यः “अभवत् समृद्धो भवति । “उ इति पूरणः । कीदृशोऽयम् । “लोककृत् लोकानां कर्ता । वर्षकत्वात् रेतोधारकत्वाच्चास्य लोककृत्त्वम् । “अयं “सोमः “त्रिः “सप्त एकविंशतिं गा ऋत्विङ्मुखेन “आशिरं “दुदुहानः दुहानः । दोहस्य प्रयोजकत्वात् कर्त्रुपचारः। “मत्सरः मदकरः “चारु रमणीयं “पवते क्षरति । किमर्थम् । “हृदे हृदयाय हृदयगमनाय ।।


पव॑स्व सोम दि॒व्येषु॒ धाम॑सु सृजा॒न इं॑दो क॒लशे॑ प॒वित्र॒ आ ।

सीद॒न्निन्द्र॑स्य ज॒ठरे॒ कनि॑क्रद॒न्नृभि॑र्य॒तः सूर्य॒मारो॑हयो दि॒वि ॥२२

पव॑स्व । सो॒म॒ । दि॒व्येषु॑ । धाम॑ऽसु । सृ॒जा॒नः । इ॒न्दो॒ इति॑ । क॒लशे॑ । प॒वित्रे॑ । आ ।

सीद॑न् । इन्द्र॑स्य । ज॒ठरे॑ । कनि॑क्रदत् । नृऽभिः॑ । य॒तः । सूर्य॑म् । आ । अ॒रो॒ह॒यः॒ । दि॒वि ॥२२

पवस्व । सोम । दिव्येषु । धामऽसु । सृजानः । इन्दो इति । कलशे । पवित्रे । आ ।

सीदन् । इन्द्रस्य । जठरे । कनिक्रदत् । नृऽभिः । यतः । सूर्यम् । आ । अरोहयः । दिवि ॥२२

हे “सोम “दिव्येषु “धामसु स्थानेषु । देवानां संबन्धिषूदरेष्वित्यर्थः । तेषु "पवस्व क्षर । कीदृशः सन् । हे “इन्दो दीप्त सोम “कलशे “पवित्र “आ दशापवित्रे च । आ इति चार्थे । 'सृजानः सृज्यमानः । अत्र ‘ अग्निहोत्रं जुहोति यवागूं पचति' इतिवदार्थिकः क्रमोऽवगन्तव्यः । किंच “इन्द्रस्य “जठरे “सीदन् जठरं गच्छन् “कनिक्रदत् शब्दं कुर्वन् “नृभिः नेतृभिर्ऋत्विग्भिः “यतः परिगृहीतः । हुत इत्यर्थः । तथाभूतः सन् “दिवि “सूर्यम् “आरोहयः प्रादुर्भूतमकरो: ॥


अद्रि॑भिः सु॒तः प॑वसे प॒वित्र॒ आँ इन्द॒विंद्र॑स्य ज॒ठरे॑ष्वावि॒शन् ।

त्वं नृ॒चक्षा॑ अभवो विचक्षण॒ सोम॑ गो॒त्रमंगि॑रोभ्योऽवृणो॒रप॑ ॥२३

अद्रि॑ऽभिः । सु॒तः । प॒व॒से॒ । प॒वित्रे॑ । आ । इन्दो॒ इति॑ । इन्द्र॑स्य । ज॒ठरे॑षु । आ॒ऽवि॒शन् ।

त्वम् । नृ॒ऽचक्षाः॑ । अ॒भ॒वः॒ । वि॒ऽच॒क्ष॒ण॒ । सोम॑ । गो॒त्रम् । अङ्गि॑रःऽभ्यः । अ॒वृ॒णोः॒ । अप॑ ॥२३

अद्रिऽभिः । सुतः । पवसे । पवित्रे । आ । इन्दो इति । इन्द्रस्य । जठरेषु । आऽविशन् ।

त्वम् । नृऽचक्षाः । अभवः । विऽचक्षण । सोम । गोत्रम् । अङ्गिरःऽभ्यः । अवृणोः । अप ॥२३

हे “इन्दो सोम "अद्रिभिः ग्रावभिः “सुतः अभिषुतस्त्वं “पवसे क्षरसि पूयसे वा। “पवित्र “आ दशापवित्रे । आ इति पूरणः । यद्वा । अभिषुतो भवसि पवसे चेति चार्थं आकारः । किं कुर्वन् । “इन्द्रस्य “जठरेषु जठरप्रदेशेषु “आविशन् । जठरप्रवेशायेत्यर्थः । किंच हे “विचक्षण विद्रष्टः सोम “त्वं “नृचक्षा “अभवः नृणां मनुष्याणामनुग्रहेण द्रष्टा भवसि । किंच हे “सोम त्वम् “अङ्गिरोभ्यः “गोत्रं मेघमुदकं क्षारयितुं पणिभिरपहृतानां गवामावरकं पर्वतं वा “अप “अवृणोः ॥


त्वां सो॑म॒ पव॑मानं स्वा॒ध्योऽनु॒ विप्रा॑सो अमदन्नव॒स्यवः॑ ।

त्वां सु॑प॒र्ण आभ॑रद्दि॒वस्परीन्दो॒ विश्वा॑भिर्म॒तिभिः॒ परि॑ष्कृतं ॥२४

त्वाम् । सो॒म॒ । पव॑मानम् । सु॒ऽआ॒ध्यः॑ । अनु॑ । विप्रा॑सः । अ॒म॒द॒न् । अ॒व॒स्यवः॑ ।

त्वाम् । सु॒ऽप॒र्णः । आ । अ॒भ॒र॒त् । दि॒वः । परि॑ । इन्दो॒ इति॑ । विश्वा॑भिः । म॒तिऽभिः॑ । परि॑ऽकृतम् ॥२४

त्वाम् । सोम । पवमानम् । सुऽआध्यः । अनु । विप्रासः । अमदन् । अवस्यवः ।

त्वाम् । सुऽपर्णः । आ । अभरत् । दिवः । परि । इन्दो इति । विश्वाभिः । मतिऽभिः । परिऽकृतम् ॥२४

हे "सोम “पवमानं “त्वां “स्वाध्यः सुमतयः सुकर्माणो वा “विप्रासः विप्रा मेधाविनः स्तोतारः “अवस्यवः रक्षाकामाः “अनु “अमदन अनुष्टुवन्ति । हे “इन्दो “त्वां “सुपर्णः श्येनः “आभरत् आहरत् । “दिवस्परि द्युलोकस्योपरि । द्युलोकादित्यर्थः । कीदृशं त्वाम् । “विश्वाभिर्मतिभिः सर्वाभिः स्तुतिभिः “परिष्कृतम् अलंकृतम् ।।


अव्ये॑ पुना॒नं परि॒ वार॑ ऊ॒र्मिणा॒ हरिं॑ नवंते अ॒भि स॒प्त धे॒नवः॑ ।

अ॒पामु॒पस्थे॒ अध्या॒यवः॑ क॒विमृ॒तस्य॒ योना॑ महि॒षा अ॑हेषत ॥२५

अव्ये॑ । पु॒ना॒नम् । परि॑ । वारे॑ । ऊ॒र्मिणा॑ । हरि॑म् । न॒व॒न्ते॒ । अ॒भि । स॒प्त । धे॒नवः॑ ।

