सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ७/वीङ्कम्

विकिस्रोतः तः
वीङ्कम्.

यदिन्द्र चित्र म इह नास्ति त्वादातमद्रिवः ।
राधस्तन्नो विदद्वस उभयाहस्त्या भर ॥ ११७२ ॥ ऋ. ५.३९.१
यन्मन्यसे वरेण्यमिन्द्र द्युक्षं तदा भर ।
विद्याम तस्य ते वयमकूपारस्य दावनः ॥ ११७३ ॥
यत्ते दिक्षु प्रराध्यं मनो अस्ति श्रुतं बृहत् ।
तेन दृढा चिदद्रिव आ वाजं दर्षि सातये ॥ ११७४ ॥

[सम्पाद्यताम्]

टिप्पणी

वीङ्कानि (ग्रामगेयः)

वीङ्कं भवति च्यवनो वै दाधीचोऽश्विनोः प्रिय आसीत् सोऽजीर्यत् तमेतेन साम्नाप्सु व्यैङ्कयतां तं पुनर्युवानमकुरुतां तद्वाव तौ तर्ह्यकामयेतां कामसनि साम वीङ्कं काममेवैतेनावरुन्धे। चतुर्विंश एव स्तोमो भवति तेजसे ब्रह्मवर्चसाय - तांब्रा. १४.६.१०