ऋग्वेदः सूक्तं ९.६५

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ९.६५ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ९.६४ ऋग्वेदः - मण्डल ९
सूक्तं ९.६५
भृगुर्वारुणिर्जमदग्निर्भार्गवो वा।
सूक्तं ९.६६ →
दे. पवमानः सोमः। गायत्री।


हिन्वन्ति सूरमुस्रयः स्वसारो जामयस्पतिम् ।
महामिन्दुं महीयुवः ॥१॥
पवमान रुचारुचा देवो देवेभ्यस्परि ।
विश्वा वसून्या विश ॥२॥
आ पवमान सुष्टुतिं वृष्टिं देवेभ्यो दुवः ।
इषे पवस्व संयतम् ॥३॥
वृषा ह्यसि भानुना द्युमन्तं त्वा हवामहे ।
पवमान स्वाध्यः ॥४॥
आ पवस्व सुवीर्यं मन्दमानः स्वायुध ।
इहो ष्विन्दवा गहि ॥५॥
यदद्भिः परिषिच्यसे मृज्यमानो गभस्त्योः ।
द्रुणा सधस्थमश्नुषे ॥६॥
प्र सोमाय व्यश्ववत्पवमानाय गायत ।
महे सहस्रचक्षसे ॥७॥
यस्य वर्णं मधुश्चुतं हरिं हिन्वन्त्यद्रिभिः ।
इन्दुमिन्द्राय पीतये ॥८॥
तस्य ते वाजिनो वयं विश्वा धनानि जिग्युषः ।
सखित्वमा वृणीमहे ॥९॥
वृषा पवस्व धारया मरुत्वते च मत्सरः ।
विश्वा दधान ओजसा ॥१०॥
तं त्वा धर्तारमोण्योः पवमान स्वर्दृशम् ।
हिन्वे वाजेषु वाजिनम् ॥११॥
अया चित्तो विपानया हरिः पवस्व धारया ।
युजं वाजेषु चोदय ॥१२॥
आ न इन्दो महीमिषं पवस्व विश्वदर्शतः ।
अस्मभ्यं सोम गातुवित् ॥१३॥
आ कलशा अनूषतेन्दो धाराभिरोजसा ।
एन्द्रस्य पीतये विश ॥१४॥
यस्य ते मद्यं रसं तीव्रं दुहन्त्यद्रिभिः ।
स पवस्वाभिमातिहा ॥१५॥
राजा मेधाभिरीयते पवमानो मनावधि ।
अन्तरिक्षेण यातवे ॥१६॥
आ न इन्दो शतग्विनं गवां पोषं स्वश्व्यम् ।
वहा भगत्तिमूतये ॥१७॥
आ नः सोम सहो जुवो रूपं न वर्चसे भर ।
सुष्वाणो देववीतये ॥१८॥
अर्षा सोम द्युमत्तमोऽभि द्रोणानि रोरुवत् ।
सीदञ्छ्येनो न योनिमा ॥१९॥
अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः ।
सोमो अर्षति विष्णवे ॥२०॥
इषं तोकाय नो दधदस्मभ्यं सोम विश्वतः ।
आ पवस्व सहस्रिणम् ॥२१॥
ये सोमासः परावति ये अर्वावति सुन्विरे ।
ये वादः शर्यणावति ॥२२॥
य आर्जीकेषु कृत्वसु ये मध्ये पस्त्यानाम् ।
ये वा जनेषु पञ्चसु ॥२३॥
ते नो वृष्टिं दिवस्परि पवन्तामा सुवीर्यम् ।
सुवाना देवास इन्दवः ॥२४॥
पवते हर्यतो हरिर्गृणानो जमदग्निना ।
हिन्वानो गोरधि त्वचि ॥२५॥
प्र शुक्रासो वयोजुवो हिन्वानासो न सप्तयः ।
श्रीणाना अप्सु मृञ्जत ॥२६॥
तं त्वा सुतेष्वाभुवो हिन्विरे देवतातये ।
स पवस्वानया रुचा ॥२७॥
आ ते दक्षं मयोभुवं वह्निमद्या वृणीमहे ।
पान्तमा पुरुस्पृहम् ॥२८॥
आ मन्द्रमा वरेण्यमा विप्रमा मनीषिणम् ।
पान्तमा पुरुस्पृहम् ॥२९॥
आ रयिमा सुचेतुनमा सुक्रतो तनूष्वा ।
पान्तमा पुरुस्पृहम् ॥३०॥


सायणभाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

‘ हिन्वन्ति' इति त्रिंशदृचं पञ्चमं सूक्तं वरुणपुत्रस्य भृगोरार्षं भार्गवस्य जमदग्नेर्वा गायत्रं पवमानसोमदेवताकम् । तथा चानुक्रम्यते-- हिन्वन्ति भृगुर्वारुणिर्जमदग्निर्वा ' इति । गतो विनियोगः ॥


हि॒न्वंति॒ सूर॒मुस्र॑यः॒ स्वसा॑रो जा॒मय॒स्पतिं॑ ।

म॒हामिंदुं॑ मही॒युवः॑ ॥१

हि॒न्वन्ति॑ । सूर॑म् । उस्र॑यः । स्वसा॑रः । जा॒मयः॑ । पति॑म् ।

म॒हाम् । इन्दु॑म् । म॒ही॒युवः॑ ॥१

हिन्वन्ति । सूरम् । उस्रयः । स्वसारः । जामयः । पतिम् ।

महाम् । इन्दुम् । महीयुवः ॥१

अत्र सर्वत्र पवमानः सोमः स्तूयते । तत्रादावृषिः सोमं प्रत्याह । मदीया अङ्गुलयस्त्वामभिषोतुं प्रेरयन्तीति । तदुच्यते । “स्वसारः । अङ्गुलिनामैतत् । सुष्ठु कर्मसु प्रेर्यन्त ऋत्विग्भिरिति स्वसारः । “जामयः एकस्मात्पाणेरुत्पन्नत्वात् परस्परं बन्धुभूताः “उस्रयः कर्मार्थं निवसन्त्यः । सर्वत्र गन्त्र्य इत्यर्थः । तादृश्योऽङ्गुलयः “महीयुवः त्वदभिषवं कामयमानाः सत्यः “सूरं सुवीर्यं सोमे पीते वीर्यं भवतीति शोभनवीर्यकारणं वा सर्वेषां कर्मणि प्रेरकं वा तादृशं “पतिं सर्वस्य स्थावरजङ्गमजातस्य स्वामिनं यस्माद्देवार्थमिज्यते अत एव “महां देवेभ्यो दीयमानत्वेन महान्तं महनीयं वा “इन्दुं ग्रहेषु स्यन्दमानं सोमं “हिन्वन्ति प्रेरयन्ति । ‘हि वर्धनगत्योः' । स्वादिः ॥


पव॑मान रु॒चारु॑चा दे॒वो दे॒वेभ्य॒स्परि॑ ।

विश्वा॒ वसू॒न्या वि॑श ॥२

पव॑मान । रु॒चाऽरु॑चा । दे॒वः । दे॒वेभ्यः॑ । परि॑ ।

विश्वा॑ । वसू॑नि । आ । वि॒श॒ ॥२

पवमान । रुचाऽरुचा । देवः । देवेभ्यः । परि ।

विश्वा । वसूनि । आ । विश ॥२

हे “पवमान दशापवित्रेण पूयमान यद्वा पुनान शुद्ध सोम “रुचारुचा। ‘रुच दीप्तौ । सर्वेण तेजसा "देवः दीप्यमानस्त्वं “देवेभ्यः “परि देवेभ्यः सकाशात् "विश्वा व्याप्तानि सर्वाणि बहूनि “वसूनि धनानि अस्माकम् “आ “विश प्रापय । यद्वा। देवेभ्यस्तदर्थं सर्वाणि वसूनि निवासस्थानानि ग्रहादीनि आ विश समन्तात् प्रविश ॥


