पञ्चविंशब्राह्मणम्/अध्यायः १४

विकिस्रोतः तः
Jump to navigation Jump to search
छन्दोम-स्तोमक्लृप्तिः

14.1
आप्यन्ते वा एतत् स्तोमाश्छन्दांसि यत् षडह आप्यते
आप्ते षडहे छन्दांसि स्तोमान् कृत्वा प्रयन्ति
प्र काव्यमुशनेव ब्रुवाण इति गायत्र्या रूपेण प्रयन्ति
इयं वै गायत्र्यस्यामेव प्रतिष्ठाय प्रयन्ति
त्रिष्टुप्प्रतिपद्भवति
ओजो वीर्यं त्रिष्टुबोजस्येव वीर्ये पराक्रम्य प्रयन्ति
स्तोत्रीयस्तृचो भवति प्राणापानानामवरुध्यै
हरिवत्यो भवन्ति छन्दोमानामयातयामतायै
द्वादशर्चौ भवतः
द्वादश मासाः संवत्सरः संवत्सरमेव तत्पूर्वस्मै षडहाय प्रत्युद्यच्छति सवीवधतायै
चतुर्विंशतिर्भवन्ति चतुर्विंशतिरर्धमासाः संवत्सरः संवत्सरमेव तत्पूर्वस्मै षडहाय प्रत्युद्यच्छति सवीवधतायै
दृत ऐन्द्रोत इति होवाचाभिप्रतारी काक्षसेनिर्ये महावृक्षस्याग्रं गच्छन्ति क ते ततो भवन्ति प्रराजन् पक्षिणः पतन्त्यवापक्षाः पद्यन्ते
ये वै विद्वांसस्ते पक्षिणो येऽविद्वांसस्तेऽपक्षास्त्रिवृत् पञ्चदशावेव स्तोमौ पक्षौ कृत्वा स्वर्ग लोकं प्रयन्ति
चतुर्विंश एव स्तोमो भवति तेज से ब्रह्मवर्चसाय
14.2
मूर्धानं दिवो अरतिं पृथिव्या"इत्याग्नेयमाज्यं भवति
मूर्धा वा एष दिवो यस्तृतीयस्त्रिरात्रः
वैश्वानरमृत आजातमग्निम्"इति वैश्वानर इति वा अग्नेः प्रियं धाम प्रियेणैवैनं तद्धाम्ना परोक्षमुपशिक्षति
प्र वो मित्राय गायत"इति द्यावापृथिवीयं मैत्रावरुणं द्यावापृथिवी वै मित्रावरुणयोः प्रियं धाम प्रियेणैवैनौ तद्धाम्ना परोक्षमुपशिक्षति
िन्द्रायाहि चित्रभानव्"इत्यार्भवमैन्द्रमृभवो वा इन्द्रस्य प्रियं धाम प्रियेणैवैनं तद्धाम्ना परोक्षमुपशिक्षति
तमीडिष्व यो अर्चिषा"इत्यनिरुक्तमैन्द्राग्नं देवतानामनभिधर्षायोत्तमार्धेऽनिराह देवतानामप्रणाशाय स्तोमः
14.3
वृषा पवस्व धारय"इति गायत्री भवत्यह्नो धृत्यै
वृषण्वत्यस्त्रिष्टुभो रूपेण त्रैष्टुभं ह्येतदहः
पुनानः सोम धारय इति धृत्यै
प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतम्"इति प्रवत्यो भवन्ति प्रणिनीषेण्यमिव ह्येतदहः
जगत्यः सत्यस्त्रिष्टुभो रूपेण तस्मात् त्रिष्टुभां लोके क्रियन्ते
सन्तनि भवति सप्तमस्याह्नः सन्तत्यै
यथा वै व्योकसौ विप्रद्रवत एवमेते षष्ठं चाहः सप्तमं च विप्रद्रवतस्तौ यथा समानीय संयुज्यादेवमेवैते एतेन साम्ना संयुनक्ति
यज्ञो वै देवेभ्योऽपाक्रामत् स सुपर्णरूपं कृत्वाचरत् तं देवा एतैः सामभिरारभन्त यज्ञ इव वा एष यच्छन्दोमा यज्ञस्यैवैष आरम्भः
रोहितकूलीयं भवत्याजिजित्यायै
एतेन वै विश्वामित्रो रोहिताभ्यां रोहितकूल आजिमजयत्
विश्वामित्रो भरतानां मनस्सत्यायात् सोऽदन्तिभिर्नाम जनतयांशं प्रास्यते मां मां यूयं अस्तिकां जयाथेमानि मह्यं यूयं पूरयाथ यदीमाविदं रोहितावश्माचितं कूलमुद्वहात इति स एते सामनी अपश्यत् ताभ्यां युक्त्वा प्रासेधत् स उद्जयत्
आजिर्वा एष प्रततो यद्द्वादशाहस्तस्यैते उज्जित्यै
कण्वरथन्तरं भवति तेजो वा एतद्रथन्तरस्य यत् कण्वरथन्तरम्
सरसमेव तद्रथन्तरं प्रयुङ्क्ते यत् कण्वरथन्तरेण सप्तमेऽहनि स्तुवते
जामि द्वादशाहस्यास्तीति ह स्माहोग्रदेवो राजनिर्बार्हतं षष्ठमहर्बार्हतं सप्तमं यत् कण्वरथन्तरं भवति तेनाजामि
गौङ्गवं भवति
अग्निरकामयतान्नादः स्यामिति स तपोऽतप्यत स एतद्गौङ्गवमपश्यत् तेनान्नादोऽभवद्यदन्नं वित्वा गर्दद्यदगङ्गूयत् तद्गौङ्गवस्य गौङ्गवत्वमन्नाद्यस्यावरुध्यै गौङ्गवं कियते
यत् साम देवता प्रशंयति तेन यजमानाः सत्याशिषः सत्याशिषोऽसामेति वै सत्त्रमासते सत्याशिष एव भवन्ति
आयास्यं भवति तिरश्चीननिधनं प्रतिष्ठायै
अयास्यो वा आङ्गिरस आदित्यानां दीक्षितानामन्नमाश्नात् स व्यभ्रंशत स एतान्यायास्यान्यपश्यत् तैरात्मानं समश्रीणाद्विभ्रष्टमिव वै सप्तममहर्यदेतत् साम भवत्यहरेव तेन संश्रीणाति
प्रवद्भर्गवं भवति
14.4
वयं घत्वा सुतावन्त"इति बृहत्यो वर्षीयश्छन्द आक्रमतेऽनपभ्रंशाय
नकिष्टं कर्मणा नशद्"इति बृहत्यः सत्योऽभ्यारम्भेण जगत्यः
अपभ्रंश इव वा एष यज्ज्यायसः स्तोमात् कनीयांसं स्तोममुपयन्ति यदेता अभ्यारम्भेण जगत्यो भवन्त्यह्न एव प्रत्युत्तम्भाय
अभिनिधनं काण्वं भवित
अभिनिधनेन वा इन्द्रो वृत्राय वज्रं प्राहरत् तमस्तृणुत स्तृणुते भ्रातृव्यमभिनिधनेन तुष्टुवानः
वैखानसा वा ऋषय इन्द्रस्य प्रिया आसंस्तान् रहस्युर्देवमलिम्लुड्मुनिमरणेऽमारयत् तं देवा अब्रुवन् क्व तर्षयो (?)ऽभूवान्निति तान् प्रैषमैच्छत् तान्नाविन्दत् स इमान् लोकानेकधारेणापुनात् तान्मुनिमरणेऽविन्दत् तानेतेन साम्ना समैरयत् तद्वाव स तर्ह्यकामयत कामसनि साम वैखानसं काममेवैतेनावरुन्धे स्तोमः
14.5
यस्ते मदो वरेण्य"इति गायत्री भवति मदवद्वै रसवत् तृतीयसवनं मदमेव तद्रसं दधाति
एष स्य धारया सुत इति ककुभः सत्योऽभ्यारम्भेण त्रिष्टुभः
अपभ्रंश इव वा एष यत् ज्यायसः स्तोमात् कनीयांसं स्तोममुपयन्ति यदेता अभ्यारम्भेण त्रिष्टुभो भवन्त्यह्न एव प्रत्युत्तम्भाय
सखाय आनिषीदत"इति वालखिल्या वालखिल्यावेतौ तृचौ षष्ठे चाहनि सप्तमे च यदेतौ वाखिल्यौ तृचौ भवतोऽह्नोरेव व्यतिषङ्गायाव्यवस्रंसाय सन्तत्यै
पुरोजिती वो अन्धस"इति विराडन्नं विराडन्नाद्यस्यावरुध्यै
प्र वाज्यक्षार्"इत्यक्षरपङ्क्तिः स्तोमानां प्रभूतिः
अथो एतद्(?) ध्येवैतर्हि छन्दोऽयातयाम यदक्षरपङ्क्तिस्तेन छन्दोमा अयातयामानः क्रियन्ते
ब्रह्मवादिनो वदन्ति यत् षडहे स्तोमाश्छन्दांस्याप्यन्ते किं छन्दसश्छन्दोमा इत्येतच्छन्दसो यदेता अक्षरपङ्क्तय इति ब्रूयात्
ये सोमासः परावति"इति परावतमिव वा एतर्हि यज्ञो गतस्तमेवैतेनान्विच्छन्ति
दक्षणिधनं भवति
प्रजापतिः प्रजा असृजत ता अस्मात् सृष्टा अबला इवाच्छदयंस्तास्वेतेन साम्ना दक्षायेत्योजो वीर्यमदधाद्यदेतत् साम भवत्योज एव वीर्यमात्मन् धत्ते
शार्करं भवति
