सामग्री पर जाएँ

सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.8 अष्टमप्रपाठकः/2.8.2 द्वितीयोऽर्द्धः

विकिस्रोतः तः


पन्यंपन्यमित्सोतार आ धावत मद्याय ।
सोमं वीराय शूराय ॥ १६५७ ॥
एह हरी ब्रह्मयुजा शग्मा वक्षतः सखायं ।
इन्द्रं गीर्भिर्गिर्वणसं ॥ १६५८ ॥
पाता वृत्रहा सुतमा घा गमन्नारे अस्मत् ।
नि यमते शतमूतिः ॥ १६५९ ॥


आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः ।
न त्वामिन्द्राति रिच्यते ॥ १६६० ॥
विव्यक्थ महिना वृषन्भक्षं सोमस्य जागृवे ।
य इन्द्र जठरेषु ते ॥ १६६१ ॥
अरं त इन्द्र कुक्षये सोमो भवतु वृत्रहन् ।
अरं धामभ्य इन्दवः ॥ १६६२ ॥
आष्टादंष्ट्रम् पूर्वम्


जराबोध तद्विविड्ढि विशेविशे यज्ञियाय ।
स्तोमं रुद्राय दृशीकं ॥ १६६३ ॥
स नो महां अनिमानो धूमकेतुः पुरुश्चन्द्रः ।
धिये वाजाय हिन्वतु ॥ १६६४ ॥
स रेवां इव विश्पतिर्दैव्यः केतुः शृणोतु नः ।
उक्थैरग्निर्बृहद्भानुः ॥ १६६५ ॥
जराबोधीयम्



तद्वो गाय सुते सचा पुरुहूताय सत्वने ।
शं यद्गवे न शाकिने ॥ १६६६ ॥
न घा वसुर्नि यमते दानं वाजस्य गोमतः ।
यत्सीमुपश्रवद्गिरः ॥ १६६७ ॥
कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत् ।
शचीभिरप नो वरत् ॥१६६८ ॥
मार्गीयवम्


इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदं ।
समूढमस्य पांसुले ॥ १६६९ ॥
त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः ।
अतो धर्माणि धारयन् ॥१६७० ॥
विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ।
इन्द्रस्य युज्यः सखा ॥ १६७१ ॥
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
दिवीव चक्षुराततं ॥ १६७२ ॥
तद्विप्रासो विपन्युवो जागृवांसः समिन्धते ।
विष्णोर्यत्परमं पदं ॥ १६७३ ॥
अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे ।
पृथिव्या अधि सानवि ॥ १६७४ ॥
वारवन्तीयम्


मो षु त्वा वाघतश्च नारे अस्मन्नि रीरमन् ।
आरात्ताद्व सधमादं न आ गहीह वा सन्नुप श्रुधि ॥ १६७५ ॥
इमे हि ते ब्रह्मकृतः सुते सचा मधौ न मक्ष आसते ।
इन्द्रे कामं जरितारो वसूयवो रथे न पादमा दधुः ॥ १६७६ ॥


अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत ।
पूर्वीरृतस्य बृहतीरनूषत स्तोतुर्मेधा असृक्षत ॥ १६७७ ॥
समिन्द्रो रायो बृहतीरधूनुत सं क्षोणी समु सूर्यं ।
सं शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रममन्दिषुः ॥ १६७८ ॥


इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे ।
नरे च दक्षिणावते देवाय सदनासदे ॥ १६७९ ॥
तं सखायः पुरूरुचं यूयं वयं च सूरयः ।
अश्याम वाजगन्ध्यं सनेम वाजपस्त्यं ॥ १६८० ॥
परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण ।
यो देवान्विश्वां इत्परि मदेन सह गच्छति ॥ १६८१ ॥


कस्तमिन्द्र त्वावसो मर्त्यो दधर्षति ।
श्रद्धा इत्तेमघवन्पार्ये दिवि वाजी वाजं सिषासति ॥ १६८२ ॥
मघोनः स्म वृत्रहत्येषु चोदय ये ददति प्रिया वसु ।
तव प्रणीती हर्यश्व सूरिभिर्विश्वा तरेम दुरिता ॥ १६८३ ॥