आ प॑वमान सुष्टु॒तिं वृ॒ष्टिं दे॒वेभ्यो॒ दुवः॑ ।

इ॒षे प॑वस्व सं॒यतं॑ ॥३

आ । प॒व॒मा॒न॒ । सु॒ऽस्तु॒तिम् । वृ॒ष्टिम् । दे॒वेभ्यः॑ । दुवः॑ ।

इ॒षे । प॒व॒स्व॒ । स॒म्ऽयत॑म् ॥३

आ । पवमान । सुऽस्तुतिम् । वृष्टिम् । देवेभ्यः । दुवः ।

इषे । पवस्व । सम्ऽयतम् ॥३

हे “पवमान पूयमान पुनान वा सोम “सुष्टुतिं शोभनस्तुतियुक्तां “वृष्टिं “देवेभ्यः देवानां “दुवः । 'सुपां सुलुक्° ' इति चतुर्थ्यां लुक् । दुवसे परिचरणाय “आ “पवस्व आगमय । त्वं यथा मदीयया स्तुत्या वृष्टिर्भविष्यति तथा कुर्वित्यर्थः । किं चास्माकम् “इषे अन्नार्थं च “संयतं सम्यगस्मान् संगच्छन्तीं वृष्टिं कुरु । यद्वा । दुवः परिचर्यामभिलक्ष्य क्रियमाणां सुष्टुतिं शोभनस्तुतिरूपां वृष्टिम् । बहुस्तुतिमित्यर्थः । एतां देवेभ्यः प्रापय ॥


वृषा॒ ह्यसि॑ भा॒नुना॑ द्यु॒मंतं॑ त्वा हवामहे ।

पव॑मान स्वा॒ध्यः॑ ॥४

वृषा॑ । हि । असि॑ । भा॒नुना॑ । द्यु॒ऽमन्त॑म् । त्वा॒ । ह॒वा॒म॒हे॒ ।

पव॑मान । सु॒ऽआ॒ध्यः॑ ॥४

वृषा । हि । असि । भानुना । द्युऽमन्तम् । त्वा । हवामहे ।

पवमान । सुऽआध्यः ॥४

हे सोम त्वं “वृषा अभिमतफलानां वर्षिता “असि “हि भवसि खलु । तस्मात् हे “पवमान पूयमान पुनान वा सोम "स्वाध्यः शोभनकर्माणः सुष्ठु ध्यानवन्तो वा वयं “भानुना तेजसा “द्युमन्तं दीप्तिमन्तम् । अतिशयेन तेजस्विनमित्यर्थः । स्तुतिमन्तं वा “त्वा त्वां “हवामहे यज्ञेष्वाह्वयामहे ॥


आ प॑वस्व सु॒वीर्यं॒ मंद॑मानः स्वायुध ।

इ॒हो ष्विं॑द॒वा ग॑हि ॥५

आ । प॒व॒स्व॒ । सु॒ऽवीर्य॑म् । मन्द॑मानः । सु॒ऽआ॒यु॒ध॒ ।

इ॒हो इति॑ । सु । इ॒न्दो॒ इति॑ । आ । ग॒हि॒ ॥५

आ । पवस्व । सुऽवीर्यम् । मन्दमानः । सुऽआयुध ।

इहो इति । सु । इन्दो इति । आ । गहि ॥५

हे "स्वायुध । यज्ञे स्फ्यकपालादीनि दशायुधानीत्यभिधीयन्ते । शोभनानि तानि यस्य स तथोक्तः। यद्वा । धनुरादीन्यायुधानि यस्य सः । तादृश हे सोम त्वं “मन्दमानः मोदमानः सन् । यद्वा। अन्तर्णीतण्यर्थः । देवान् स्वयं मादयन् । “सुवीर्यं शोभनवीर्योपेतं पुत्रादिकमस्माकम् “आ “पवस्व । पवतिर्गत्यर्थः । आप्रापय । किंच हे “इन्दो ग्रहेषु चमसेषु च क्षरणशील सोम “इहो । इह उ पदद्वयम् । उ इत्यवधारणे । इहैवास्मदीये यज्ञ एव सुष्ठु “आ “गहि आगच्छ ॥ ॥ १ ॥