अ॒पाम् । उ॒पऽस्थे॑ । अधि॑ । आ॒यवः॑ । क॒विम् । ऋ॒तस्य॑ । योना॑ । म॒हि॒षाः । अ॒हे॒ष॒त॒ ॥२५

अव्ये । पुनानम् । परि । वारे । ऊर्मिणा । हरिम् । नवन्ते । अभि । सप्त । धेनवः ।

अपाम् । उपऽस्थे । अधि । आयवः । कविम् । ऋतस्य । योना । महिषाः । अहेषत ॥२५

“अव्ये अविमये “वारे वाले दशापवित्रे “ऊर्मिणा रसेन “परि परितः “पुनानं पवमानं “हरिं हरितवर्णं सोमम् “अभि “नवन्ते अभिगच्छन्ति “सप्त “धेनवः प्रीणयित्र्यः सप्त गायत्र्याद्याः सप्त गङ्गाद्या नद्यो वा । ' नवते क्षोदते ' इति गतिकर्मस्वयं पठितः । किंच “कविं त्वाम् “अपामुपस्थे अन्तरिक्षस्योत्सङ्गे “ऋतस्य योनौ । उदकनामैतत् “ ऋतं योनिर्ऋतस्य योनिः' इति तन्नामसु पाठात् । उदके “महिषाः महान्तः “आयवः मनुष्याः “अधि “अहेषत अधिकं प्रेरयन्ति ॥ ॥ १६ ॥


इन्दुः॑ पुना॒नो अति॑ गाहते॒ मृधो॒ विश्वा॑नि कृ॒ण्वन्त्सु॒पथा॑नि॒ यज्य॑वे ।

गाः कृ॑ण्वा॒नो नि॒र्णिजं॑ हर्य॒तः क॒विरत्यो॒ न क्रीळ॒न्परि॒ वार॑मर्षति ॥२६

इन्दुः॑ । पु॒ना॒नः । अति॑ । गा॒ह॒ते॒ । मृधः॑ । विश्वा॑नि । कृ॒ण्वन् । सु॒ऽपथा॑नि । यज्य॑वे ।

गाः । कृ॒ण्वा॒नः । निः॒ऽनिज॑म् । ह॒र्य॒तः । क॒विः । अत्यः॑ । न । क्रीळ॑न् । परि॑ । वार॑म् । अ॒र्ष॒ति॒ ॥२६

इन्दुः । पुनानः । अति । गाहते । मृधः । विश्वानि । कृण्वन् । सुऽपथानि । यज्यवे ।

गाः । कृण्वानः । निःऽनिजम् । हर्यतः । कविः । अत्यः । न । क्रीळन् । परि । वारम् । अर्षति ॥२६

अयम् “इन्दुः दीप्तः सोमः “पुनानः पूयमानः “अति “गाहते अतिक्रम्य गच्छति “मृधः शत्रून् । किं कुर्वन् । “विश्वानि गन्तव्यानि सुवर्मा नि वैदिकानि लौकिकानि च "सुपथानि "कृण्वन् कुर्वन् । कस्मै । "यज्यवे यागकर्त्रे । यजमानाय शत्रून् परिहरन् मार्गान् सुपथान् कुर्वन् कलशं प्रविशतीत्यर्थः । किंच “निर्णिजम् आत्मीयं रूपं “गाः “कृण्वानः । रसमयान् कुर्वाण इत्यर्थः । “हर्यतः कान्तः । ‘ हर्य गतिकान्त्योः' । औणादिकोऽतच् । “कविः क्रान्तप्रज्ञः एवंभूतः सोमः “अत्यो “न अश्व इव “क्रीळन् “वारं दशापवित्रं “परि “अर्षति परिगच्छति ॥


अ॒स॒श्चतः॑ श॒तधा॑रा अभि॒श्रियो॒ हरिं॑ नव॒न्तेऽव॒ ता उ॑द॒न्युवः॑ ।

क्षिपो॑ मृजंति॒ परि॒ गोभि॒रावृ॑तं तृ॒तीये॑ पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः ॥२७

अ॒स॒श्चतः॑ । श॒तऽधा॑राः । अ॒भि॒ऽश्रियः॑ । हरि॑म् । न॒व॒न्ते॒ । अव॑ । ताः । उ॒द॒न्युवः॑ ।

क्षिपः॑ । मृ॒ज॒न्ति॒ । परि॑ । गोभिः॑ । आऽवृ॑तम् । तृ॒तीये॑ । पृ॒ष्ठे । अधि॑ । रो॒च॒ने । दि॒वः ॥२७

असश्चतः । शतऽधाराः । अभिऽश्रियः । हरिम् । नवन्ते । अव । ताः । उदन्युवः ।

क्षिपः । मृजन्ति । परि । गोभिः । आऽवृतम् । तृतीये । पृष्ठे । अधि । रोचने । दिवः ॥२७

“असश्चतः परस्परमसंगताः “शतधाराः “अभिश्रियः अभितः सोमं श्रयन्त्यः “ताः प्रसिद्धाः सूर्यस्य दीप्तयः "हरिम् “अव “नवन्ते गच्छन्ति । “उदन्युवः उदकेच्छावत्यः सत्यः । यद्वा । धाराशब्देनात्र सोमधारा अभिप्रेताः । असश्चतोऽसंबद्धा अभिश्रियोऽभितो गाः श्रयन्त्यो गोभिः श्रितास्ताः प्रसिद्धा उदन्युव इन्द्रसंबन्धिवृष्टिकामा हरिमिन्द्रमव नवन्ते संगच्छन्ते । “क्षिपः अङ्गुलयोऽपि “गोभिः दीप्तिपक्षे गोभी रश्मिभिः “आवृतं सोमधारापक्षे गोभिः “परि आवृतं व्याप्तं सोमं “मृजन्ति अवशोधयन्ति । “दिवः आदित्यात् “रोचने रोचमाने यमादित्यो रोचयति तस्मिन् “तृतीये क्षित्यपेक्षायां तृतीयभूते द्युलोके “अधि वसन्तं सोमं मृजन्ति ॥


तवे॒माः प्र॒जा दि॒व्यस्य॒ रेत॑स॒स्त्वं विश्व॑स्य॒ भुव॑नस्य राजसि ।

अथे॒दं विश्वं॑ पवमान ते॒ वशे॒ त्वमिं॑दो प्रथ॒मो धा॑म॒धा अ॑सि ॥२८

तव॑ । इ॒माः । प्र॒ऽजाः । दि॒व्यस्य॑ । रेत॑सः । त्वम् । विश्व॑स्य । भुव॑नस्य । रा॒ज॒सि॒ ।