इन्द्रं सर्वाणि भूतान्यस्तुवन् स शर्करं शिशुमारर्षिमुपेत्याब्रवीत् स्तुहि मेति सोऽपः प्रस्कन्दन्नब्रवीदेतावतोऽहं त्वां स्तुयामिति तस्मादपां वेगमवेजयत् स हीन इवामन्यत स एतत् सामापश्यत् तेनापोऽनुसमाश्नुत तद्वाव स तर्ह्यकामयत कामसनि साम शार्करं काममेवैतेनावरुन्धे
प्लवो भवति
समुद्रं वा एते प्रस्नान्तीत्याहुर्ये द्वादशाहमुपयन्तीति यो वा अप्लवः समुद्रं प्ररुनाति न स तत उदेति यत प्लवो भवति स्वर्गस्य लोकस्य समष्ट्यै
अतिविश्वानि दुरिता तरेमेति यदेवैषां दुष्टुतं दुश्शस्तं तदेतेन तरन्ति
एकादशाक्षरणिधनो भवत्येकादशाक्षरा त्रिष्टुबोजीवीर्यं त्रिष्टुबोजस्येव वीर्ये प्रतितिष्ठति
गौरीवितं भवति यदेव गौरीवितस्य ब्रह्मणम्
कार्तयशं भवति
हीति निधनमुपयन्ति पाप्मनोऽपहत्यै
अप पाप्मानं हते कार्तयशेन तुष्टुवानः
साहैविषं भवति
सुहविर्वा एतेनाङ्गिरसोऽञ्जसा स्वर्गं लोकमपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः
ब्रह्मावादिनो वदन्ति यत् षडहे स्तोमाश्छन्दांस्याप्यन्ते किं छन्दसश्छन्दोमा इति पुरुषश्छन्दस इति ब्रूयात् पुरुषो वै पाङ्क्तः पुरुषो द्विपदा छन्दोमानामयातयामतायै
जराबोधीयं भवत्यन्नाद्यस्यावरुध्यै
अन्नं वै जराबोधीयं मुखं गायत्री मुख एव तदन्नं धत्तेऽन्नमत्ति
अन्नादो भवति य एवं वेद
गायत्रीषु स्तुवन्ति प्रतिष्ठायै ब्रह्मवर्चसाय येनैव प्राणेन प्रयन्ति तमभ्युद्यन्ति
इडान्ताः पावमाना भवन्ति पशवो वा इडाः पशवश्छन्दोमाः पशुष्वेव तत् पशून् दधाति स्तोमः
14.6
आ ते वत्सो मनो यमद्"इत्यपच्छिदिव वा एतद्यज्ञकाण्डं यदुक्थानि यदेति सलोमत्वायैव
त्वं न इन्द्राभर"इति पूर्णाः ककुभः
अपभ्रंश इव वा एष यज्जयायसः स्तोमात् कनीयांसं स्तोममुपयन्ति यदेताः पूर्णाः ककुभो भवन्त्यनपभ्रंशाय
वत्सश्च वै मेधातिथिश्च काण्वावास्तां तं वत्सं मेधातिथिराक्रोशदब्राह्मणोऽसि शूद्रापुत्र इति सोऽब्रवीदृतेनाग्निं व्ययाव यतरो नौ ब्रह्मीयानिति वात्सेन वत्सो व्यैन्मैधातिथेन मेधातिथिस्तस्य न लोम च नौषत् तद्वाव स तर्ह्यकामयत कामसनि साम वात्सं काममेवैतेनावरुन्धे
सौश्रवसं भवति
उपगुर्वै सौश्रवसः कुत्सस्यौरवस्य पुरोहित आसीत् स कुत्सः पर्यशपद्य इन्द्रं यजाता इति स इन्द्रः सुश्रवसमुपेत्याब्रवीद्यजस्व माशनायामिवा इति तमयजत स इन्द्रः पुरोडाशस्तः कुत्समुपेत्याब्रवीदयक्षत मा क्व ते परिशप्तमभूदिति कस्त्वा यष्टेति सुश्रवा इति स कुत्स औरव उपागाः सौश्रवसस्योद्गायत औदुम्बर्या शिरोऽच्छिनत् स शुश्रवा इन्द्रमब्रवीत् त्वत्तनाद्वै मेदमीदृगुपागादिति तमेतेन साम्ना समैरयत् तद्वाव स तर्ह्यकामयत कामसनि साम सौश्रवसं काममेवैतेनावरुन्धे
वीङ्कं भवति
च्यवनो वै दाधीचोऽश्विनोः प्रिय आसीत् सोऽजीर्यत् तमेतेन साम्नाप्सु व्यैङ्कयतां तं पुनर्युवानमकुरुतां तद्वाव तौ तर्ह्यकामयेतां कामसनि साम वीङ्कं काममेवैतेनावरुन्धे
चतुर्विंश एव स्तोमो भवति तेजसे ब्रह्मवर्चसाय
14.7
शिशुं जज्ञानं हर्यतं मृजन्ति"इत्यष्टमस्याह्नः प्रतिद्भवति
शिशुरिव वा एष सप्तमेनाह्ना जायते तमष्टमेनाह्ना मृजन्ति
स्तोत्रीयस्तृचो भवति प्राणापानानामवरुध्यै
हरिवत्यो भवन्ति छन्दोमानामयातयामतायै
नवर्चा भवन्ति
पञ्चर्चो भवति पञ्चपदा पङ्क्तिः पाङ्क्तमन्नमन्नाद्यस्यावरुध्यै
बाणवान् भवत्यन्तो वै बाणोऽन्त एतदष्टममह्नामन्त एव तदन्तेन स्तुवते प्रतिष्ठायै
त्रयस्तृचा भवन्ति प्राणापानानां सन्तत्यै
14.8
अग्निं वो देवमग्निभिः सजोषा"इत्याग्नेयमाज्यं भवति
अग्निभिरित्येव पूर्वाण्यहानि अभि समिद्धान्यष्टममहरभिसमिन्धे
मित्रं वयं हवामह"इति बार्हतं मैत्रावरुणम्
उग्रगाधमिव वा एतच्छन्दोमास्तद्यथात उग्रगाधे व्यातिषज्य गाहन्त एवमेवैतद्रूपे व्यतिषजति छन्दोमानामसंव्याथाय
तमिन्द्रं वाजयामसि"इत्यैन्द्रम्
अष्टमेन वै देवा अह्नेन्द्रमवाजयन्नवमेन पाप्मानमघ्नन्नहरेवैतेन वाजयन्ति
इन्द्रे अग्ना नमो बृहद्"इति बार्हतमैन्द्राग्नम्
उग्रगाधमिव वा एतद्यच्छन्दोमास्तद्यथात उग्रगाधे व्यतिषज्य गाहन्त एवमेवैतद्रपे व्यतिषजति छन्दोमानामसंव्याथाय स्तोमः
14.9
अध्वर्यो अद्रिभिः सुतम्"इति गायत्री भवत्यह्नो धृत्यै
गायत्र्यः सत्यस्त्रिष्टुभोरूपेण त्रैष्टुभं ह्येतदहः
भि सोमास आयव"इत्यभीति रथन्तरस्य रूपं बृहदिति बृहत उभयोः सह रूपमुपैत्युभौ हि वर्णावेतदहः
धर्ता दिवः पवते कृत्व्यो रस"इत्यधृत इव वा एषस्त्र्यहो यद्धर्तेति धृत्या एव
जगत्यस्सत्यस्त्रिष्टुभो रूपेण तस्मात् त्रिष्टुभो लोके क्रियन्ते
गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्
वैरूपं भवति
पशवो वै वैरूपं पशूनामवरुध्यै विरूपः संवत्सरो विरूपमन्नमन्नाद्यस्यावरुध्यै
आशु भार्गवं भवति
अहर्वा एतदव्लीयत तद्देवा आशुनाभ्यधिन्वंस्तदाशोराशुत्वम्
मार्गीयवं भवति
देवं वा एतं मृगयुरिति वदन्त्येतेन वै स उभयेषां पशूनामाधिपत्यमाश्नुतोभयेषां पशूनामाधिपत्यमश्नुते मार्गीयवेण तुष्टुवानः
सौमित्रं भवति
यदेव सौमित्रस्य ब्राह्मणम्
ऐटतं भवति
इटन् वा एतेन काव्योऽञ्जसा स्वर्गं लोकमपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः
साकमश्वं भवति यदेव साकमश्वस्य ब्राह्मणम्
तदु धुरां सामेत्याहुः प्राणा वै धुरः प्राणानामवरुध्यै
विलम्बसौपर्णं भवति
आत्मा वा एष सौपर्णानां यदष्टमेऽहनि पक्षावेतावभितो भवतो ये सप्तमनवमयोर्वीव वा अन्तरात्मा पक्षौ लम्बते यदन्तरात्मा पक्षौ विलम्बते तस्माद्विलम्बसौपर्णम्
स्वर्गस्य लोकस्य समष्ट्यै सौपर्णं क्रियते
द्वितीयं ह्येतद्रूपं यच्छन्दोमाः
पशवो वै वामदेव्यं पशवश्छन्दोमाः पशुष्वेव तत् पशून् संदधाति
गायत्रपार्श्वं भवति
अहर्वा एतदव्लीयत तद्देवा गायत्रपार्श्वेन समतन्वंस्तस्माद्गायत्रपार्श्वम्