१०
एदु मधोर्मदिन्तरं सिञ्चाध्वर्यो अन्धसः ।
एवा हि वीर स्तवते सदावृधः ॥ १६८४ ॥
इन्द्र स्थातर्हरीणां न किष्टे पूर्व्यस्तुतिं ।
उदानंश शवसा न भन्दना ॥ १६८५ ॥
तं वो वाजानां पतिमहूमहि श्रवस्यवः ।
अप्रायुभिर्ज्ञेभिर्वावृधेन्यं ॥ १६८६ ॥

११
तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे ।
देवत्रा हव्यमूहिषे ॥ १६८७ ॥
विभूतरातिं विप्र चित्रशोचिषमग्निमीडिष्व यन्तुरं ।
अस्य मेधस्य सोम्यस्य सोभरे प्रेमध्वराय पूर्व्यं ॥ १६८८ ॥
सौभरम्

१२
आ सोम सवानो अद्रिभिस्तिरो वाराण्यव्यया ।
जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दध्रिषे ॥ १६८९ ॥
स मामृजे तिरो अण्वानि मेष्यो मीड्वान्त्सप्तिर्न वाजयुः ।
अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिरृक्वभिः ॥ १६९० ॥

१३
वयमेनमिदा ह्योऽपीपेमेह वज्रिणं ।
तस्मा उ अद्य सवने सुतं भरा नूनं भूषत श्रुते ॥ १६९१ ॥
वृकश्चिदस्य वारण उरामथिरा वयुनेषु भूषति ।
सेमं न स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया ॥ १६९२ ॥

१४
इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः ।
तद्वां चेति प्र वीर्यं ॥ १६९३ ॥
इन्द्राग्नी अपसस्परि उप प्र यन्ति धीतयः ।
ऋतस्य पथ्या अनु ॥ १६९४ ॥
इन्द्राग्नी तविषाणि वां सधस्थानि प्रयांसि च ।
युवोरप्तूर्यं हितं ॥ १६९५ ॥

१५
क ईं वेद सुते सचा पिबन्तं कद्वयो दधे ।
अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्रयन्धसः ॥ १६९६ ॥
दाना मृगो न वारणः पुरुत्रा चरथं दधे ।
न किष्ट्वा नि यमदा सुते गमो महांश्चरस्योजसा ॥ १६९७ ॥
य उग्रः सन्ननिष्टृतः स्थिरो रणाय संस्कृतः ।
यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत् ॥१६९८ ॥

१६
पवमाना असृक्षत सोमाः शुक्रास इन्दवः ।
अभि विश्वानि काव्या ॥ १६९९ ॥
पवमाना दिवस्पर्यन्तरिक्षादसृक्षत ।
पृथिव्या अधि सानवि ॥ १७०० ॥
पवमानास आशवः शुभ्रा असृग्रमिन्दवः ।
घ्नन्तो विश्वा अप द्विषः ॥ १७०१ ॥

१७
तोशा वृत्रहणा हुवे सजित्वानापराजिता ।
इन्द्राग्नी वाजसातमा ॥ १७०२ ॥
प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः ।
इन्द्राग्नी इष आ वृणे ॥ १७०३ ॥
इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतं ।
साकमेकेन कर्मणा ॥ १७०४ ॥

१८
उप त्वा रण्वसन्दृशं प्रयस्वन्तः सहस्कृत ।
अग्ने ससृज्महे गिरः ॥ १७०५ ॥
उप च्छायामिव घृणेरगन्म शर्म ते वयं ।
अग्ने हिरण्यसन्दृशः ॥ १७०६ ॥
य उग्र इव शर्यहा तिग्मशृङ्गो न वंसगः ।
अग्ने पुरो रुरोजिथ ॥ १७०७ ॥

१९
ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिं ।
अजस्रं घर्ममीमहे ॥ १७०८ ॥
य इदं प्रतिपप्रथे यज्ञस्य स्वरुत्तिरन् ।
ऋतूनुत्सृजते वशी ॥ १७०९ ॥
अग्निः प्रियेषु धामसु कामो भूतस्य भव्यस्य ।
सभ्राडेको वि राजति ॥ १७१० ॥