यद॒द्भिः प॑रिषि॒च्यसे॑ मृ॒ज्यमा॑नो॒ गभ॑स्त्योः ।

द्रुणा॑ स॒धस्थ॑मश्नुषे ॥६

यत् । अ॒त्ऽभिः । प॒रि॒ऽसि॒च्यसे॑ । मृ॒ज्यमा॑नः । गभ॑स्त्योः ।

द्रुणा॑ । स॒धऽस्थ॑म् । अ॒श्नु॒षे॒ ॥६

यत् । अत्ऽभिः । परिऽसिच्यसे । मृज्यमानः । गभस्त्योः ।

द्रुणा । सधऽस्थम् । अश्नुषे ॥६

हे सोम “गभस्त्योः । बाहुनामैतत् । बभसति दीपयन्ति निर्मथ्नन्यात्भ्यामग्निमिति गभस्ती बाहू । तयोः “मृज्यमानः ताभ्यां शोध्यमानः सन् “अद्भिः । सोमसेचनार्थं चतुर्विधा आपः । ताभिर्वसतीवरीभिरेकधनाभिश्च “यत् यदा “परिषिच्यसे परितः सिच्यमानो भवसि तदानीं “द्रुणा दुममयेन पात्रेण गृह्यमाणः सन् “सधस्थम् । सह तिष्ठन्त्यत्रेति सधस्थं स्थानं ग्रहचमसादिकम् । “अश्नुषे प्राप्नोषि ॥


प्र सोमा॑य व्यश्व॒वत्पव॑मानाय गायत ।

म॒हे स॒हस्र॑चक्षसे ॥७

प्र । सोमा॑य । व्य॒श्व॒ऽवत् । पव॑मानाय । गा॒य॒त॒ ।

म॒हे । स॒हस्र॑ऽचक्षसे ॥७

प्र । सोमाय । व्यश्वऽवत् । पवमानाय । गायत ।

महे । सहस्रऽचक्षसे ॥७

हे स्तोतारः “पवमानाय दशापवित्रेण पूयमानाय पुनानाय वा “सोमाय “प्र “गायत प्रकर्षेण सामगानं कुरुत । अभिष्टुत वा । कथमिव । “व्यश्ववत् । यथा पूर्वं व्यश्वो नामर्षिः सोममगासीत् तद्वद्यूयमपि । कीदृशाय । “महे महते देवेभ्यः स्वीक्रियमाणत्वेन गुणादिभिर्वा महत्त्वयुक्ताय “सहस्रचक्षसे । प्रयोगबाहुल्यापेक्षमेतद्वचनम् । सहस्रसंख्याकस्तोत्रयुक्ताय । यद्वा । नानाविधैर्देवैरनेकधा द्रष्टव्याय सोमायेति ॥


यस्य॒ वर्णं॑ मधु॒श्चुतं॒ हरिं॑ हि॒न्वंत्यद्रि॑भिः ।

इंदु॒मिंद्रा॑य पी॒तये॑ ॥८

यस्य॑ । वर्ण॑म् । म॒धु॒ऽश्चुत॑म् । हरि॑म् । हि॒न्वन्ति॑ । अद्रि॑ऽभिः ।

इन्दु॑म् । इन्द्रा॑य । पी॒तये॑ ॥८

यस्य । वर्णम् । मधुऽश्चुतम् । हरिम् । हिन्वन्ति । अद्रिऽभिः ।

इन्दुम् । इन्द्राय । पीतये ॥८

हे अध्वर्य्वादयः “वर्णं शत्रूणां वारकम् । येनासौ पीयते तेन मत्तेन शत्रवः संप्रहार्यन्त इति शत्रुनिवारणसमर्थम् । “मधुश्चुतं मधुररसस्य च्यावयितार “हरिं हरितवर्णम् “इन्दुम् । इन्धेरेतद्रूपमत्रेष्यते । सर्वतो दीप्यमानम्।' उन्दी क्लेदने ' इत्यस्माद्वा । अभिषवानन्तरं पात्रेषु क्षरणशीलम् । “यस्य सोमस्य तव कारणमंशुम् “अद्रिभिः “हिन्वन्ति प्रेरयन्ति । अभिषुण्वन्तीत्यर्थः। “इन्द्राय “पीतये इन्द्रस्य पानाय । तदर्थमित्यर्थः ॥