त्रिरात्रो यद्व्यशीर्यत तमेतैः सामभिरभिषज्यन् गायत्रपार्श्वेनोपायच्छन् सन्तनिना समतन्वन् संकृतिना समस्कुर्वन् प्रतिष्ठितौ पूर्वौ त्रिरात्रावप्रतिष्ठित एष यदेतान्येव सामानि क्रियन्त एतस्यैव प्रतिष्ठित्यै
पौरुहन्मनं भवति
पुरुहन्मा वा एतेन वैखानसोऽञ्जसा स्वर्गं लोकमपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः
अभ्याघात्यं भवत्यभ्याघात्यसामानो हि छन्दोमाः
द्वैगतं भवति
द्विगद्वा एतेन भार्गवो द्विः स्वर्गं लोकमगच्छदागत्य पुनरगच्छत् द्वयोः कामयोरवरुध्यै द्वैगतं क्रियते
हारायणं भवति
इन्द्रस्तेजस्कामो हरस्कामस्तपोऽतप्यत, स एतद्धारायणमपश्यत् तेन तेजो हरोऽवारुन्ध तेजस्वी हरस्वी भवति हारायणेन तुष्तुवानः
अछिद्रं भवति
यद्वा एतस्याह्नश्छिद्रमासीत् तद्देवा अच्छिद्रेणाप्यौहंस्तदच्छिद्रस्याच्छिद्रत्वम्
बार्हदुक्थं भवति
बृहदुक्थो वा एतेन वाम्नेयोऽन्नस्य पुरोधामगच्छदन्नं वै ब्रह्मणः पुरोधामन्नाद्यस्यावरुध्यै
उद्वद्भार्गवं भवति
प्रवता वै देवाः स्वर्गं लोकं प्रायन्नुद्वतोदायन्
निधनान्ताः पवमाना भवन्त्यह्नो धृत्यै स्तोमः
14.10
क ईं वेद सुते सचा इति सतोबृहत्यः
अपभ्रंश इव वा एष यस्सप्तमेऽहनि सतोबृहत्यो भवन्ति नाष्टमे तस्मादष्टमे कार्या अनपभ्रंशाय
तदाहुः शिथिलमिव वा एतच्छन्दो यत् सतोबृहातीत्येषा वै प्रतिष्ठिता बृहती या पुनःपदा यदिन्द्र प्रागपागुदगिति दिशां विमर्शः प्रतिष्टित्यै
तासु नैपातिथं ब्रह्मसाम
सामार्षेयवत् स्वर्गाय युज्यते स्वर्गाल्लोकान्न च्यवते तुष्टुवानः
उभयं शृणवच्च न इति
यच्च पृष्ठानि यानि चैतान्यहानि तेषामुभयेषां सन्तत्यै
तासु वैयश्वम्
व्यश्वो वा एतेनाङ्गिरसोऽञ्जसा स्वर्गं लोकमपश्यत् स्वर्गस्य लोकस्यानुख्यात्या एतत् पृष्ठानामन्ततः क्रियते स्तोमः
14.11
पवस्व देव आयुषगिन्द्रं गच्छतु ते मद"इति गायत्री भवति मदवद्वै रसवत् तृतीयसवनं मदमेव तद्रसं दधाति
प्राणा शिशुर्महीनाम् इति प्राणवत्यो भवन्ति प्राणानेव तद्यजमाने दधाति
अभी नो वाजसातमम् इत्यभीति रथन्तरस्य रूपं राथन्तरं ह्येतदहः
पवस्व सोम महान् समुद्र इत्यक्षरपङ्क्तिः स्तोमानां प्रभूतिरथो एतद्ध्येवैतर्हि छन्दोऽयातयाम यदक्षरपङ्क्तिस्तेन छन्दोमा अयातयामानः क्रियन्ते ब्रह्मवादिनो वदन्ति यत् षडहे स्तोमाश्छन्दांस्याप्यन्ते किं छन्दसश्छन्दोमा इत्येतच्छन्दसो यदेता अक्षरपङ्क्तय इति ब्रूयात्
हिन्वन्ति सूरमुस्रय इति गायत्र्यः सत्यो जगत्यो रूपेण तस्माज्जगतीनां लोके क्रियन्ते
गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्
स्वाशिरामर्को भवति
अन्नं वा अर्कोऽन्नाद्यस्यावरुध्यै प्राणा वै स्वाशिरः प्राणानामरुध्यै
सुरूपं भवति
पशवो वै सुरूपं पशूनामवरुध्यै
भासं भवति भाति तुष्टुवानः
पदनिधनं राथन्तरं ह्येतदहः
स्वर्भानुर्वा आसुर आदित्यं तमसाविध्यत् स न व्यरोचत तस्यात्रिर्भासेन तमोऽपाहन् स व्यरोचत यद्वै तद्भा अभवत् तद्भासस्य भासत्वम्
तम इव वा एतान्यहानि यच्छन्दोमास्तेभ्य एतेन साम्ना विवासयति
काक्षीवतं भवति
काक्षीवान् वा एतेनौशिजः प्रजातिं भूमानमगच्छत् प्रजायते बहुर्भवति काक्षीवतेन तुष्टुवानः
आसितं भवति
असितो वा एतेन दैवलस्त्रयाणां लोकानां दृष्टिमपश्यत् त्रयाणां कामानामवरुध्या आसितं क्रियते
ऐषिरं भवति
त्रैतं भवति प्रतिष्ठायै
पदनिधनं राथन्तरं राथन्तरं ह्येतदहः
नाथविन्दु साम विन्दते नाथं नाथविन्दून्येतान्यहानि यत् छन्दोमा नाथमेवैतैर्विन्दते
गौरीवितं भवति यदेव गौरीवितस्य ब्राह्मणम्
कौत्सं भवति
एतेन वै कुत्सोऽन्धसो विपानमपश्यत् स ह स्म वै सुरादृतिनोपवसथं धारयत्युभयस्यान्नाद्यस्यावरुध्यै कौत्सं क्रियते
शुद्धाशुद्धीयं भवति
इन्द्रो यतीन् सालावृकेभ्यः प्रायच्छत् तमश्लीला वागभ्यवदत् सोऽशुद्धोऽमन्यत स एतच्छुद्धाशुद्धीयमपश्यत् तेनाशुध्यच्छुध्यति शुद्धाशुद्धीयेन तुष्टुवानः
क्रौञ्चं भवति यदेव क्रौञ्चस्य ब्राह्मणं यत् द्वितीयेऽहनि
रयिष्ठं भवति
पशवो वै रयिष्ठं पशूनामवरुध्यै
औदलं भवति
उदलो वा एतेन वैश्वामित्रः प्रजातिं भूमानमगच्छत् प्रजायते बहुर्भवत्यौदलेन तुष्टुवानः
ब्रह्मवादिनो वदन्ति यत् षडहे स्तोमाश्छन्दांस्याप्यन्ते किं छन्दसश्छन्दोमा इति पुरुषछन्दस इति ब्रूयात् पुरुषो वै पाङ्क्तः पुरुषो द्विपदाश्छन्दोमानामयातयामतयौ
विशोविशीयं भवति
अग्निरकामयत विशो विशोऽतिथिस्स्यां विशो विश आतिथ्यमश्नुवीयेति स तपोऽतप्यत स एतद्विशोविशीयमपश्यत् तेन विशो विशोऽतिथिरभवत् विशो विश आतिथ्यमश्नुत विशो विशोऽतिथिर्भवति विशो विश आतिथ्यमश्नुते विशोविशीयेन तुष्टुवानः
गायत्रीषु स्तुवन्ति प्रतिष्टायै ब्रह्मवर्चसाय येनैव प्राणेन प्रयन्ति तमभ्युद्यन्ति
इडान्ताः पवमाना भवन्ति पशवो वा इडा पशवश्छन्दोमाः पशुष्वेव तत् पशून् दधाति स्तोमः
14.12
प्रेष्ठं वो अतिथिम् इत्यातिथ्यस्यैव तद्रूपं क्रियते
ऐन्द्र नो गधि प्रिय इतीन्द्रियस्य वीर्यस्यावरुध्यै
पुरां भिन्दुर्युवा कविरमितौजा अजायत् इन्द्रो विश्वस्य कर्मणो धर्ता वज्री पुरुष्टुत"इति धृत्या एव
औशनं भवति
उशना वै काव्योऽकामयत यावानितरेषां काव्यानां लोकस्तावन्तं स्पृणुयामिति स तपोऽतप्यत स एतदौशनमपश्यत् तेन तावन्तं लोकमस्पृणोद्यावानितरेषां काव्यानामासीत् तद्वाव स तर्ह्यकामयत कामसनि सामौशनं काममेवैतेनावरुन्धे
सांवर्तं भवति
देवानां वै यज्ञं रक्षांस्यजिघांसंस्तान्येतेन इन्द्रः संवर्तमपावपद्यत् संवर्तमपावपत् तस्मात् सांवर्तं पाप्मा वाव स तानसचत तं सांवर्तेनापाघ्नताप पाप्मानं हते सांवर्तेन तुष्टुवानः
मारुतं भवति
मासा वै रश्मयो मरुतो रश्मयो मरुतो वै देवानां भूयिष्ठा भूयिष्ठा असामेति वै सत्त्रमासते भूयिष्ठा एव भवन्त्यृतुमन्ति पूर्वाण्यहान्यनृतवः छन्दोमा यदेतत् साम भवति तेनैतान्यहान्यहान्यृतुमन्ति भवन्ति
चतुश्चत्वारिंश एव स्तोमो भवत्योजस्येव तद्वीर्ये प्रतितिष्ठत्योजो वीर्ये त्रिष्टुप्

