सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ७/सन्तनि
वृषा पवस्व धारया मरुत्वते च मत्सरः ।
विश्वा दधान ओजसा ।। ८०३ ।। ऋ. ९.६५.१०
तं त्वा धर्त्तारमोण्यो३ः पवमान स्वर्दृशम् ।
हिन्वे वाजेषु वाजिनं ।। ८०४ ।।
अया चित्तो विपानया हरिः पवस्व धारया ।
युजं वाजेषु चोदय ।। ८०५ ।।
टिप्पणी
वृषा पवस्व धारयेति माध्यन्दिनस्य पवमानस्य वृषण्वतीर् गायत्र्यो भवन्ति बृहतो रूपम्। बार्हतम् एतद् अहः। मरुत्वते च मत्सर इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति। तं त्वा धर्तारम् ओण्योर् इति विभ्रष्टम् इवैतद् अहर् यत् सप्तमम्। तद् यत् तं त्वा धर्तारम् इत्य् अह्न् एव धृत्यै। तासु गायत्रम् उक्तब्राह्मणम्। अथ सन्तनि। यथा ह वै व्योकसौ विच्छिद्य व्युत्क्रामत एवं षष्ठं च सप्तमं चाहनी व्युच्छिद्य व्युत्क्रामतः। स यथाश्वं संयोजनेन संयुज्याद् एवम् अत्र सन्तति। तस्य सकृत् प्रस्तौति, त्रिः प्रतिहरति, त्रिर् निधनम् उपयन्ति। तत् सप्त संपद्यन्ते सप्तमस्याह्नो रूपं, सप्तरात्रस्य सन्तत्या अव्यवच्छेदाय। - जैब्रा ३.१८२