अथ॑ । इ॒दम् । विश्व॑म् । प॒व॒मा॒न॒ । ते॒ । वशे॑ । त्वम् । इ॒न्दो॒ इति॑ । प्र॒थ॒मः । धा॒म॒ऽधाः । अ॒सि॒ ॥२८

तव । इमाः । प्रऽजाः । दिव्यस्य । रेतसः । त्वम् । विश्वस्य । भुवनस्य । राजसि ।

अथ । इदम् । विश्वम् । पवमान । ते । वशे । त्वम् । इन्दो इति । प्रथमः । धामऽधाः । असि ॥२८

“तव “दिव्यस्य “रेतसः सकाशात् “इमाः “प्रजाः उत्पद्यमानाः प्राणिन उत्पन्नाः । सोमो वै रेतोधाः' (तै. सं. २.१.१.६ ) इति श्रुतेः । “त्वं “विश्वस्य “भुवनस्य “राजसि ईश्वरो भवसि । “अथ अपि च “इदं “विश्वं हे पवमान “ते “वशे त्वदधीनं वर्तते । हे “इन्दो “प्रथमः मुख्यः “त्वं “धामधाः धाम्नो धर्ता “असि भवसि ।।


त्वं स॑मु॒द्रो अ॑सि विश्व॒वित्क॑वे॒ तवे॒माः पञ्च॑ प्र॒दिशो॒ विध॑र्मणि ।

त्वं द्यां च॑ पृथि॒वीं चाति॑ जभ्रिषे॒ तव॒ ज्योतीं॑षि पवमान॒ सूर्यः॑ ॥२९

त्वम् । स॒मु॒द्रः । अ॒सि॒ । वि॒श्व॒ऽवित् । क॒वे॒ । तव॑ । इ॒माः । पञ्च॑ । प्र॒ऽदिशः॑ । विऽध॑र्मणि ।

त्वम् । द्याम् । च॒ । पृ॒थि॒वीम् । च॒ । अति॑ । ज॒भ्रि॒षे॒ । तव॑ । ज्योतीं॑षि । प॒व॒मा॒न॒ । सूर्यः॑ ॥२९

त्वम् । समुद्रः । असि । विश्वऽवित् । कवे । तव । इमाः । पञ्च । प्रऽदिशः । विऽधर्मणि ।

त्वम् । द्याम् । च । पृथिवीम् । च । अति । जभ्रिषे । तव । ज्योतींषि । पवमान । सूर्यः ॥२९

हे “कवे क्रान्तप्रज्ञ “त्वं यस्मात् “समुद्रः वर्षसाधनोऽपाम् अतः “विश्ववित् “असि । यद्वा । समुद्रो द्रवात्मकोऽसि विश्वविच्चासि । किंच “तव “विधर्मणि विधारणे “पञ्च “प्रदिशः प्रकृष्टा दिशो भवन्तीति शेषः । “त्वं “द्यां “च दिवं च “पृथिवीं “च "अति “जभ्रिषे बिभर्षि । हे “पवमान “सूर्यः देवः “तव “ज्योतींषि आप्याययति ॥


त्वं प॒वित्रे॒ रज॑सो॒ विध॑र्मणि दे॒वेभ्यः॑ सोम पवमान पूयसे ।

त्वामु॒शिजः॑ प्रथ॒मा अ॑गृभ्णत॒ तुभ्ये॒मा विश्वा॒ भुव॑नानि येमिरे ॥३०

त्वम् । प॒वित्रे॑ । रज॑सः । विऽध॑र्मणि । दे॒वेभ्यः॑ । सो॒म॒ । प॒व॒मा॒न॒ । पू॒य॒से॒ ।

त्वाम् । उ॒शिजः॑ । प्र॒थ॒माः । अ॒गृ॒भ्ण॒त॒ । तुभ्य॑ । इ॒मा । विश्वा॑ । भुव॑नानि । ये॒मि॒रे॒ ॥३०

त्वम् । पवित्रे । रजसः । विऽधर्मणि । देवेभ्यः । सोम । पवमान । पूयसे ।

त्वाम् । उशिजः । प्रथमाः । अगृभ्णत । तुभ्य । इमा । विश्वा । भुवनानि । येमिरे ॥३०

हे “सोम “पवमान “त्वं “रजसः लोकस्य रसस्य वा “विधर्मणि विधारके दशापवित्रे "देवेभ्यः देवार्थं “पूयसे । “त्वामुशिजः कामयमाना ऋत्विजः “प्रथमाः प्रतमा मुख्याः “अगृभ्णत गृह्णन्ति । “तुभ्य तुभ्यम् “इमा इमानि “विश्वा सर्वाणि “भुवनानि भूतजातानि “येमिरे यच्छन्त्यात्मानम्॥॥१७॥


प्र रे॒भ ए॒त्यति॒ वार॑म॒व्ययं॒ वृषा॒ वने॒ष्वव॑ चक्रद॒द्धरिः॑ ।

सं धी॒तयो॑ वावशा॒ना अ॑नूषत॒ शिशुं॑ रिहन्ति म॒तयः॒ पनि॑प्नतं ॥३१

प्र । रे॒भः । ए॒ति॒ । अति॑ । वार॑म् । अ॒व्यय॑म् । वृषा॑ । वने॑षु । अव॑ । च॒क्र॒द॒त् । हरिः॑ ।

सम् । धी॒तयः॑ । वा॒व॒शा॒नाः । अ॒नू॒ष॒त॒ । शिशु॑म् । रि॒ह॒न्ति॒ । म॒तयः॑ । पनि॑प्नतम् ॥३१

प्र । रेभः । एति । अति । वारम् । अव्ययम् । वृषा । वनेषु । अव । चक्रदत् । हरिः ।

सम् । धीतयः । वावशानाः । अनूषत । शिशुम् । रिहन्ति । मतयः । पनिप्नतम् ॥३१

“रेभः शब्दयिता । रेभृ शब्दे'। सोमः “वारमव्ययम् अविमयं वालं “प्र “अति “ऐति' प्रकर्षेणातिगच्छति । “वृषा सेक्ता सोमः “वनेषु उदकेषु “अव “चक्रदत् अवक्रन्दन् "हरिः हरितवर्णः सोमः । “सम् “अनूषत संस्तुवन्ति । के। “धीतयः ध्यातारः “वावशानाः यार्ग सोमं वा कामयमानाः। “शिशुं शिशुवत् संस्कर्तव्यं सोमं “मतयः स्तुतयः “रिहन्ति लिहन्ति स्पृशन्ति । स्वविषयीकुर्वन्तीत्यर्थः । कीदृशम् । "पनिप्नतं शब्दयन्तम् ॥


स सूर्य॑स्य र॒श्मिभिः॒ परि॑ व्यत॒ तन्तुं॑ तन्वा॒नस्त्रि॒वृतं॒ यथा॑ वि॒दे ।

नय॑न्नृ॒तस्य॑ प्र॒शिषो॒ नवी॑यसीः॒ पति॒र्जनी॑ना॒मुप॑ याति निष्कृ॒तं ॥३२

सः । सूर्य॑स्य । र॒श्मिऽभिः॑ । परि॑ । व्य॒त॒ । तन्तु॑म् । त॒न्वा॒नः । त्रि॒ऽवृत॑म् । यथा॑ । वि॒दे ।