१४.१.१ प्रथम छन्दोमस्तोमक्लृप्तिः

आप्यन्ते वा एतत्स्तोमाश्छन्दांसि यत्षडह आप्यते

१४.१.२ छन्दोमकल्पनं

आप्ते षडहे छन्दांसि स्तोमान्कृत्वा प्रयन्ति

१४.१.३ स्तोत्रीयतृचविधानं

प्र काव्यं उशनेव ब्रुवाणऽऽ इति गायत्र्या रूपेण प्रयन्ति

१४.१.४ गायत्री स्वीकारकारणं

इयं वै गायत्र्यस्यां एव प्रतिष्ठाय प्रयन्ति

१४.१.५ मुख्य गायत्रग्रहणकारणं

त्रिष्टुप्प्रतिपद्भवति

१४.१.६ तत् प्रशंसनं

ओजो वीर्यं त्रिष्टुबोजस्येव वीर्ये पराक्रम्य प्रयन्ति

१४.१.७ तत् प्रशंसनं

स्तोत्रीयस्तृचो भवति प्राणापानानां अवरुध्यै

१४.१.८ छन्दोम विनियोगहेतुः

हरिवत्यो भवन्ति छन्दोमानां अयातयामतायै

१४.१.९ एकविंशति स्तोत्रीयः

द्वादशर्चौ भवतः

१४.१.१० एकविंशति स्तोत्रीयः

द्वादश मासाः संवत्सरः संवत्सरं एव तत्पूर्वस्मै षडहाय प्रत्युद्यच्छति सवीवधतायै

१४.१.११ एकविंशति स्तोत्रीयः

चतुर्विंशतिर्भवन्ति चतुर्विंशतिरर्धमासाः संवत्सरः संवत्सरं एव तत्पूर्वस्मै षडहाय प्रत्युद्यच्छति सवीवधतायै

१४.१.१२ चतुर्विंशस्तोम दृष्टान्तः

दृत ऐन्द्रोत इति होवाचाभिप्रतारी काक्षसेनिर्ये महावृक्षस्याग्रं गच्छन्ति क ते ततो भवन्ति प्रराजन्पक्षिणः पतन्त्यवापक्षाः पद्यन्ते

१४.१.१३ पक्ष पक्ष रहित कथनं

ये वै विद्वांसस्ते पक्षिणो येऽविद्वांसस्तेऽपक्षास्त्रिवृत्पञ्चदशावेव स्तोमौ पक्षौ कृत्वा स्वर्ग लोकं प्रयन्ति

१४.१.१४ प्रत्यक्ष चतुर्व्विंशः

चतुर्विंश एव स्तोमो भवति तेज से ब्रह्मवर्चसाय

१४.२.१ सप्तमाहः प्रथमाज्यस्तोत्रं

ऽऽमूर्धानं दिवो अरतिं पृथिव्याऽऽ इत्याग्नेयं आज्यं भवति

१४.२.२ तृच सङ्गतिः

मूर्धा वा एष दिवो यस्तृतीयस्त्रिरात्रः

१४.२.३ तृच सङ्गतिः

ऽऽवैश्वानरं ऋत आजातं अग्निम्ऽऽ इति वैश्वानर इति वा अग्नेः प्रियं धाम प्रियेणैवैनं तद्धाम्ना परोक्षं उपशिक्षति

१४.२.४ द्वितीयाज्यस्तोत्रं

ऽऽप्र वो मित्राय गायत-ऽऽ इति द्यावापृथिवीयं मैत्रावरुणं द्यावापृथिवी वै मित्रावरुणयोः प्रियं धाम प्रियेणैवैनौ तद्धाम्ना परोक्षं उपशिक्षति

१४.२.५ तृतीयस्य स्तुतिः

ऽऽइन्द्रायाहि चित्रभानव्ऽऽ इत्यार्भवं ऐन्द्रं ऋभवो वा इन्द्रस्य प्रियं धाम प्रियेणैवैनं तद्धाम्ना परोक्षं उपशिक्षति

१४.२.६ चतुर्थाज्यस्तोत्रविधानं

ऽऽतं ईडिष्व यो अर्चिषा-ऽऽ इत्यनिरुक्तं ऐन्द्राग्नं देवतानां अनभिधर्षायोत्तमार्धेऽनिराह देवतानां अप्रणाशाय स्तोमः

१४.३.१ माध्यन्दिनपवमान प्रथमतृचः

ऽऽवृषा पवस्व धारय-ऽऽ इति गायत्री भवत्यह्नो धृत्यै

१४.३.२ तृचसङ्गतिः

वृषण्वत्यस्त्रिष्टुभो रूपेण त्रैष्टुभं ह्येतदहः

१४.३.३ तृचान्तरं

ऽऽपुनानः सोम धारय-ऽऽ इति धृत्यै

१४.३.४ तृचान्तरं

ऽऽप्रो अयासीदिन्दुरिन्द्रस्य निष्कृतम्ऽऽ इति प्रवत्यो भवन्ति प्रणिनीषेण्यं इव ह्येतदहः

१४.३.५ जागततृच सङ्गतिः

जगत्यः सत्यस्त्रिष्टुभो रूपेण तस्मात्त्रिष्टुभां लोके क्रियन्ते

१४.३.६ ब्राह्मणातिदेशः

गायत्रं भवति यदेव गायत्रस्य ब्राह्मणं

१४.३.७ सामान्तर विधानं

सन्तनि भवति सप्तमस्याह्नः सन्तत्यै

१४.३.८ दृष्टान्त प्रदर्शनं

यथा वै व्योकसौ विप्रद्रवत एवं एते षष्ठं चाहः सप्तमं च विप्रद्रवतस्तौ यथा समानीय संयुज्यादेवं एवैते एतेन साम्ना संयुनक्ति

१४.३.९ अपरसाम विधानं

सौपर्णं भवति स्वर्गस्य लोकस्य समष्ट्यै

१४.३.१० अपरसाम विधानं

यज्ञो वै देवेभ्योऽपाक्रामत्स सुपर्णरूपं कृत्वाचरत्तं देवा एतैः सामभिरारभन्त यज्ञ इव वा एष यच्छन्दोमा यज्ञस्यैवैष आरम्भः

१४.३.११ अपरसाम विधानं

रोहितकूलीयं भवत्याजिजित्यायै

१४.३.१२ अपरसाम विधानं

एतेन वै विश्वामित्रो रोहिताभ्यां रोहितकूल आजिं अजयत्

१४.३.१३ अपरसाम विधानं

विश्वामित्रो भरतानां मनस्सत्यायात्सोऽदन्तिभिर्नाम जनतयांशं प्रास्यते मां मां यूयं अस्तिकां जयाथेमानि मह्यं यूयं पूरयाथ यदीमाविदं रोहितावश्माचितं कूलं उद्वहात इति स एते सामनी अपश्यत्ताभ्यां युक्त्वा प्रासेधत्स उद्जयत्

१४.३.१४ द्वादशाहः सङ्गतिः

आजिर्वा एष प्रततो यद्द्वादशाहस्तस्यैते उज्जित्यै

१४.३.१५ अन्यसाम विधानं

कण्वरथन्तरं भवति तेजो वा एतद्रथन्तरस्य यत्कण्वरथन्तरम्

१४.३.१६ तस्य स्तुतिः

सरसं एव तद्रथन्तरं प्रयुङ्क्ते यत्कण्वरथन्तरेण सप्तमेऽहनि स्तुवते

१४.३.१७ तस्य स्तुतिः

जामि द्वादशाहस्यास्तीति ह स्माहोग्रदेवो राजनिर्बार्हतं षष्ठं अहर्बार्हतं सप्तमं यत्कण्वरथन्तरं भवति तेनाजामि

