सामवेदः/कौथुमीया/संहिता/ऊहगानम्/क्षुद्रपर्व/विंशः ३/शैखण्डिनम्

विकिस्रोतः तः
शैखण्डिनम्.
शैखण्डिनम्.

प्र त आश्विनीः पवमान धेनवो दिव्या असृग्रन्पयसा धरीमणि ।
प्रान्तरिक्षात्स्थाविरीस्ते असृक्षत ये त्वा मृजन्त्यृषिषाण वेधसः ।। ८८६ ।। ऋ. ९.८६.४
उभयतः पवमानस्य रश्मयो ध्रुवस्य सतः परि यन्ति केतवः ।
यदी पवित्रे अधि मृज्यते हरिः सत्ता नि योनौ कलशेषु सीदति ।। ८८७ ।।
विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोष्टे सतः परि यन्ति केतवः ।
व्यानशी पवसे सोम धर्मणा पतिर्विश्वस्य भुवनस्य राजसि ।। ८८८ ।। ऋ. ९.८६.४

 
१७. शैखण्डिनम् ॥ शिखण्डी। जगती। पवमानस्सोमः ॥
प्रताऽ३होइ । आश्वीऽ३होऽ२३४ । नीᳲपवमानधे । नवानवाः ।। दिव्याऽ३होइ । असाऽ३होऽ२३४। ग्रन्पयसाधरी। मणाइमणाइ ॥ प्रान्ताऽ३हो। रिक्षा३द्धोऽ२३४ । स्थाविरीस्तेअसृ । क्षताक्षता ॥ येत्वाऽ३होइ। मृजाऽ३होऽ२३४। तिऋषिषाणवे। धसाधसाः॥ धसआ। औहोवाऽ६ । हाउवा ॥श्रीः॥ उभाऽ३हो । यताऽ३होऽ२३४ । पवमानस्यर । श्मयाश्मयाः । ध्रुवाऽ३हो। स्यसाऽ३होऽ२३४ । तᳲपरियन्तिके । तवास्तवाः ॥ यदीऽ३होइ । पवाऽ३इहोऽ२३४इ । त्रेअधिमृज्यते । हराइर्हराइः ॥ सत्ताऽ३हो । नियोऽ३होऽ२३४ । नौकलशेषुसी । दताइदताइ । दतआ । औहोवाऽ६ । हाउवा ॥श्रीः॥ विश्वाऽ३हो । धामाऽ३होऽ२३४ । निविश्वचक्षऋ । भ्वसार्भ्वसाः ॥ प्रभोऽ३हो । तेसाऽ३होऽ२३४ । तᳲपरियन्तिके। तवास्तवाः ॥ वियाऽ३हो। नशाऽ३इहोऽ२३४इ। पवसेसोमध। मणामणा॥ पताऽ३इर्होइ। विश्वाऽ३होऽ२३४। स्यभुवनस्यरा। जसाइजसाइ। जसआ। औहोवाऽ६। हाउवा॥ ईऽ२३४५॥
दी. ३२. उ. न. मा. ३५. यु.॥९०६।।



[सम्पाद्यताम्]

टिप्पणी

दशरात्रस्य चतुर्थमहः -- प्र त आश्विनीः पवमानधेनव"इति चतुर्थस्याह्नः प्रतिपद्भवति (बहिष्पवमाने)- तांब्रा.१२.७.१

प्र त आश्विनीः पवमान धेनव इति प्रवतीः प्रायणीये ऽहन्। प्रणिनीषेण्यं वा एतद् अहः। प्रेति गायत्र्यै रूपम्। गायत्र्या एवैतद् रूपेण प्रयन्ति। दिव्या असृग्रन् पयसा धरीमणीति विराजाम् एवैतद् रूपम् उपगच्छन्ति। वैराजं ह्य् एतद् अहः। प्रान्तरिक्षात् स्थावरीस् ते असृक्षतेत्य् अन्तरिक्षवतीर् भवन्ति। अन्तरिक्षभाजनं वै तृतीयम् अहः। तृतीयाद् अह्न एतत् प्रजातम्। ये त्वा मृजन्त्य ऋषिषाण वेधस इति मृजन्तीव वै जातम्। जायत उ एतेनाह्ना। उभयतः पवमानस्य रश्मय इत्य् उभाभ्यां ह वा एतत् त्र्यहाभ्यां प्रजनयन्ति। प्रैव पूर्वस्माज् जनयन्ति, तन्वत उत्तरस्मात्। ध्रुवस्य सतः पर्यन्ति केतव इत्य् अहर् वै ध्रुवं छन्दांसि केतवः। स यथा श्रान्तान् अनडुह ऊर्ध्वांस् तान् द्विपरिणायं धुरि युञ्ज्युर् एवम् एवैतद् द्विपरिणायं छन्दांसि युञ्जन्त्य् आप्तेष्व् अहस्सु। यदि पवित्रे अधि मृज्यते हरिर् इति मृजन्तीव वै जातम्। जायत उ एतेनाह्ना। सत्ता नि योनौ कलशेषु सीदतीति सोमम् एवैतत् प्रत्यक्षम् अनुवदन्ति। - जै.ब्रा. ३.५८

शैखण्डिनानि(ग्रामगेयः)

शिखण्डी उपरि टिप्पणी