नय॑न् । ऋ॒तस्य॑ । प्र॒ऽशिषः॑ । नवी॑यसीः । पतिः॑ । जनी॑नाम् । उप॑ । या॒ति॒ । निः॒ऽकृ॒तम् ॥३२

सः । सूर्यस्य । रश्मिऽभिः । परि । व्यत । तन्तुम् । तन्वानः । त्रिऽवृतम् । यथा । विदे ।

नयन् । ऋतस्य । प्रऽशिषः । नवीयसीः । पतिः । जनीनाम् । उप । याति । निःऽकृतम् ॥३२

“सः सोमः “सूर्यस्य “रश्मिभिः “परि “व्यत परिवेष्टयत्यात्मानम् । किं कुर्वन् । “त्रिवृतं सवनैर्देवैर्वा त्रिर्वृतं “तन्तुं यज्ञं “तन्वानः विस्तारयन् “यथा “विदे जानाति । येन प्रकारेण संपूर्णमवगच्छति तथा तन्वानः । “ऋतस्य सत्यभूतस्य यजमानस्य “नवीयसीः नवतराः “प्रशिषः प्रशंसना अभिमतानि “नयन् प्रापयन् । तस्मा एव “जनीनां “पतिः पालकः स्वामी “निष्कृतं संस्कृतं पात्रम् “उप “याति गच्छति ॥


राजा॒ सिन्धू॑नां पवते॒ पति॑र्दि॒व ऋ॒तस्य॑ याति प॒थिभिः॒ कनि॑क्रदत् ।

स॒हस्र॑धारः॒ परि॑ षिच्यते॒ हरिः॑ पुना॒नो वाचं॑ ज॒नय॒न्नुपा॑वसुः ॥३३

राजा॑ । सिन्धू॑नाम् । प॒व॒ते॒ । पतिः॑ । दि॒वः । ऋ॒तस्य॑ । या॒ति॒ । प॒थिऽभिः॑ । कनि॑क्रदत् ।

स॒हस्र॑ऽधारः । परि॑ । सि॒च्य॒ते॒ । हरिः॑ । पु॒ना॒नः । वाच॑म् । ज॒नय॑न् । उप॑ऽवसुः ॥३३

राजा । सिन्धूनाम् । पवते । पतिः । दिवः । ऋतस्य । याति । पथिऽभिः । कनिक्रदत् ।

सहस्रऽधारः । परि । सिच्यते । हरिः । पुनानः । वाचम् । जनयन् । उपऽवसुः ॥३३

“सिन्धूनां नदीनामुदकानां “राजा ईश्वरः “दिवः “पतिः द्युलोकस्य स्वामी “ऋतस्य यज्ञस्य “पथिभिः मार्गैः “कनिक्रदत् शब्दं कुर्वन् “याति । “सहस्रधारः बहुधारायुक्तः सोमो नृभिर्नेतृभिर्ऋत्विग्भिः “परि “षिच्यते पात्रेषु । “पुनानः पूयमानः “वाचं शब्दं “जनयन् उत्पादयन् “उपावसुः उपागच्छद्घनः परि षिच्यते इति समन्वयः ॥


पव॑मान॒ मह्यर्णो॒ वि धा॑वसि॒ सूरो॒ न चि॒त्रो अव्य॑यानि॒ पव्य॑या ।

गभ॑स्तिपूतो॒ नृभि॒रद्रि॑भिः सु॒तो म॒हे वाजा॑य॒ धन्या॑य धन्वसि ॥३४

पव॑मान । महि॑ । अर्णः॑ । वि । धा॒व॒सि॒ । सूरः॑ । न । चि॒त्रः । अव्य॑यानि । पव्य॑या ।

गभ॑स्तिऽपूतः । नृऽभिः॑ । अद्रि॑ऽभिः । सु॒तः । म॒हे । वाजा॑य । धन्या॑य । ध॒न्व॒सि॒ ॥३४

पवमान । महि । अर्णः । वि । धावसि । सूरः । न । चित्रः । अव्ययानि । पव्यया ।

गभस्तिऽपूतः । नृऽभिः । अद्रिऽभिः । सुतः । महे । वाजाय । धन्याय । धन्वसि ॥३४

हे “पवमान सोम “मह्यर्णः बहूदकम् । अर्ण इत्युदकनाम । रसं वा “वि “धावसि गमयसि । ‘ धावु गतिशुद्धयोः'। किंच “सूरो "न “चित्रः सूर्य इव चित्रः चायनीयः पूज्यः सन् "अव्ययानि अविमयानि “पव्यया पात्राणि गच्छसि । किंच “गभस्तिपूतः बाहुभिरभिशोधितः “नृभिः ऋत्विग्भिः ग्रeवभिश्च “सुतः अभिषुतः “महे महते “वाजाय संग्रामाय “धन्याय धनेभ्यो हिताय “धन्वसि गच्छसि । धन्वतिर्गतिकर्मा ॥


इष॒मूर्जं॑ पवमाना॒भ्य॑र्षसि श्ये॒नो न वंसु॑ क॒लशे॑षु सीदसि ।

इन्द्रा॑य॒ मद्वा॒ मद्यो॒ मदः॑ सु॒तो दि॒वो वि॑ष्टं॒भ उ॑प॒मो वि॑चक्ष॒णः ॥३५

इष॑म् । ऊर्ज॑म् । प॒व॒मा॒न॒ । अ॒भि । अ॒र्ष॒सि॒ । श्ये॒नः । न । वंसु॑ । क॒लशे॑षु । सी॒द॒सि॒ ।

इन्द्रा॑य । मद्वा॑ । मद्यः॑ । मदः॑ । सु॒तः । दि॒वः । वि॒ष्ट॒म्भः । उ॒प॒ऽमः । वि॒ऽच॒क्ष॒णः ॥३५

इषम् । ऊर्जम् । पवमान । अभि । अर्षसि । श्येनः । न । वंसु । कलशेषु । सीदसि ।

इन्द्राय । मद्वा । मद्यः । मदः । सुतः । दिवः । विष्टम्भः । उपऽमः । विऽचक्षणः ॥३५

हे “पवमान पूयमान सोम “इषम् अन्नम् “ऊर्जं बलं च “अभ्यर्षसि । “श्येनो "न श्येन इव “वंसु वननीयेषु कुलायेषु “कलशेषु सीदसि निषण्णो भवसि । अथ परोक्षकृतः । “इन्द्राय “मद्वा मदकरः “मद्यः मदहेतुः “मदः रसः “सुतः अभिषुतः । कीदृशः । “दिवः द्युलोकस्य “उपमः उपमीयमानः “विष्टम्भः विशेषेण स्तम्भयिता । स्थूणा यथा गृहं तथा । “विचक्षणः विद्रष्टा । ‘ स्थूणेव जनाँ उपमित्' ( ऋ. सं. १.५९.१ ) इत्युक्तम् ॥ ॥ १८ ॥