१४.३.१८ तृचसामान्तरं

गौङ्गवं भवति

१४.३.१९ तृचसामान्तरं

अग्निरकामयतान्नादः स्यां इति स तपोऽतप्यत स एतद्गौङ्गवं अपश्यत्तेनान्नादोऽभवद्यदन्नं वित्वा गर्दद्यदगङ्गूयत्तद्गौङ्गवस्य गौङ्गवत्वं अन्नाद्यस्यावरुध्यै गौङ्गवं कियते

१४.३.२० तृचसामान्तरं

यत्साम देवता प्रशंयति तेन यजमानाः सत्याशिषः सत्याशिषोऽसामेति वै सत्त्रं आसते सत्याशिष एव भवन्ति

१४.३.२१ अन्यत्साम विधानं

आयास्यं भवति तिरश्चीननिधनं प्रतिष्ठायै

१४.३.२२ अन्यत्साम विधानं

अयास्यो वा आङ्गिरस आदित्यानां दीक्षितानां अन्नं आश्नात्स व्यभ्रंशत स एतान्यायास्यान्यपश्यत्तैरात्मानं समश्रीणाद्विभ्रष्टं इव वै सप्तमं अहर्यदेतत्साम भवत्यहरेव तेन संश्रीणाति

१४.३.२३ अन्तिम सामान्तरं

प्रवद्भर्गवं भवति

१४.३.२४ अन्तिम सामान्तरं

प्रवता वै देवाः स्वर्गे लोकं प्रायन्नुद्वतोदायन्

१४.३.२५ स्तोत्रोपसंहारः

निधनान्ताः पवमाना भवन्त्यह्नो धृत्यै स्तोमः

१४.४.१ पृष्ठस्तोत्र तृतीयतृचः

ऽऽवयं घत्वा सुतावन्तऽऽ इति बृहत्यो वर्षीयश्छन्द आक्रमतेऽनपभ्रंशाय

१४.४.२ स्तोत्रीय तृचः

ऽऽनकिष्टं कर्मणा नशद्ऽऽ इति बृहत्यः सत्योऽभ्यारम्भेण जगत्यः

१४.४.३ जगती सम्पादन लाभः

अपभ्रंश इव वा एष यज्ज्यायसः स्तोमात्कनीयांसं स्तोमं उपयन्ति यदेता अभ्यारम्भेण जगत्यो भवन्त्यह्न एव प्रत्युत्तम्भाय

१४.४.४ पृष्ठस्तोत्रनिवर्त्तकं साम

अभिनिधनं काण्वं भवित

१४.४.५ भ्रातृव्यहननहेतुता

अभिनिधनेन वा इन्द्रो वृत्राय वज्रं प्राहरत्तं अस्तृणुत स्तृणुते भ्रातृव्यं अभिनिधनेन तुष्टुवानः

१४.४.६ अच्छावाकनिवर्त्तकं साम

वैखानसं भवति

१४.४.७ सर्व्वकामप्राप्तिसाधनं

वैखानसा वा ऋषय इन्द्रस्य प्रिया आसंस्तान्रहस्युर्देवमलिम्लुड्मुनिमरणेऽमारयत्तं देवा अब्रुवन्क्व तर्षयो (?)ऽभूवान्निति तान्प्रैषं ऐच्छत्तान्नाविन्दत्स इमान्लोकानेकधारेणापुनात्तान्मुनिमरणेऽविन्दत्तानेतेन साम्ना समैरयत्तद्वाव स तर्ह्यकामयत कामसनि साम वैखानसं कामं एवैतेनावरुन्धे स्तोमः

१४.५.१ आर्भवपवमान प्रतिपत्तृचः

ऽऽयस्ते मदो वरेण्यऽऽ इति गायत्री भवति मदवद्वै रसवत्तृतीयसवनं मदं एव तद्रसं दधाति

१४.५.२ आर्भवपवमान प्रतिपत्तृचः

ऽऽएषस्य धारया सुतऽऽ इति ककुभः सत्योऽभ्यारम्भेण त्रिष्टुभः

१४.५.३ त्रिष्टुप् सम्पादनं

अपभ्रंश इव वा एष यत्ज्यायसः स्तोमात्कनीयांसं स्तोमं उपयन्ति यदेता अभ्यारम्भेण त्रिष्टुभो भवन्त्यह्न एव प्रत्युत्तम्भाय

१४.५.४ त्रिष्टुप् सम्पादनं

ऽऽसखाय आनिषीदत-ऽऽ इति वालखिल्या वालखिल्यावेतौ तृचौ षष्ठे चाहनि सप्तमे च यदेतौ वाखिल्यौ तृचौ भवतोऽह्नोरेव व्यतिषङ्गायाव्यवस्रंसाय सन्तत्यै

१४.५.५ त्रिष्टुप् सम्पादनं

ऽऽपुरोजिती वो अन्धसऽऽ इति विराडन्नं विराडन्नाद्यस्यावरुध्यै

१४.५.६ त्रिष्टुप् सम्पादनं

ऽऽप्र वाज्यक्षार्ऽऽ इत्यक्षरपङ्क्तिः स्तोमानां प्रभूतिः

१४.५.७ अक्षरपंक्तिच्छन्दः सङ्गतिः

अथो एतद्(?) ध्येवैतर्हि छन्दोऽयातयाम यदक्षरपङ्क्तिस्तेन छन्दोमा अयातयामानः क्रियन्ते

१४.५.८ तस्य विवरणं

ब्रह्मवादिनो वदन्ति यत्षडहे स्तोमाश्छन्दांस्याप्यन्ते किं छन्दसश्छन्दोमा इत्येतच्छन्दसो यदेता अक्षरपङ्क्तय इति ब्रूयात्

१४.५.९ तस्य तृचान्तरं

ऽऽये सोमासः परावति-ऽऽ इति परावतं इव वा एतर्हि यज्ञो गतस्तं एवैतेनान्विच्छन्ति

१४.५.१० लक्षणया जगती सङ्गतिः

गायत्र्यः सत्यो जगत्यो रूपेण तस्माज्जगतीनां लोके क्रियन्ते

१४.५.११ सामान्तर विधानं

गायत्रं भवति यदेव गायत्रस्य ब्राह्मणं

१४.५.१२ ब्राह्मणातिदेशः

दक्षणिधनं भवति

१४.५.१३ ब्रह्महेतुत्त्वेन स्तुतिः

प्रजापतिः प्रजा असृजत ता अस्मात्सृष्टा अबला इवाच्छदयंस्तास्वेतेन साम्ना दक्षायेत्योजो वीर्यं अदधाद्यदेतत्साम भवत्योज एव वीर्यं आत्मन्धत्ते

१४.५.१४ तृचान्तरे सामान्तरं

शार्करं भवति

१४.५.१५ सर्व्वकाम प्राप्तिहेतुता

इन्द्रं सर्वाणि भूतान्यस्तुवन्स शर्करं शिशुमारर्षिं उपेत्याब्रवीत्स्तुहि मेति सोऽपः प्रस्कन्दन्नब्रवीदेतावतोऽहं त्वां स्तुयां इति तस्मादपां वेगं अवेजयत्स हीन इवामन्यत स एतत्सामापश्यत्तेनापोऽनुसमाश्नुत तद्वाव स तर्ह्यकामयत कामसनि साम शार्करं कामं एवैतेनावरुन्धे

१४.५.१६ तृचान्तरे सामान्तरं

प्लवो भवति

१४.५.१७ द्वादशाहस्य समुद्ररूपता

समुद्रं वा एते प्रस्नान्तीत्याहुर्ये द्वादशाहं उपयन्तीति यो वा अप्लवः समुद्रं प्ररुनाति न स तत उदेति यत प्लवो भवति स्वर्गस्य लोकस्य समष्ट्यै

१४.५.१८ निधनानुवादः

अतिविश्वानि दुरिता तरेमेति यदेवैषां दुष्टुतं दुश्शस्तं तदेतेन तरन्ति

१४.५.१९ निधनसंख्यया स्तुतिः

एकादशाक्षरणिधनो भवत्येकादशाक्षरा त्रिष्टुबोजीवीर्यं त्रिष्टुबोजस्येव वीर्ये प्रतितिष्ठति

१४.५.२० ब्राह्मणातिदेशः

गौरीवितं भवति यदेव गौरीवितस्य ब्रह्मणम्

१४.५.२१ तृच साम विधानं

कार्तयशं भवति

१४.५.२२ तृच साम विधानं

हीति निधनं उपयन्ति पाप्मनोऽपहत्यै

१४.५.२३ स्तोतुः फल कथनं

अप पाप्मानं हते कार्तयशेन तुष्टुवानः

१४.५.२४ स्तोतुः फल कथनं

साहैविषं भवति

१४.५.२५ स्तोतुः फल कथनं

सुहविर्वा एतेनाङ्गिरसोऽञ्जसा स्वर्गं लोकं अपश्यत्स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः

१४.५.२६ छन्दोद्वारा स्तुतिः

ब्रह्मावादिनो वदन्ति यत्षडहे स्तोमाश्छन्दांस्याप्यन्ते किं छन्दसश्छन्दोमा इति पुरुषश्छन्दस इति ब्रूयात्पुरुषो वै पाङ्क्तः पुरुषो द्विपदा छन्दोमानां अयातयामतायै

१४.५.२७ तृचान्तरे सामान्तरं

जराबोधीयं भवत्यन्नाद्यस्यावरुध्यै

१४.५.२८ तस्य व्याख्यानं

अन्नं वै जराबोधीयं मुखं गायत्री मुख एव तदन्नं धत्तेऽन्नं अत्ति

१४.५.२९ छन्दोमवदनं फलं

अन्नादो भवति य एवं वेद

१४.५.३० गायत्री स्तोत्रानुवादः

गायत्रीषु स्तुवन्ति प्रतिष्ठायै ब्रह्मवर्चसाय येनैव प्राणेन प्रयन्ति तं अभ्युद्यन्ति

१४.५.३१ स्तोत्रोपसंहारः

इडान्ताः पावमाना भवन्ति पशवो वा इडाः पशवश्छन्दोमाः पशुष्वेव तत्पशून्दधाति स्तोमः

१४.६.१ उक्थस्तोत्रीय प्रथमतृचः

ऽऽआ ते वत्सो मनो यमद्ऽऽ इत्यपच्छिदिव वा एतद्यज्ञकाण्डं यदुक्थानि यदेति सलोमत्वायैव

१४.६.२ द्धितीयोक्थस्तोत्रीय तृचः

ऽऽत्वं न इन्द्राभर-ऽऽ इति पूर्णाः ककुभः

१४.६.३ अपभ्रंश परिहारः

अपभ्रंश इव वा एष यज्जयायसः स्तोमात्कनीयांसं स्तोमं उपयन्ति यदेताः पूर्णाः ककुभो भवन्त्यनपभ्रंशाय

१४.६.४ तृतीयोक्थस्तोत्रीय तृचः

यदिन्द्र चित्रं मइह नास्ति त्वादातमद्रिवो राधस्तन्नोविदद्वस उभया हस्त्याभरेति राद्धिमेवैतेनावरुन्धे

१४.६.५ प्रथमोक्थ साम

वात्सम्भवति

१४.६.६ सर्व्वकाम प्राप्ति साधनता

वत्सश्च वै मेधातिथिश्च काण्वावास्तां तं वत्सं मेधातिथिराक्रोशदब्राह्मणोऽसि शूद्रापुत्र इति सोऽब्रवीदृतेनाग्निं व्ययाव यतरो नौ ब्रह्मीयानिति वात्सेन वत्सो व्यैन्मैधातिथेन मेधातिथिस्तस्य न लोम च नौषत्तद्वाव स तर्ह्यकामयत कामसनि साम वात्सं कामं एवैतेनावरुन्धे

१४.६.७ द्वितीयोक्थ साम

सौश्रवसं भवति

१४.६.८ तत् प्रशंसनं

उपगुर्वै सौश्रवसः कुत्सस्यौरवस्य पुरोहित आसीत्स कुत्सः पर्यशपद्य इन्द्रं यजाता इति स इन्द्रः सुश्रवसं उपेत्याब्रवीद्यजस्व माशनायामिवा इति तं अयजत स इन्द्रः पुरोडाशस्तः कुत्सं उपेत्याब्रवीदयक्षत मा क्व ते परिशप्तं अभूदिति कस्त्वा यष्टेति सुश्रवा इति स कुत्स औरव उपागाः सौश्रवसस्योद्गायत औदुम्बर्या शिरोऽच्छिनत्स शुश्रवा इन्द्रं अब्रवीत्त्वत्तनाद्वै मेदं ईदृगुपागादिति तं एतेन साम्ना समैरयत्तद्वाव स तर्ह्यकामयत कामसनि साम सौश्रवसं कामं एवैतेनावरुन्धे

१४.६.९ द्वितीयोक्थ साम

वीङ्कं भवति

१४.६.१० तत् प्रशंसनं

च्यवनो वै दाधीचोऽश्विनोः प्रिय आसीत्सोऽजीर्यत्तं एतेन साम्नाप्सु व्यैङ्कयतां तं पुनर्युवानं अकुरुतां तद्वाव तौ तर्ह्यकामयेतां कामसनि साम वीङ्कं कामं एवैतेनावरुन्धे

१४.६.११ स्तोमक्लृप्ति विधानं

चतुर्विंश एव स्तोमो भवति तेजसे ब्रह्मवर्चसाय

१४.७.१ अष्टमस्याह्नः स्तोमक्लृ्प्तिः

ऽऽशिशुं जज्ञानं हर्यतं मृजन्तिऽऽ इत्यष्टं अस्याह्नः प्रतिद्भवति

१४.७.२ अष्टमाहः स्तुतिः

शिशुरिव वा एष सप्तमेनाह्ना जायते तं अष्टमेनाह्ना मृजन्ति

१४.७.३ अष्टमाहः स्तुतिः

स्तोत्रीयस्तृचो भवति प्राणापानानां अवरुध्यै

१४.७.४ अह्नां यातयामत्वं

हरिवत्यो भवन्ति छन्दोमानां अयातयामतायै

१४.७.५ नवर्च त्रितय विधानं

नवर्चा भवन्ति

१४.७.६ नवसंख्यास्तुतिः

नव वै प्राणाः पशवच्छन्दोमाः पशुष्वेव तत्प्राणान्दधाति

१४.७.७ नवसंख्यास्तुतिः

पञ्चर्चो भवति पञ्चपदा पङ्क्तिः पाङ्क्तं अन्नं अन्नाद्यस्यावरुध्यै

१४.७.८ अष्टमाहः सङ्गतिः

बाणवान्भवत्यन्तो वै बाणोऽन्त एतदष्टमं अह्नां अन्त एव तदन्तेन स्तुवते प्रतिष्ठायै

१४.७.९ तृचत्रय विधानं

त्रयस्तृचा भवन्ति प्राणापानानां सन्तत्यै

१४.७.१० स्तोमविधान स्तुतिः

चतुश्चत्वारिंश एव स्तोमो भवत्योजस्येव तद्वीर्य्ये प्रतितिष्ठत्योजोवीर्य्यं त्रिष्टुप्

१४.८.१ अष्टमेहनि प्रथमाज्यस्तोत्रं

ऽऽअग्निं वो देवं अग्निभिः सजोषाऽऽ इत्याग्नेयं आज्यं भवति

१४.८.२ अष्टमेहनि प्रथमाज्यस्तोत्रं

अग्निभिरित्येव पूर्वाण्यहानि अभि समिद्धान्यष्टमं अहरभिसमिन्धे

१४.८.३ द्वितीयाज्यस्तोत्रं

ऽऽमित्रं वयं हवामहऽऽ इति बार्हतं मैत्रावरुणम्

१४.८.४ विनियुक्तादिदोषः

उग्रगाधं इव वा एतच्छन्दोमास्तद्यथात उग्रगाधे व्यातिषज्य गाहन्त एवं एवैतद्रूपे व्यतिषजति छन्दोमानां असंव्याथाय

१४.८.५ तृतीयमाज्यस्तोत्रं

ऽऽतं इन्द्रं वाजयामसि-ऽऽ इत्यैन्द्रम्

१४.८.६ तृतीयमाज्यस्तोत्रं

अष्टमेन वै देवा अह्नेन्द्रं अवाजयन्नवमेन पाप्मानं अघ्नन्नहरेवैतेन वाजयन्ति

१४.८.७ चतुर्थाज्यस्तोत्रं

ऽऽइन्द्रे अग्ना नमो बृहद्ऽऽ इति बार्हतं ऐन्द्राग्नम्

१४.८.८ दोषसमाधानं

उग्रगाधं इव वा एतद्यच्छन्दोमास्तद्यथात उग्रगाधे व्यतिषज्य गाहन्त एवं एवैतद्रपे व्यतिषजति छन्दोमानां असंव्याथाय स्तोमः

१४.९.१ स्तोत्रीयऋचविधानं

ऽऽअध्वर्यो अद्रिभिः सुतम्ऽऽ इति गायत्री भवत्यह्नो धृत्यै

१४.९.२ गायत्र सङ्गतिः

गायत्र्यः सत्यस्त्रिष्टुभोरूपेण त्रैष्टुभं ह्येतदहः

१४.९.३ अपर तृचविधानं

ऽऽअभि सोमास आयवऽऽ इत्यभीति रथन्तरस्य रूपं बृहदिति बृहत उभयोः सह रूपं उपैत्युभौ हि वर्णावेतदहः

