सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/दशरात्रपर्व/द्वितीयादशतिः/रेवत्यः

विकिस्रोतः तः
रेवत्यः.
रेवत्यः

इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः ।
अर्कस्य योनिमासदं ।। १०७६ ।। ऋ. ९.६४.२२
तं त्वा विप्रा वचोविदः परिष्कृण्वन्ति धर्णसिं ।
सं त्वा मृजन्त्यायवः ।। १०७७ ।।
रसं ते मित्रो अर्यमा पिबन्तु वरुणः कवे ।
पवमानस्य मरुतः ।। १०७८ ।।

७. रेवत्यः ।। प्रजापतिः । गायत्री । पवमानस्सोमः ।।

हावीन्द्रा। । । येन्दाउ । इहा । मरुत्वताऽ२इ । हाऽ३१उवाऽ२३ । ईऽ३४डा ।। पवाऽ२स्वमा ।। इहा । मधुमत्तमाऽ२ः । हाऽ३१उवाऽ२३ । ईऽ३४डा ।। अर्काऽस्ययो ।। इहा । निमासदाऽ२म् । हाऽ३१उवाऽ२३ ।
ईऽ३४डा ।। श्रीः ।। हाउतान्त्वा ।। विप्राः । इहा । वचोविदाऽ२ः । हाऽ३१उवाऽ२३ । ईऽ३४डा ।। पराऽ२इष्कृण्वा ।। इहा । तिधर्णसाऽ२इम् । हाऽ३१उवाऽ२३ । ईऽ३४डा ।। सन्त्वाऽ२मृजा ।। इहा । तिआयवाऽ२ः । हाऽ३१उवाऽ२३ । ईऽ३४डा ।। श्रीः ।। हाउरासाम् ।। तेमाइ। । इहा । त्रोअर्यमाऽ२ । हाऽ३१उवाऽ२३ । ईऽ३४डा ।। पिबाऽ२न्तुवा ।। इहा । रुणᳲ कवाऽ२इ । हाऽ३१उवाऽ२३ । ईऽ३४डा ।। पवाऽ२माना ।। इहा । स्यमरुताऽ२ः । हाऽ३१उवाऽ२३ । ईऽ३४डा ।।

दी. ७. उत् १८. मा. २७. जे. ।।१७।।

[सम्पाद्यताम्]

टिप्पणी

अथ रेवतयः। पशवो वै सिमाः। पशवो रेवतयः। पशव एतद् अहः। पशुमन्त एव भवन्त्य् एनेन तुष्टुवानाः। शक्वर्यो वा इदं तेजसा प्रातपन्। तेजसा नाभिमृश्या आसन्। तासां देवाः प्रदाहाद् अबिभयुः। ते ऽब्रुवन् सर्वं वा इदम् इमाः प्रधक्ष्यन्ति। एतेदम् आसां शमयामेति। तासां द्वे एकस्यै पदे निरमिमतैकम् एकस्यै। यस्यै द्वे निरमिमत तद् एतां द्विपदां प्रत्युपादधुर्, यस्या एकं तद् एकपदाम्। सैवैषा त्रिपदा गायत्र्य् अभवत्। समानं वा एतच् छन्दः। तद् द्वेधा व्यौहन् भू्म्ने च शान्त्यै च। बहुः प्रजया पशुभिर् जायते य एवं वेद॥जैब्रा ३.१४३

पञ्चमाद् वै देवा अह्नष् षष्ठम् अहर् निरमिमत। तस्मा आयतनम् ऐच्छन्। तस्मै रेवतीर् एवायतनम् अविन्दन्। आयतनवान् भवति य एवं वेद। पशवो वै रेवतयः। आत्मा मध्यन्दिनः। तद् यद् रेवतीर् मध्यन्दिनम् अभि प्रत्याहरन्त्य् आत्मन्न् एवैतत् पयः प्रतिष्ठापयन्ति। रेतो वै रेवतयः। आत्मा मध्यन्दिनः। तद् यद् रेवतीर् मध्यन्दिनम् अभि प्रत्याहरन्त्य् आत्मन्न् एवैतत् रेतः प्रतिष्ठापयन्ति। रेतो वै रेवतयः। रेत उ रैवतं साम। वज्रा ह खलु वा एते यद् रैवतस्य साम्नो निधनानि। तद् यद् रेवतीषु रैवतं पृष्ठं कुर्युर् वज्रेण रेतो वीयुस् ता यत् पुरस्तात् पवमाने कुर्वन्ति, वज्रेण नेद् रेतो व्ययामेति॥जैब्रा ३.१४४

पयो वै रेवतयः। पशवः पञ्चमम् अहः। ता यद् अन्तर्हिता अन्येन साम्ना स्युर् अन्तर्हितं पयः पशुभ्य स्यात्। ता यद् अनन्तर्हिता भवन्ति तेन पयः पशुभ्यो ऽनन्तर्हितं भवति। - जैब्रा ३.१४५