सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ९/ऐषिरम्

विकिस्रोतः तः
ऐषिरम्
ऐषिरम्

अभि द्युम्नं बृहद्यश इषस्पते दीदिहि देव देवयुं ।
वि कोशं मध्यमं युव ।। १०११ ।। ऋ. ९.१०८.९
आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर्न विश्पतिः ।
वृष्टिं दिवः पवस्व रीतिमपो जिन्वन्गविष्टये धियः ।। १०१२ ।।

[सम्पाद्यताम्]

टिप्पणी

अभि द्युम्नं बृहद् यश इत्य् अभीति भवति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः। जिन्वन् गविष्टये धिय इति गोमतीः पशुमतीर् भवन्ति, पशूनाम् एवावरुद्ध्यै। पशवो हि छन्दोमाः॥ तास्व् ऐषिरं वायोर् आर्ष्यम्। वायुर् वा इषिरः। यद् वै सत्रिणां सत्रे विनश्यते तद् एभ्यो वायुर् अपिरोहयति। प्राणो वै वायुः। प्राण एवैभ्यस् तत् भिषज्यति। भेषजम् एवैतेन प्रायश्चित्तिं कुर्वत। जैब्रा ३.२२७