स॒प्त स्वसा॑रो अ॒भि मा॒तरः॒ शिशुं॒ नवं॑ जज्ञा॒नं जेन्यं॑ विप॒श्चितं॑ ।

अ॒पां गं॑ध॒र्वं दि॒व्यं नृ॒चक्ष॑सं॒ सोमं॒ विश्व॑स्य॒ भुव॑नस्य रा॒जसे॑ ॥३६

स॒प्त । स्वसा॑रः । अ॒भि । मा॒तरः॑ । शिशु॑म् । नव॑म् । ज॒ज्ञा॒नम् । जेन्य॑म् । वि॒पः॒ऽचित॑म् ।

अ॒पाम् । ग॒न्ध॒र्वम् । दि॒व्यम् । नृ॒ऽचक्ष॑सम् । सोम॑म् । विश्व॑स्य । भुव॑नस्य । रा॒जसे॑ ॥३६

सप्त । स्वसारः । अभि । मातरः । शिशुम् । नवम् । जज्ञानम् । जेन्यम् । विपःऽचितम् ।

अपाम् । गन्धर्वम् । दिव्यम् । नृऽचक्षसम् । सोमम् । विश्वस्य । भुवनस्य । राजसे ॥३६

“सप्त सर्पणस्वभावाः सप्तसंख्याका वा "मातरः मातृस्थानीया गङ्गायमुनायाः “शिशुं शिशुस्थानीयम् “अभि गच्छन्तीति शेषः । स्वकीयैः पयोभिराच्छादयन्तीति शेषः । कीदृशं शिशुम् । “नवं “जज्ञानं जायमानं “जेन्यं जयशीलं “विपश्चितं विद्वांसम् “अपां जनकं तेषां मध्ये वर्तमानं वा “गन्धर्वम् उदकस्य धातारं “दिव्यं दिवि भवं “नृचक्षसं नॄणां द्रष्टारं “सोमम् अभिगच्छन्ति । किमर्थम् । “विश्वस्य “भुवनस्य विराजसे विराजनार्थम् ॥


ई॒शा॒न इ॒मा भुव॑नानि॒ वीय॑से युजा॒न इं॑दो ह॒रितः॑ सुप॒र्ण्यः॑ ।

तास्ते॑ क्षरंतु॒ मधु॑मद्घृ॒तं पय॒स्तव॑ व्र॒ते सो॑म तिष्ठंतु कृ॒ष्टयः॑ ॥३७

ई॒शा॒नः । इ॒मा । भुव॑नानि । वि । ई॒य॒से॒ । यु॒जा॒नः । इ॒न्दो॒ इति॑ । ह॒रितः॑ । सु॒ऽप॒र्ण्यः॑ ।

ताः । ते॒ । क्ष॒र॒न्तु॒ । मधु॑ऽमत् । घृ॒तम् । पयः॑ । तव॑ । व्र॒ते । सो॒म॒ । ति॒ष्ठ॒न्तु॒ । कृ॒ष्टयः॑ ॥३७

ईशानः । इमा । भुवनानि । वि । ईयसे । युजानः । इन्दो इति । हरितः । सुऽपर्ण्यः ।

ताः । ते । क्षरन्तु । मधुऽमत् । घृतम् । पयः । तव । व्रते । सोम । तिष्ठन्तु । कृष्टयः ॥३७

हे “इन्दो सोम “ईशानः सर्वस्य स्वामी त्वम् "इमा इमानि "भुवनानि भूतजातानि "वीयसे गच्छसि । वी गत्यादिषु । किं कुर्वन् । “हरितः हरितवर्णाः सुपर्ण्यः सुपतनाश्चाश्वाः रथे “युजानः योजयन् । “ताः सुपर्ण्यः “ते तव संबन्धिन्यः “मधुमत् माधुर्योपेतं “घृतं दीप्तं “पयः उदकं “क्षरन्तु । हे “सोम “तव “व्रते कर्मणि “तिष्ठन्तु “कृष्टयः मनुष्याः सर्वे ॥


त्वं नृ॒चक्षा॑ असि सोम वि॒श्वतः॒ पव॑मान वृषभ॒ ता वि धा॑वसि ।

स नः॑ पवस्व॒ वसु॑म॒द्धिर॑ण्यवद्व॒यं स्या॑म॒ भुव॑नेषु जी॒वसे॑ ॥३८

त्वम् । नृ॒ऽचक्षाः॑ । अ॒सि॒ । सो॒म॒ । वि॒श्वतः॑ । पव॑मान । वृ॒ष॒भ॒ । ता । वि । धा॒व॒सि॒ ।

सः । नः॒ । प॒व॒स्व॒ । वसु॑ऽमत् । हिर॑ण्यऽवत् । व॒यम् । स्या॒म॒ । भुव॑नेषु । जी॒वसे॑ ॥३८

त्वम् । नृऽचक्षाः । असि । सोम । विश्वतः । पवमान । वृषभ । ता । वि । धावसि ।

सः । नः । पवस्व । वसुऽमत् । हिरण्यऽवत् । वयम् । स्याम । भुवनेषु । जीवसे ॥३८

हे “सोम “त्वं “विश्वतः सर्वतः सर्वेषु भुवनेषु “नृचक्षाः नॄणां द्रष्टा “असि भवसि । हे “पवमान “वृषभ अपां वर्षक “ताः अपः “वि “धावसि विविधं गच्छसि। “सः त्वं “नः अस्माकं “पवस्व क्षर। किम् । “वसुमत् बहुभिर्वसुभिर्वासकैर्गवादिद्रव्यैर्युक्तं तथा “हिरण्यवत् बहुभिर्हिरण्यैर्युक्तं धनम् । “वयं च वसुभिर्हिरण्यैर्युक्ताः “भुवनेषु लोकेषु “जीवसे जीवितुं प्रभवः “स्याम भवेम ॥


गो॒वित्प॑वस्व वसु॒विद्धि॑रण्य॒विद्रे॑तो॒धा इं॑दो॒ भुव॑ने॒ष्वर्पि॑तः ।

त्वं सु॒वीरो॑ असि सोम विश्व॒वित्तं त्वा॒ विप्रा॒ उप॑ गि॒रेम आ॑सते ॥३९

गो॒ऽवित् । प॒व॒स्व॒ । व॒सु॒ऽवित् । हि॒र॒ण्य॒ऽवित् । रे॒तः॒ऽधाः । इ॒न्दो॒ इति॑ । भुव॑नेषु । अर्पि॑तः ।

त्वम् । सु॒ऽवीरः॑ । अ॒सि॒ । सो॒म॒ । वि॒श्व॒ऽवित् । तम् । त्वा॒ । विप्राः॑ । उप॑ । गि॒रा । इ॒मे । आ॒स॒ते॒ ॥३९

गोऽवित् । पवस्व । वसुऽवित् । हिरण्यऽवित् । रेतःऽधाः । इन्दो इति । भुवनेषु । अर्पितः ।

