सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ७/प्रवद्भार्गवम्

विकिस्रोतः तः
प्रवद्भार्गवम्

प्रो꣢꣯अया꣡꣯साइत् । इ꣢न्दुरि꣡न्द्रा । स्याऽ᳒२᳒नि꣡ष्कृताम् । स꣢खा꣯स꣡ख्यूः । न꣢प्र꣡मिना। ता ऽ᳒२᳒इस꣡ङ्गिराम् । म꣢र्यइ꣡वा । यु꣢वति꣡भाइः। साऽ२म꣡र्षताइ। सो꣢꣯मᳲक꣡ला । शे꣢꣯श꣡तया । मा ऽ᳒२᳒ना꣡꣯पथा꣢ऽ३१उ ॥ [१]प्र꣢वो꣯धि꣡यो। म꣢न्द्रयु꣡वो। वा ऽ᳒२᳒इप꣡न्युवाः। प꣢नस्यु꣡वाः । सं꣢व꣡रणाइ । षू ऽ᳒२᳒व꣡क्रमूः । ह꣢रिङ्क्री꣡꣯डा । त꣢म꣡भ्यनू । षा ऽ᳒२᳒त꣡स्तुभाः । अ꣢भिधे꣡꣯ना । व꣢ᳲप꣡यसाइत् । आ ऽ᳒२᳒शि꣡श्रयू꣢ऽ३रा꣡उ ॥ [२] आ꣢꣯नस्सो꣡꣯मा । सं꣢य꣡तंपाइ । प्यू ऽ᳒२᳒षी꣡꣯मिषाम् । इ꣢न्दो꣯प꣡वा। स्व꣢प꣡वमा । ना ऽ᳒२᳒ऊ꣡꣯र्मिणा। या꣢꣯नो꣯दो꣡꣯हा। ते꣢꣯त्रि꣡रहान् । आ ऽ᳒२᳒स꣡श्चुषाइ । क्षु꣢मद्वा꣡꣯जा। व꣢न्म꣡धुमात् । सू ऽ᳒२᳒वी꣡꣯रिया꣢ऽ३मा꣡उ। वाऽ२३꣡४꣡५꣡॥ [३]

प्रवद्भार्गवम्.


प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतं सखा सख्युर्न प्र मिनाति सङ्गिरं ।
मर्य इव युवतिभिः समर्षति सोमः कलशे शतयाम्ना पथा ॥ ११५२
प्र वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवरणेष्वक्रमुः ।
हरिं क्रीडन्तमभ्यनूषत स्तुभोऽभि धेनवः पयसेदशिश्रयुः ॥ ११५३ ॥
आ नः सोम संयतं पिप्युषीमिषमिन्दो पवस्व पवमान ऊर्मिणा ।
या नो दोहते त्रिरहन्नसश्चुषी क्षुमद्वाजवन्मधुमत्सुवीर्यं ॥ ११५४ ॥




प्रोअयासाइत् । इन्दुरिन्द्रा । स्या२निष्कृताम् । सखासख्युः । नप्रमिनाता२इसङ्गिराम् ।
मर्यइवा । युवतिभाइः। सा२मर्षताइ। सोमःकला । शेशतया । मा२नापथा३१३ ॥ [१]
प्रवोधियो। मन्द्रयुवो। वा२इपन्युवाः। पनस्युवाः । संवरणाइ । षू२वक्रमूः ।
हरिङ्क्रीडा । तमभ्यनू । षा२तस्तुभाः । अभिधेना । वःपयसाहत् । आ२शिश्रयू३राउ ॥ [२]
आनःसोमा । संयतम्पायि । प्यू२षीमिषाम् । इन्दोपवा। स्वपवमा । ना२ऊर्मिणा।
यानोदोहा। तेत्रिरहान् । आ२सश्चुषाइ । क्षुमद्वाजा। वन्मधुमात् । सू२वीरिया३माउ। वा२३४५॥ [३]

--[ग्राम १६.२.१६; ऊह ४.१.७] (ऋग्वेदः ९.८६.१६)


[सम्पाद्यताम्]

टिप्पणी

प्रायणीये प्रस्तोतृसाम। उदयनीये उद्वद्भार्गवम्

प्रो अयासीद् इन्दुर् इन्द्रस्य निष्कृतम् इति प्रवद् ऋचा च साम्ना चैतद् अहः प्रणयन्ति। उभौ वर्णौ समृद्ध्यै। प्रेति भृगवः प्रेत्य् अङ्गिरसः प्रेत्य् आदित्या स्वर्गं लोकम् आरोहन्। प्रेत्य् एवैतेन स्वर्गं लोकम् आरोहन्ति॥ जैब्रा ३.१८८

सप्तमेअहनि माध्यन्दिनपवमानः- प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतम्"इति प्रवत्यो भवन्ति प्रणिनीषेण्यमिव ह्येतदहः – तांब्रा १४.३.४