सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ९/मारुतम्

विकिस्रोतः तः
मारुतम्.
मारुतम्.

पुरां भिन्दुर्युवा कविरमितौजा अजायत ।
इन्द्रो विश्वस्य कर्मणो धर्त्ता वज्री पुरुष्टुतः ॥ १२५० ॥ ऋ. १.११.४
त्वं वलस्य गोमतोऽपावरद्रिवो बिलं ।
त्वां देवा अबिभ्युषस्तुज्यमानास आविषुः ॥ १२५१ ॥
इन्द्रमीशानमोजसाभि स्तोमैरनूषत ।
सहस्रं यस्य रातय उत वा सन्ति भूयसीः ॥ १२५२ ॥



१३. मारुतम् ॥ मरुतः। अनुष्टुप् । पवमानस्सोमः ॥
पुरांभिन्दुर्युवाकवीः ॥ अमितौजाअजायाऽ२३ता। आइन्द्रोविश्वाऽ३ । स्याकर्माऽ२३४णाः ॥ धर्ता। वाज्रौवाओऽ२३४वा ॥ पुरूऽ५ष्टुताः ॥ श्रीः ॥ तुवंवलस्यगोमताः ॥ अपावरद्रिवोबाऽ२३इलाम् । तूवान्देवाऽ३ः । आबिभ्यूऽ२३४षाः ॥ तुज्या। मानौवाओऽ२३४वा ॥ सआऽ५विषूः ॥ श्रीः ॥ इन्द्रमीशानमोजसा ॥ अभिस्तोमैरनूषाऽ२३ता । साहस्रंयाऽ३ । स्याराताऽ२३४याः ॥ उता। वासौवाओऽ२३४वा ॥ तिभूऽ५यसीः। होऽ५इ ॥डा॥
दी. १७. उत् . ना. मा. १८. यै. ॥१७३॥

[सम्पाद्यताम्]

टिप्पणी

मारुतम् (ग्रामगेयः)

छन्दोमानां तृतीयमुक्थ्यः -- पुरां भिन्दुर्युवा कविरमितौजा अजायत् इन्द्रो विश्वस्य कर्मणो धर्ता वज्री पुरुष्टुत"इति धृत्या एव.......मारुतं भवति मासा वै रश्मयो मरुतो रश्मयो मरुतो वै देवानां भूयिष्ठा भूयिष्ठा असामेति वै सत्त्रमासते भूयिष्ठा एव भवन्त्यृतुमन्ति पूर्वाण्यहान्यनृतवः छन्दोमा यदेतत् साम भवति तेनैतान्यहान्यहान्यृतुमन्ति भवन्ति - तांब्रा. १४.१२

पुरां भिन्दुर् युवा कविर् इत्य् एव वलम् अभिनत्। त्वं वलस्य गोमतो ऽपावर् अद्रिवो बिलम् इत्य् एतया बिलम् अपावृणोत्॥ - जैब्रा. ३.२३४

विश्वामित्रजमदग्नी, इमा इक्ष्वाकूणां गा विन्दध्वम् इति। तद् धेमाव् अपरतारे सन्तो शुश्रुवतुः। तौ होचतुर् भरतान् - इन्द्रो वै नाव् अयं ह्वयतीमा इक्ष्वाकूणां गा विन्दध्वम् इति। एत्, गा विन्दामहा इति। तौ वै न इमं गाधं कुरुतम् इति। ते वै युङ्ध्वम् इति। ते ह युयुजिरे। ते हाभ्यवेयुः। तौ होचतुर् - या वः पल्पूलन्यस् ता अपास्यतेति। ता हापासुः। अथ ह राजन्यबन्धुर् यस्मै पल्पूलन्य् आस, तां हाधो ऽक्षं बबन्ध। ताव् अकामयेतां - गाधो नाव् अयं स्याद् इति। स एतद् विश्वामित्रस् सामापश्यत्। तेनास्तुत। पुरां भिन्दुर् युवा कविर् अमितौजा अजायत। इन्द्रो विश्वस्य कर्मणो धर्ता वज्री पुरुष्टुतः॥ त्वं वलस्य गोमतो ऽपावर् अद्रिवो बिलम्। त्वां देवा अबिभ्युषस् तुज्यमानास आविषुः॥ तवाहं शूर रातिभिः प्रत्य् आयं सिन्धुम् आवदन्। इत्य् एता आवदन्तौ प्रत्यैताम्। - जैब्रा. ३.२३८