त्वम् । सुऽवीरः । असि । सोम । विश्वऽवित् । तम् । त्वा । विप्राः । उप । गिरा । इमे । आसते ॥३९

हे सोम त्वं “पवस्व क्षर। कीदृशः । “गोवित् गवां लम्भकः “वसुवित् धनस्य लम्भकः “हिरण्यवित् हिरण्यस्य लम्भकः “रेतोधाः । रेत उदकम् । तस्य धातौषधीनाम् । यद्वा । रेतः प्रजननसामर्थ्यम् । तस्य धारयिता। “भुवनेषु उदकेषु “अर्पितः । हे “इन्दो “सोम “त्वं “सुवीरः सुवीर्यः “असि भवसि । “विश्ववित् सर्वस्य वेत्ता। “तं “त्वा त्वाम् “इमे “विप्राः “गिरा स्तुत्या “उप “आसते ॥


उन्मध्व॑ ऊ॒र्मिर्व॒नना॑ अतिष्ठिपद॒पो वसा॑नो महि॒षो वि गा॑हते ।

राजा॑ प॒वित्र॑रथो॒ वाज॒मारु॑हत्स॒हस्र॑भृष्टिर्जयति॒ श्रवो॑ बृ॒हत् ॥४०

उत् । मध्वः॑ । ऊ॒र्मिः । व॒ननाः॑ । अ॒ति॒स्थि॒प॒त् । अ॒पः । वसा॑नः । म॒हि॒षः । वि । गा॒ह॒ते॒ ।

राजा॑ । प॒वित्र॑ऽरथः । वाज॑म् । आ । अ॒रु॒ह॒त् । स॒हस्र॑ऽभृष्टिः । ज॒य॒ति॒ । श्रवः॑ । बृ॒हत् ॥४०

उत् । मध्वः । ऊर्मिः । वननाः । अतिस्थिपत् । अपः । वसानः । महिषः । वि । गाहते ।

राजा । पवित्रऽरथः । वाजम् । आ । अरुहत् । सहस्रऽभृष्टिः । जयति । श्रवः । बृहत् ॥४०

“मध्वः मधुरस्य “ऊर्मिः रसः “वननाः वननीया वाचः “उत् “अतिष्ठिपत् उत्थापयति । सोमाभिषवकाले स्तुतिवाचः प्रवृत्तेः । “अपः “वसानः आच्छादयन् “महिषः महान् “वि “गाहते प्रविशति कलशम् । “राजा सोमः “पवित्ररथः। दशापवित्रमेव रथो यस्य स तथोक्तः । तादृशः सोमः “वाजं संग्रामम् “आरुहत् आरोहति । “सहस्रभृष्टिः बहुभ्रंशोऽपरिमितगमनः “बृहत् “श्रवः महदन्नं “जयति अस्मदर्थम् ॥ ॥ १९ ॥


स भं॒दना॒ उदि॑यर्ति प्र॒जाव॑तीर्वि॒श्वायु॒र्विश्वाः॑ सु॒भरा॒ अह॑र्दिवि ।

ब्रह्म॑ प्र॒जाव॑द्र॒यिमश्व॑पस्त्यं पी॒त इं॑द॒विंद्र॑म॒स्मभ्यं॑ याचतात् ॥४१

सः । भ॒न्दनाः॑ । उत् । इ॒य॒र्ति॒ । प्र॒जाऽव॑तीः । वि॒श्वऽआ॑युः । विश्वाः॑ । सु॒ऽभराः॑ । अहः॑ऽदिवि ।

ब्रह्म॑ । प्र॒जाऽव॑त् । र॒यिम् । अश्व॑ऽपस्त्यम् । पी॒तः । इ॒न्दो॒ इति॑ । इन्द्र॑म् । अ॒स्मभ्य॑म् । या॒च॒ता॒त् ॥४१

सः । भन्दनाः । उत् । इयर्ति । प्रजाऽवतीः । विश्वऽआयुः । विश्वाः । सुऽभराः । अहःऽदिवि ।

ब्रह्म । प्रजाऽवत् । रयिम् । अश्वऽपस्त्यम् । पीतः । इन्दो इति । इन्द्रम् । अस्मभ्यम् । याचतात् ॥४१

“सः सोमः "विश्वायुः सर्वस्य गन्ता सोमः “प्रजावतीः प्रजारूपफलदात्रीः “सुभराः सुष्ठु ह्रियमाणाः “विश्वाः सर्वाः “भन्दनाः स्तुतीः "उदियर्ति उत्कृष्टं प्रेरयति । कस्मिन् काले उच्यते । “अहर्दिवि अहोरात्रयोश्च । अथ प्रत्यक्षकृतः । “ब्रह्म परिवृढं कर्म “प्रजावत् प्रजाभिर्युक्तम् । प्रजाफलकमित्यर्थः । यद्वा । अन्नं तच्च प्रजावत् प्रजाद्युपेतम् । तथा “रयिं धनम् । कीदृशम् । “अश्वपस्त्यं व्याप्तगृहम् । तदुभयं हे “इन्दो दीप्त सोम "पीतः इन्द्रेण पीतस्त्वं तमेव “इन्द्रमस्मभ्यं “याचतात् याचस्व ॥


सो अग्रे॒ अह्नां॒ हरि॑र्हर्य॒तो मदः॒ प्र चेत॑सा चेतयते॒ अनु॒ द्युभिः॑ ।

द्वा जना॑ या॒तय॑न्नं॒तरी॑यते॒ नरा॑ च॒ शंसं॒ दैव्यं॑ च ध॒र्तरि॑ ॥४२

सः । अग्रे॑ । अह्ना॑म् । हरिः॑ । ह॒र्य॒तः । मदः॑ । प्र । चेत॑सा । चे॒त॒य॒ते॒ । अनु॑ । द्युऽभिः॑ ।

द्वा । जना॑ । या॒तय॑न् । अ॒न्तः । ई॒य॒ते॒ । नरा॒शंस॑म् । च॒ । दैव्य॑म् । च॒ । ध॒र्तरि॑ ॥४२

सः । अग्रे । अह्नाम् । हरिः । हर्यतः । मदः । प्र । चेतसा । चेतयते । अनु । द्युऽभिः ।

द्वा । जना । यातयन् । अन्तः । ईयते । नराशंसम् । च । दैव्यम् । च । धर्तरि ॥४२

“सः सोमः "अग्रे सर्वेषां संमुखं “चेतसा प्राणिनां चेतनेन सह “अह्रां “द्युभिः दीप्तिभिः “अनु “प्र “चेतयते अनुप्रज्ञायते । यद्वा । अह्नामग्रे अग्रभागे। प्रातरित्यर्थः । स्तोतॄणां चेतसा प्रज्ञानेन द्युभिर्दीप्ताभिः स्तुतिभिश्चानु प्र चेतयते । कीदृशः सः । “हरिः हरितवर्णः "हर्यतः कान्तः “मदः मदकरः। किंच “द्वा “जना द्वौ जनौ स्तोतारं यष्टारं च “यातयन् प्रापयन् स्वविहितेन कर्मणा । लौकिकवैदिकौ द्वौ जनौ द्रष्टव्यौ । एवं कुर्वन् “अन्तः द्यावापृथिव्योर्मध्ये “ईयते गच्छति । ‘ ईङ् गतौ ' । किं कुर्वन् । “नराशंसं नरैः शंसनीयम् । मानुषमित्यर्थः । “दैव्यं “च दिवि भवम् उभयविधं धनं “धर्तरि धारके यजमाने प्रेरयन्निति शेषः ॥


