सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ८/उद्वद्भार्गवम्

विकिस्रोतः तः
उद्वद्भार्गवम्

१२
धर्त्ता दिवः पवते कृत्व्यो रसो दक्षो देवानामनुमाद्यो नृभिः |
हरिः सृजानो अत्यो न सत्वभिर्वृथा पाजांसि कृणुषे नदीष्वा || १२२८ ||
शूरो न धत्त आयुधा गभस्त्योः स्वा३ः सिषासन्रथिरो गविष्टिषु |
इन्द्रस्य शुष्ममीरयन्नपस्युभिरिन्दुर्हिन्वानो अज्यते मनीषिभिः || १२२९ ||
इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्वा विश |
प्र नः पिन्व विद्युदभ्रेव रोदसी धिया नो वाजां उप माहि शश्वतः || १२३० ||





१४ उद्वद्भार्गवम् ।। भृगुः । जगती । पवमानस्सोमः ।।

धर्तादाइवाऽ२३ः । पवताइकाऽ२३ । त्वीयोरसाः ।। दक्षोदाइवाऽ२३ । नामनूमाऽ२३ । दीयोनृभाइः ।। हरिस्सार्जाऽ२३ । नोअताइयोऽ२३ । नासत्वभाइः । । वृथापाजाऽ२३ । सिकृणूषाऽ२३इ । नादीषुवाऽ३१उ ।।श्रीः।। शूरोनाधाऽ२३ । तआयूधाऽ२३ । गाभस्तियोः ।। सुवस्साइषाऽ२३ । सन्रथाइरोऽ२३ । गाविष्टिषू ।। इन्द्रस्याशूऽ२३ ष्ममीरायाऽ२३न् । आपस्युभाइः ।। इन्दुर्हाइन्वाऽ२३ । नोअज्याताऽ२३इ । मानीषिभाऽ३१उ ।।श्रीः।। इन्द्रस्यासोऽ२३ । मपवामाऽ२३ । नाऊर्मिणा ।। तविष्यामाऽ२३ । णोजठाराऽ२३इ । षूआविशा।। प्रनᳲपाइन्वाऽ२३ । विद्युदाभ्रेऽ२३ । वारोदसाइ ।। धियानोवाऽ२३ । जाꣳ उपामाऽ२३ । हीशश्वताऽ३१उ”वाऽ२३४५। ।।

दी. ३२ उत्. ३६ मा. ३१ च ।।१५४।।