१४.९.४ अपर तृचविधानं

ऽऽधर्ता दिवः पवते कृत्व्यो रसऽऽ इत्यधृत इव वा एषस्त्र्यहो यद्धर्तेति धृत्या एव

१४.९.५ धृतिधारण सङ्गतिः

जगत्यस्सत्यस्त्रिष्टुभो रूपेण तस्मात्त्रिष्टुभो लोके क्रियन्ते

१४.९.६ ब्राह्मणातिदेशः

गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्

१४.९.७ सामान्तरविधानं

वैरूपं भवति

१४.९.८ वैरूपसाम प्रशंसनं

पशवो वै वैरूपं पशूनां अवरुध्यै विरूपः संवत्सरो विरूपं अन्नं अन्नाद्यस्यावरुध्यै

१४.९.९ तृच सामान्तर विधानं

आशुभार्गवं भवति

१४.९.१० सामनिर्व्वचनं

अहर्वा एतदव्लीयत तद्देवा आशुनाभ्यधिन्वंस्तदाशोराशुत्वम्

१४.९.११ तृच सामान्तर विधानं

मार्गीयवं* भवति

१४.९.१२ तृच सामान्तर विधानं

देवं वा एतं मृगयुरिति* वदन्त्येतेन वै स उभयेषां पशूनां आधिपत्यं आश्नुतोभयेषां पशूनां आधिपत्यं अश्नुते मार्गीयवेण तुष्टुवानः

१४.९.१३ सामान्तर प्रदर्शनं

सौमित्रं भवति

१४.९.१४ स्तावक सामान्तरं

यदेव सौमित्रस्य ब्राह्मणम्

१४.९.१५ स्तावक सामान्तरं

ऐटतं भवति

१४.९.१६ स्तावक सामान्तरं

इटन्वा एतेन काव्योऽञ्जसा स्वर्गं लोकं अपश्यत्स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः

१४.९.१७ ब्राह्मणातिदेशः

साकमश्वं भवति यदेव साकमश्वस्य ब्राह्मणम्

१४.९.१८ प्रकारान्तर स्तुतिः

तदु धुरां सामेत्याहुः प्राणा वै धुरः प्राणानां अवरुध्यै

१४.९.१९ सामान्तर प्रदर्शनं

विलम्बसौपर्णं भवति

१४.९.२० प्रकारान्तर स्तुतिः

आत्मा वा एष सौपर्णानां यदष्टमेऽहनि पक्षावेतावभितो भवतो ये सप्तमनवमयोर्वीव वा अन्तरात्मा पक्षौ लम्बते यदन्तरात्मा पक्षौ विलम्बते तस्माद्विलम्बसौपर्णम्

१४.९.२१ प्रकारान्तर स्तुतिः

स्वर्गस्य लोकस्य समष्ट्यै सौपर्णं क्रियते

१४.९.२२ तृचान्तरे सामान्तर विधानं

द्विहिङ्कारं वामदेव्यं भवत्यन्नाद्यस्यावरुध्यै

१४.९.२३ अष्टसंख्यापूरकसम्बन्धः

द्वितीयं ह्येतद्रूपं यच्छन्दोमाः

१४.९.२४ पशुसमृद्धिहेतुता

पशवो वै वामदेव्यं पशवश्छन्दोमाः पशुष्वेव तत्पशून्संदधाति

१४.९.२५ अन्यसामविधिः

गायत्रपार्श्वं भवति

१४.९.२६ तत् विधानस्तुतिः

अहर्वा एतदव्लीयत तद्देवा गायत्रपार्श्वेन समतन्वंस्तस्माद्गायत्रपार्श्वम्

१४.९.२७ तद्व्याख्यानं

त्रिरात्रो यद्व्यशीर्यत तं एतैः सामभिरभिषज्यन्गायत्रपार्श्वेनोपायच्छन्सन्तनिना समतन्वन्संकृतिना समस्कुर्वन्प्रतिष्ठितौ पूर्वौ त्रिरात्रावप्रतिष्ठित एष यदेतान्येव सामानि क्रियन्त एतस्यैव प्रतिष्ठित्यै

१४.९.२८ अन्यसामविधिः

पौरुहन्मनं भवति

१४.९.२९ अन्यसामविधिः

पुरुहन्मा वा एतेन वैखानसोऽञ्जसा स्वर्गं लोकं अपश्यत्स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः

१४.९.३० सामगानरूपं

अभ्याघात्यं भवत्यभ्याघात्यसामानो हि छन्दोमाः

१४.९.३१ सामान्तरं

द्वैगतं भवति

१४.९.३२ द्विविध फलप्राप्तिहेतुता

द्विगद्वा एतेन भार्गवो द्विः स्वर्गं लोकं अगच्छदागत्य पुनरगच्छत्द्वयोः कामयोरवरुध्यै द्वैगतं क्रियते

१४.९.३३ सामान्तरं

हारायणं भवति

१४.९.३४ सामस्तुति विधानं

इन्द्रस्तेजस्कामो हरस्कामस्तपोऽतप्यत, स एतद्धारायणं अपश्यत्तेन तेजो हरोऽवारुन्ध तेजस्वी हरस्वी भवति हारायणेन तुष्तुवानः

१४.९.३५ सामान्तरं

अछिद्रं भवति

१४.९.३६ अच्छिद्र संज्ञा

यद्वा एतस्याह्नश्छिद्रं आसीत्तद्देवा अच्छिद्रेणाप्यौहंस्तदच्छिद्रस्याच्छिद्रत्वम्

१४.९.३७ अध्यास्यायां गेयं साम

बार्हदुक्थं भवति

१४.९.३८ गेयसाम स्तुतिः

बृहदुक्थो वा एतेन वाम्नेयोऽन्नस्य पुरोधां अगच्छदन्नं वै ब्रह्मणः पुरोधां अन्नाद्यस्यावरुध्यै

१४.९.३९ अन्तिमतृचगेयसाम

उद्वद्भार्गवं भवति

१४.९.४० प्रवद्भार्गव संहतिः

प्रवता वै देवाः स्वर्गं लोकं प्रायन्नुद्वतोदायन्

१४.९.४१ पवमानस्तोत्रोपसंहारः

निधनान्ताः पवमाना भवन्त्यह्नो धृत्यै स्तोमः
- - - - - -- - - -- - - -- - -- - -- - -- - - - --

  • १४.९.१ अष्टमेऽहनि माध्यन्दिनपवमानस्य स्तोमक्लृप्तिः
  • १४.९.११ मार्गीयवं - अध्वर्यो अद्रिभिरिति तृचे
  • १४.९.१२ मृगयु- एतं कामिकान् मृगानात्मन इच्छतीति

- - -- - - -- -- - -- - -- - - - - -- - - -- - - - -

१४.१०.१ ब्रह्म पृष्ठसाम

ऽऽक ईं वेद सुते सचा-ऽऽ इति सतोबृहत्यः

१४.१०.२ सतोबृहतीविधानं

अपभ्रंश इव वा एष यस्सप्तमेऽहनि सतोबृहत्यो भवन्ति नाष्टमे तस्मादष्टमे कार्या अनपभ्रंशाय

१४.१०.३ सिद्धान्त कथनं

तदाहुः शिथिलं इव वा एतच्छन्दो यत्सतोबृहातीत्येषा वै प्रतिष्ठिता बृहती या पुनःपदा यदिन्द्र प्रागपागुदगिति दिशां विमर्शः प्रतिष्टित्यै

१४.१०.४ गातव्यं ब्रह्मसाम

तासु नैपातिथं ब्रह्मसाम

१४.१०.५ स्वर्ग हेतुता

सामार्षेयवत्स्वर्गाय युज्यते स्वर्गाल्लोकान्न च्यवते तुष्टुवानः

१४.१०.६ चतुर्थ पृष्ठस्तोत्रीय तृचः

ऽऽउभयं शृणवच्च नऽऽ इति

१४.१०.७ सन्तान हेतुता

यच्च पृष्ठानि यानि चैतान्यहानि तेषां उभयेषां सन्तत्यै

१४.१०.८ गातव्यसाम प्रदर्शनं

तासु वैयश्वम्

१४.१०.९ अच्छावाक साम कार्य्यं

व्यश्वो वा एतेनाङ्गिरसोऽञ्जसा स्वर्गं लोकं अपश्यत्स्वर्गस्य लोकस्यानुख्यात्या एतत्पृष्ठानां अन्ततः क्रियते स्तोमः

१४.११.१ प्रतिपत्तृच सवनसङ्गतिः

ऽऽपवस्व देव आयुषगिन्द्रं गच्छतु ते मदऽऽ इति गायत्री भवति मदवद्वै रसवत्तृतीयसवनं मदं एव तद्रसं दधाति

१४.११.२ तृचान्तर विधानं

अभिद्युम्नं बृहद्यश इत्यभीति रथन्तरस्य रूपम्बृहदिति बृहत उभयोः सहरूपमुपैत्युभौ हि वर्णावेतदहः