अं॒जते॒ व्यं॑जते॒ समं॑जते॒ क्रतुं॑ रिहन्ति॒ मधु॑ना॒भ्यं॑जते ।

सिन्धो॑रुच्छ्वा॒से प॒तयं॑तमु॒क्षणं॑ हिरण्यपा॒वाः प॒शुमा॑सु गृभ्णते ॥४३

अ॒ञ्जते॑ । वि । अ॒ञ्ज॒ते॒ । सम् । अ॒ञ्ज॒ते॒ । क्रतु॑म् । रि॒ह॒न्ति॒ । मधु॑ना । अ॒भि । अ॒ञ्ज॒ते॒ ।

सिन्धोः॑ । उ॒त्ऽश्वा॒से । प॒तय॑न्तम् । उ॒क्षण॑म् । हि॒र॒ण्य॒ऽपा॒वाः । प॒शुम् । आ॒सु॒ । गृ॒भ्ण॒ते॒ ॥४३

अञ्जते । वि । अञ्जते । सम् । अञ्जते । क्रतुम् । रिहन्ति । मधुना । अभि । अञ्जते ।

सिन्धोः । उत्ऽश्वासे । पतयन्तम् । उक्षणम् । हिरण्यऽपावाः । पशुम् । आसु । गृभ्णते ॥४३

सोममृत्विजः “अञ्जते गोभिः । तथा “व्यञ्जते विविधमञ्जन्ति । “समञ्जते सम्यगञ्जन्ति । स्तुत्यर्थत्वादपुनरुक्तिः । तथा “क्रतुं बलकर्तारं “रिहन्ति लिहन्ति । आस्वादयन्ति देवाः । तथा पुनः “मधुना गव्येन “अभ्यञ्जते । तमेव सोमं “सिन्धोः उदकस्य रसस्याधारभूते “उच्छ्वासे उच्छ्रिते देशे “पतयन्तं गच्छन्तम् ॥ ‘पत्लृ गतौ ' इत्यस्मात्स्वार्थे णिचि वृद्ध्यभावश्छान्दसः ॥ “उक्षणं सेक्तारं “हिरण्यपावाः हिरण्येन पुनन्तः “पशुं द्रष्टारम् । ‘पशुः पश्यतेः ' (निरु. ३.१६) इति निरुक्तम् । “आसु वसतीवरीषु “गृभ्णते गृह्णन्ति ॥


वि॒प॒श्चिते॒ पव॑मानाय गायत म॒ही न धारात्यन्धो॑ अर्षति ।

अहि॒र्न जू॒र्णामति॑ सर्पति॒ त्वच॒मत्यो॒ न क्रीळ॑न्नसर॒द्वृषा॒ हरिः॑ ॥४४

वि॒पः॒ऽचिते॑ । पव॑मानाय । गा॒य॒त॒ । म॒ही । न । धारा॑ । अति॑ । अन्धः॑ । अ॒र्ष॒ति॒ ।

अहिः॑ । न । जू॒र्णाम् । अति॑ । स॒र्प॒ति॒ । त्वच॑म् । अत्यः॑ । न । क्रीळ॑न् । अ॒स॒र॒त् । वृषा॑ । हरिः॑ ॥४४

विपःऽचिते । पवमानाय । गायत । मही । न । धारा । अति । अन्धः । अर्षति ।

अहिः । न । जूर्णाम् । अति । सर्पति । त्वचम् । अत्यः । न । क्रीळन् । असरत् । वृषा । हरिः ॥४४

हे ऋत्विजः “विपश्चिते मेधाविने "पवमानाय पूयमानाय “गायत स्तुतिं कुरुत । स च विपश्चित्सोमः “मही “न “धारा महती वर्षधारेव “अन्धः अन्नं रसात्मकम् “अति “अर्षति । “अहिर्न अहिरिव "जूर्णां जीर्णां “त्वचम् “अति “सर्पति अतिमुञ्चति । अभिषवादिकर्मणा त्वचं मुञ्चतीत्यर्थः । तद्वदतिसर्पति धारा दशापवित्रात् । “अत्यो “न अश्व इव “क्रीळन् "असरत् सरति गच्छति द्रोणकलशम् । “वृषा वर्षकः कामानां "हरिः हरितवर्णः रसः ॥


अ॒ग्रे॒गो राजाप्य॑स्तविष्यते वि॒मानो॒ अह्नां॒ भुव॑ने॒ष्वर्पि॑तः ।

हरि॑र्घृ॒तस्नुः॑ सु॒दृशी॑को अर्ण॒वो ज्यो॒तीर॑थः पवते रा॒य ओ॒क्यः॑ ॥४५

अ॒ग्रे॒ऽगः । राजा॑ । अप्यः॑ । त॒वि॒ष्य॒ते॒ । वि॒ऽमानः॑ । अह्ना॑म् । भुव॑नेषु । अर्पि॑तः ।

हरिः॑ । घृ॒तऽस्नुः॑ । सु॒ऽदृशी॑कः । अ॒र्ण॒वः । ज्यो॒तिःऽर॑थः । प॒व॒ते॒ । रा॒ये । ओ॒क्यः॑ ॥४५

अग्रेऽगः । राजा । अप्यः । तविष्यते । विऽमानः । अह्नाम् । भुवनेषु । अर्पितः ।

हरिः । घृतऽस्नुः । सुऽदृशीकः । अर्णवः । ज्योतिःऽरथः । पवते । राये । ओक्यः ॥४५

“अग्रेगः अग्रे गन्ता “राजा राजमानः “अप्यः अप्सु संस्कृतः सोमः "तविष्यते स्तूयते । यः “अह्नां दिनानां “विमानः निर्माता चन्द्रकलाहासवृद्ध्यधीनत्वादहर्व्यवहारस्य । “भुवनेषु उदकेषु वसतीवरीसंबन्धिषु “अर्पितः स्थापितः स राजा तविष्यते। किंच “हरिः हरितवर्णः “घृतस्नुः प्रसृतोदकः “सुदृशीकः शोभनदर्शनः “अर्णवः उदकवान् । अर्ण इत्युदकनाम। "ज्योतीरथः ज्योतिर्मयरथः “राये धनस्य प्रापयिता । "ओक्यः । ओक इति निवासनाम । तस्य हितः ॥ ॥ २० ॥


