सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ७/गौरीवितम्

विकिस्रोतः तः
गौरीवितम्.
गौरीवितम्.

१८
पुरोजिती वो अन्धसः सुताय मादयित्नवे ।
अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यं ॥ ६९७ ॥ ऋ. ९.१०१.१
यो धारया पावकया परिप्रस्यन्दते सुतः ।
इन्दुरश्वो न कृत्व्यः ॥ ६९८॥
तं दुरोषमभी नरः सोमं विश्वाच्या धिया ।
यज्ञाय सन्त्वद्रयः ॥ ६९९ ॥




१३ गौरीवितम्।। गौरीवितिः। अनुष्टुप्। पवमानस्सोमः।

पुरः । जिताऽ३इ । वोअन्धसाः ।। सुतायमादयित्नवाऽ२३इ । आपश्वानाऽ३१२३म् । श्नथाऽ५इष्टना ।। साखायोदाऽ३१२३इ। ।। घजोवा । ह्वाऽ५योऽ६”हाइ ।। ।।श्रीः।। सखा । योदाऽ३इ । घजिह्वियाम् ।। योधारयापावकयाऽ२३ । पारिप्रस्याऽ३१२३ । दताऽ५इसुताः ।। आइन्दुरश्वाऽ३१२३ः । नकोवा । त्वाऽ५योऽ६”हाइ ।। श्रीः ।। इन्दुः । अश्वोऽ३ । नकृत्वियाः ।। तन्दुरोषमभीनराऽ२३ः । सोमंविश्वाऽ३१२३ । चियाऽ५धिया ।। याज्ञायसाऽ३१२३ ।। तुवोवा । द्राऽ५योऽ६”हाइ ।।

दी. १५. उत् न. मा.२० वौ. ।।१३३।।

[सम्पाद्यताम्]

टिप्पणी

गौरी उपरि पौराणिकसंदर्भाः

गौरिवीति/गौरी उपरि टिप्पणी

अथैता भवन्ति पुरोजिती वो अन्धस इति। पुरस्ताद् ध वा एताः पाप्मानं जयन्तीः, पुरस्तात् पाप्मानम् अपघ्नत्यो यन्ति। जितं ह वा एताभिर्, विजितम् अन्ववस्यन्ति। अथो यथान्यौ नवतरौ चक्राव् उपास्येद् एवम् एव एताम् अनुष्टुभं त्र्यहमुखेषु पर्याहरन्ति, स्वर्गस्य लोकस्य समष्ट्यै। तासु गौरिवीतम् उक्तब्राह्मणम्॥ - जैब्रा ३.१९५