सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ८/वैयश्वम्
उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः ।
सत्राच्या मघवान्त्सोमपीतये धिया शविष्ठ आ गमत् ॥१२३३ ॥ ऋ. ८.६१.१
तं हि स्वराजं वृषभं तमोजसा धिषणे निष्टतक्षतुः ।
उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मनः ॥ १२३४ ॥
टिप्पणी
उभयं शृणवच् च न इत्य् उभे एवैतेन रूपे समारभते यच् च पृष्ठ्यस्य षडहस्य यद् उ च छन्दोमानाम्। तस्माद् उ हैतस्यां द्वयोस् संयजमानयोर् ब्रह्मसाम कुर्यात्॥जैब्रा ३.२२० ॥
तासु वैयश्वम्। व्यश्वं वै साकमश्वं गर्भे सन्तं गयः पितृव्यः पर्यपश्यद् - ऋषिर् जनिष्यत इति। तं जातं परास्ताव् ऽब्रवीज् - जातक्षेणो ऽजनीति। तं छाया नाजहात्। स्वाव् अस्मा अङ्गुष्ठो प्रास्नुताम्। तद् अस्मा आचक्षत यं वै कुमारं परास्ताव् ऽब्रवीर्, अयं वै स जीवतीति। तं मुसलम् आदायाभ्यैद् धनिष्यन्। सो ऽकामयतोद् इत इयां, गातुं नाथं विन्देयेति। स एतत् सामापश्यत्। तद् अभ्यगायत। तद् अस्य मुसलं प्रत्यक् पतित्वा शिरो ऽछिनत्। तद् एतद् भ्रातृव्यहा गातुविन् नाथवित् साम। हन्ति द्विषन्तं भ्रातृव्यं , विन्दते गातुं नाथं य एवं वेद। यद् उ व्यश्वो ऽपश्यत्, तस्माद् वैयश्वम् इत्य् आख्यायते। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठन्ति॥जैब्रा ३.२२१ (क्षेणो - क्षयणो)
उभयं शृणवच्च न इति। यच्च पृष्ठानि यानि चैतान्यहानि तेषामुभयेषां सन्तत्यै। तासु वैयश्वम्। व्यश्वो वा एतेनाङ्गिरसोऽञ्जसा स्वर्गं लोकमपश्यत् स्वर्गस्य लोकस्यानुख्यात्या एतत् पृष्ठानामन्ततः क्रियते स्तोमः। - तांब्रा १४.१०.