अस॑र्जि स्कं॒भो दि॒व उद्य॑तो॒ मदः॒ परि॑ त्रि॒धातु॒र्भुव॑नान्यर्षति ।

अं॒शुं रि॑हंति म॒तयः॒ पनि॑प्नतं गि॒रा यदि॑ नि॒र्णिज॑मृ॒ग्मिणो॑ य॒युः ॥४६

अस॑र्जि । स्क॒म्भः । दि॒वः । उत्ऽय॑तः । मदः॑ । परि॑ । त्रि॒ऽधातुः॑ । भुव॑नानि । अ॒र्ष॒ति॒ ।

अं॒शुम् । रि॒ह॒न्ति॒ । म॒तयः॑ । पनि॑प्नतम् । गि॒रा । यदि॑ । निः॒ऽनिज॑म् । ऋ॒ग्मिणः॑ । य॒युः ॥४६

असर्जि । स्कम्भः । दिवः । उत्ऽयतः । मदः । परि । त्रिऽधातुः । भुवनानि । अर्षति ।

अंशुम् । रिहन्ति । मतयः । पनिप्नतम् । गिरा । यदि । निःऽनिजम् । ऋग्मिणः । ययुः ॥४६

“दिवः द्युलोकस्य "स्कम्भः स्कम्भयिता धारकः “उद्यतः सोमः "असर्जि सृज्यते । अभिषूयते इत्यर्थः । किंच “त्रिधातुः । द्रोणकलशाधवनीयपूतभृदाख्यास्त्रयो धातवो यस्य स तथोक्तः । तादृशो “भुवनानि उदकानि “अर्षति गच्छति । “अंशुं सोमं “पनिप्नतं शब्दायमानं “मतयः पूजकाः “रिहन्ति लिहन्ति आस्वादयन्ति । कदा। “यदि “निर्णिजं निर्णिक्तम् । यद्वा । निर्णिगिति रूपनाम। रूपवन्तमित्यर्थः । तम् “ऋग्मिणः स्तोतारः “गिरा स्तुत्या “ययुः गच्छन्ति तदा ॥


प्र ते॒ धारा॒ अत्यण्वा॑नि मे॒ष्यः॑ पुना॒नस्य॑ सं॒यतो॑ यन्ति॒ रंह॑यः ।

यद्गोभि॑रिन्दो च॒म्वोः॑ सम॒ज्यस॒ आ सु॑वा॒नः सो॑म क॒लशे॑षु सीदसि ॥४७

प्र । ते॒ । धाराः॑ । अति॑ । अण्वा॑नि । मे॒ष्यः॑ । पु॒ना॒नस्य॑ । स॒म्ऽयतः॑ । य॒न्ति॒ । रंह॑यः ।

यत् । गोभिः॑ । इ॒न्दो॒ इति॑ । च॒म्वोः॑ । स॒म्ऽअ॒ज्यसे॑ । आ । सु॒वा॒नः । सो॒म॒ । क॒लशे॑षु । सी॒द॒सि॒ ॥४७

प्र । ते । धाराः । अति । अण्वानि । मेष्यः । पुनानस्य । सम्ऽयतः । यन्ति । रंहयः ।

यत् । गोभिः । इन्दो इति । चम्वोः । सम्ऽअज्यसे । आ । सुवानः । सोम । कलशेषु । सीदसि ॥४७

“पुनानस्य पूयमानस्य “संयतः संगृह्यमाणाः “रंहयः रंहणस्वभावाः “धाराः मेष्यः “अण्वानि अणूनि लोमानि “अति “यन्ति अतिक्रम्य गच्छन्ति । हे “इन्दो सोम “यत् यदा “गोभिः उदकैः “चम्वोः अधिषवणफलकयोरुपरि “समज्यसे तदानीं हे “सोम “सुवानः सूयमानस्त्वं “कलशेषु “आ “सीदसि ॥


पव॑स्व सोम क्रतु॒विन्न॑ उ॒क्थ्योऽव्यो॒ वारे॒ परि॑ धाव॒ मधु॑ प्रि॒यं ।

ज॒हि विश्वा॑न्र॒क्षस॑ इंदो अ॒त्रिणो॑ बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥४८

पव॑स्व । सो॒म॒ । क्र॒तु॒ऽवित् । नः॒ । उ॒क्थ्यः॑ । अव्यः॑ । वारे॑ । परि॑ । धा॒व॒ । मधु॑ । प्रि॒यम् ।

ज॒हि । विश्वा॑न् । र॒क्षसः॑ । इ॒न्दो॒ इति॑ । अ॒त्रिणः॑ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥४८

पवस्व । सोम । क्रतुऽवित् । नः । उक्थ्यः । अव्यः । वारे । परि । धाव । मधु । प्रियम् ।

जहि । विश्वान् । रक्षसः । इन्दो इति । अत्रिणः । बृहत् । वदेम । विदथे । सुऽवीराः ॥४८

हे “सोम “नः अस्माकं “ऋतुवित् कर्मज्ञः । स्तुतिज्ञ इत्यर्थः । “उक्थ्यः स्तुत्यः । यतः स्तुत्योऽतः क्रतुविदित्यभिप्रायः । ईदृशस्त्वं नोऽस्माकं यागाय “पवस्व स्रव रसम् । “अव्यो “वारे दशापवित्रे “प्रियं “मधु “परि “धाव परिक्षर । हे “इन्दो दीप्त सोम “अत्रिणः भक्षकान् “विश्वान “रक्षसः "जहि । “सुवीराः सुपुत्रा वयं “विदथे यज्ञे “बृहत् महद्धनं “वदेम उच्चारयेम । याचेमेत्यर्थः । यद्वा प्रभूतं स्तोत्रं वदेम ॥ ॥ २१ ॥

टिप्पणी

९.८६.४ प्र त आश्विनी इति

शैखण्डिनम्


९.८६.१६ प्रो अयासीद् इति

प्रवद्भार्गवम्

यज्ञसारथि


प्रो अयासीद् इन्दुर् इन्द्रस्य निष्कृतम् इति प्रवद् ऋचा च साम्ना चैतद् अहः प्रणयन्ति। उभौ वर्णौ समृद्ध्यै। प्रेति भृगवः प्रेत्य् अङ्गिरसः प्रेत्य् आदित्या स्वर्गं लोकम् आरोहन्। प्रेत्य् एवैतेन स्वर्गं लोकम् आरोहन्ति॥जै.ब्रा. ३.१८८

सप्तम अह -- "प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतम्"इति प्रवत्यो भवन्ति प्रणिनीषेण्यमिव ह्येतदहः– तां.ब्रा.१४.३.४

धर्ता दिविः इति (९.७६.१) उद्वद्भार्गवम् अस्ति


९.८६.१९ वृषा मतीनां इति

यामानि त्रीणि (ग्रामगेयः)

यामम् (ऊहगानम्)


९.८६.३९ गोवित् पवस्य इति

द्र. गोविन्दोपरि टिप्पणी

९.८६.४३ अञ्जते व्यञ्जते

ग्रामगेयः ५६४

प्रवर्ग्योपरि टिप्पणी

प्रवर्ग्यशब्दस्य विश्लेषणं एवं संदर्भाः

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.८६&oldid=324716" इत्यस्माद् प्रतिप्राप्तम्