१४.११.३ तृचान्तर विधानं

ऽऽप्राणा शिशुर्महीनाम्ऽऽ इति प्राणवत्यो भवन्ति प्राणानेव तद्यजमाने दधाति

१४.११.४ अष्टमाहः सङ्गतिः

ऽऽअभी नो वाजसातमम्ऽऽ इत्यभीति रथन्तरस्य रूपं राथन्तरं ह्येतदहः

१४.११.५ अक्षरपंक्तिच्छन्दोविधानं

ऽऽपवस्व सोम महान्समुद्रऽऽ इत्यक्षरपङ्क्तिः स्तोमानां प्रभूतिरथो एतद्ध्येवैतर्हि छन्दोऽयातयाम यदक्षरपङ्क्तिस्तेन छन्दोमा अयातयामानः क्रियन्ते ब्रह्मवादिनो वदन्ति यत्षडहे स्तोमाश्छन्दांस्याप्यन्ते किं छन्दसश्छन्दोमा इत्येतच्छन्दसो यदेता अक्षरपङ्क्तय इति ब्रूयात्

१४.११.६ तृचान्तर विधानं

ऽऽहिन्वन्ति सूरं उस्रयऽऽ इति गायत्र्यः सत्यो जगत्यो रूपेण तस्माज्जगतीनां लोके क्रियन्ते

१४.११.७ गायत्रसाम ब्राह्मणातिदेशः

गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्

१४.११.८ विहिततृच सामान्तरं

स्वाशिरां अर्को भवति

१४.११.९ सामसाध्यं फलं

अन्नं वा अर्कोऽन्नाद्यस्यावरुध्यै प्राणा वै स्वाशिरः प्राणानां अरुध्यै

१४.११.१० सामान्तर विधानं

सुरूपं भवति

१४.११.११ सामान्तरस्तुतिः

पशवो वै सुरूपं पशूनां अवरुध्यै

१४.११.१२ सामान्तर विधानं

भासं भवति भाति तुष्टुवानः

१४.११.१३ अहः सङ्गतिः

पदनिधनं राथन्तरं ह्येतदहः

१४.११.१४ संज्ञानिर्व्वचनं

स्वर्भानुर्वा आसुर आदित्यं तमसाविध्यत्स न व्यरोचत तस्यात्रिर्भासेन तमोऽपाहन्स व्यरोचत यद्वै तद्भा अभवत्तद्भासस्य भासत्वम्

१४.११.१५ तत्फलकथनं

तम इव वा एतान्यहानि यच्छन्दोमास्तेभ्य एतेन साम्ना विवासयति

१४.११.१६ सामान्तर विधानं

काक्षीवतं भवति

१४.११.१७ सामान्तरस्तुतिः

काक्षीवान्वा एतेनौशिजः प्रजातिं भूमानं अगच्छत्प्रजायते बहुर्भवति काक्षीवतेन तुष्टुवानः

१४.११.१८ सामान्तर विधानं

आसितं भवति

१४.११.१९ सामान्तरस्तुतिः

असितो वा एतेन दैवलस्त्रयाणां लोकानां दृष्टिं अपश्यत्त्रयाणां कामानां अवरुध्या आसितं क्रियते

१४.११.२० सामान्तर विधानं

ऐषिरं भवति प्रजापतिर्वा ऐशिराणि प्रजायते बहुर्भवत्यैशिरेण तुष्टुवानः

१४.११.२१ सामान्तर विधानं

त्रैतं भवति प्रतिष्ठायै

१४.११.२२ अहः सङ्गतिः

पदनिधनं राथन्तरं राथन्तरं ह्येतदहः

१४.११.२३ सामान्तरस्तुतिः

नाथविन्दु साम विन्दते नाथं नाथविन्दून्येतान्यहानि यत्छन्दोमा नाथं एवैतैर्विन्दते

१४.११.२४ सामान्तर विधानं

गौरीवितं भवति यदेव गौरीवितस्य ब्राह्मणम्

१४.११.२५ सामान्तर विधानं

कौत्सं भवति

१४.११.२६ सामान्तरस्तुतिः

एतेन वै कुत्सोऽन्धसो विपानं अपश्यत्स ह स्म वै सुरादृतिनोपवसथं धारयत्युभयस्यान्नाद्यस्यावरुध्यै कौत्सं क्रियते

१४.११.२७ आवृत्त सामान्तरं

शुद्धाशुद्धीयं भवति

१४.११.२८ शुद्धाशुद्धीय निर्व्वचनं

इन्द्रो यतीन्सालावृकेभ्यः प्रायच्छत्तं अश्लीला वागभ्यवदत्सोऽशुद्धोऽमन्यत स एतच्छुद्धाशुद्धीयं अपश्यत्तेनाशुध्यच्छुध्यति शुद्धाशुद्धीयेन तुष्टुवानः

१४.११.२९ ब्राह्मणातिदेशः

क्रौञ्चं भवति यदेव क्रौञ्चस्य ब्राह्मणं यत्द्वितीयेऽहनि

१४.११.३० सामान्तरकथनं

रयिष्ठं भवति

१४.११.३१ तद्विधान स्तोत्रं

पशवो वै रयिष्ठं पशूनां अवरुध्यै

१४.११.३२ सामान्तरकथनं

औदलं भवति

१४.११.३३ तद्विधान स्तोत्रं

उदलो वा एतेन वैश्वामित्रः प्रजातिं भूमानं अगच्छत्प्रजायते बहुर्भवत्यौदलेन तुष्टुवानः

१४.११.३४ सामान्तरकथनं

धर्म्म भवति धर्म्मस्य धृत्यै

१४.११.३५ तद्विधान स्तोत्रं

ब्रह्मवादिनो वदन्ति यत्षडहे स्तोमाश्छन्दांस्याप्यन्ते किं छन्दसश्छन्दोमा इति पुरुषछन्दस इति ब्रूयात्पुरुषो वै पाङ्क्तः पुरुषो द्विपदाश्छन्दोमानां अयातयामतयौ

१४.११.३६ सामान्तरकथनं

विशोविशीयं भवति

१४.११.३७ तद्विधान स्तोत्रं

अग्निरकामयत विशो विशोऽतिथिस्स्यां विशो विश आतिथ्यं अश्नुवीयेति स तपोऽतप्यत स एतद्विशोविशीयं अपश्यत्तेन विशो विशोऽतिथिरभवत्विशो विश आतिथ्यं अश्नुत विशो विशोऽतिथिर्भवति विशो विश आतिथ्यं अश्नुते विशोविशीयेन तुष्टुवानः

१४.११.३८ तद्विधान स्तोत्रं

गायत्रीषु स्तुवन्ति प्रतिष्टायै ब्रह्मवर्चसाय येनैव प्राणेन प्रयन्ति तं अभ्युद्यन्ति

१४.११.३९ स्तोत्रोपसंहारः

इडान्ताः पवमाना भवन्ति पशवो वा इडा पशवश्छन्दोमाः पशुष्वेव तत्पशून्दधाति स्तोमः

१४.१२.१ उक्थ प्रथमस्तोत्रीयतृचः

ऽऽप्रेष्ठं वो अतिथिम्ऽऽ इत्यातिथ्यस्यैव तद्रूपं क्रियते

१४.१२.२ द्वितीयोक्थ स्तोत्रीय तृचः

ऽऽऐन्द्र नो गधि प्रिय-ऽऽ इतीन्द्रियस्य वीर्यस्यावरुध्यै

१४.१२.३ तृतीयोक्थ स्तोत्रीय तृचः

ऽऽपुरां भिन्दुर्युवा कविरमितौजा अजायत । इन्द्रो विश्वस्य कर्मणो धर्ता वज्री पुरुष्टुतऽऽ इति धृत्या एव

१४.१२.४ प्रथमोक्थ साम

औशनं भवति

१४.१२.५ तस्य स्तुतिः

उशना वै काव्योऽकामयत यावानितरेषां काव्यानां लोकस्तावन्तं स्पृणुयां इति स तपोऽतप्यत स एतदौशनं अपश्यत्तेन तावन्तं लोकं अस्पृणोद्यावानितरेषां काव्यानां आसीत्तद्वाव स तर्ह्यकामयत कामसनि सामौशनं कामं एवैतेनावरुन्धे

१४.१२.६ द्वितीयोक्थ साम

सांवर्तं भवति

१४.१२.७ पापक्षयहेतुता

देवानां वै यज्ञं रक्षांस्यजिघांसंस्तान्येतेन इन्द्रः संवर्तं अपावपद्यत्संवर्तं अपावपत्तस्मात्सांवर्तं पाप्मा वाव स तानसचत तं सांवर्तेनापाघ्नताप पाप्मानं हते सांवर्तेन तुष्टुवानः

१४.१२.८ तृतीयोक्थ साम

मारुतं भवति

१४.१२.९ तस्य स्तुतिः

मासा वै रश्मयो मरुतो रश्मयो मरुतो वै देवानां भूयिष्ठा भूयिष्ठा असामेति वै सत्त्रं आसते भूयिष्ठा एव भवन्त्यृतुमन्ति पूर्वाण्यहान्यनृतवः छन्दोमा यदेतत्साम भवति तेनैतान्यहान्यहान्यृतुमन्ति भवन्ति

१४.१२.१० स्तोम विधानं

चतुश्चत्वारिंश एव स्तोमो भवत्योजस्येव तद्वीर्ये प्रतितिष्ठत्योजो वीर्ये त्रिष्टुप्