तस्य॑ ते वा॒जिनो॑ व॒यं विश्वा॒ धना॑नि जि॒ग्युषः॑ ।

स॒खि॒त्वमा वृ॑णीमहे ॥९

तस्य॑ । ते॒ । वा॒जिनः॑ । व॒यम् । विश्वा॑ । धना॑नि । जि॒ग्युषः॑ ।

स॒खि॒ऽत्वम् । आ । वृ॒णी॒म॒हे॒ ॥९

तस्य । ते । वाजिनः । वयम् । विश्वा । धनानि । जिग्युषः ।

सखिऽत्वम् । आ । वृणीमहे ॥९

हे सोम “वाजिनः संभृतहविष्काः “वयं “विश्वा विश्वानि सर्वाणि व्याप्तानि वा शत्रुधनानि “जिग्युषः जितवतः “तस्य पूर्वोक्तलक्षणस्य प्रसिद्धस्य वा "ते तव “सखित्वं स्तुत्यस्तोतृलक्षणं सख्यम् “आ “वृणीमहे संभजामहे । अस्मभ्यं धनं देहीति संभजनं कुर्म इत्यर्थः ॥ जिग्युषः । ‘ जि जये' । लिटि क्वसौ ‘वस्वेकाजात्' इति नियमादिडभावः। 'सन्लिटोर्जेः' इत्यभ्यासादुत्तरस्य कवर्गादेशः । ङसि परतो वसोः संप्रसारणम् । क्वसुप्रत्ययस्वरः ॥


वृषा॑ पवस्व॒ धार॑या म॒रुत्व॑ते च मत्स॒रः ।

विश्वा॒ दधा॑न॒ ओज॑सा ॥१०

वृषा॑ । प॒व॒स्व॒ । धार॑या । म॒रुत्व॑ते । च॒ । म॒त्स॒रः ।

विश्वा॑ । दधा॑नः । ओज॑सा ॥१०

वृषा । पवस्व । धारया । मरुत्वते । च । मत्सरः ।

विश्वा । दधानः । ओजसा ॥१०

हे सोम त्वं “वृषा स्तोतॄणामभिमतफलस्य वर्षकः सन् “धारया त्वदीयया “पवस्व द्रोणकलशमागच्छ । पवतिर्गतिकर्मा । आगतस्त्वं यदास्माभिरिन्द्राय दीयसे तदा “मरुत्वते सहाया मरुतो यस्य सन्ति तस्मा इन्द्राय “मत्सरः मदकरः “च भव। कीदृशः । “विश्वा विश्वानि सर्वाणि व्याप्तानि वा धनानि “ओजसा आत्मीयेन बलेन युक्तः सन् स्तोतृभ्यस्तानि “दधानः प्रयच्छन् । त्वं मादयिता भवेति समन्वयः ॥ ॥ २ ॥


तं त्वा॑ ध॒र्तार॑मो॒ण्योः॒३॒॑ पव॑मान स्व॒र्दृशं॑ ।

हि॒न्वे वाजे॑षु वा॒जिनं॑ ॥११

तम् । त्वा॒ । ध॒र्तार॑म् । ओ॒ण्योः॑ । पव॑मान । स्वः॒ऽदृश॑म् ।

हि॒न्वे । वाजे॑षु । वा॒जिन॑म् ॥११

तम् । त्वा । धर्तारम् । ओण्योः । पवमान । स्वःऽदृशम् ।

हिन्वे । वाजेषु । वाजिनम् ॥११

हे “पवमान पूयमान पुनान वा हे सोम “ओण्योः। द्यावापृथिवीनामैतत् । तयोः “धर्तारं धारकमत एव "स्वर्दृशं सर्वस्य सूर्यस्य वा द्रष्टारं सर्वैर्देवैर्द्रष्टव्यं वा “वाजिनं बलवन्तं तं पूर्वोक्तगुणप्रसिद्धं “त्वा त्वां “वाजेषु संग्रामेषु “हिन्वे प्रेरयामि । यद्वा । वाजेष्वन्नेषु विषयेषु हिनोमि । अन्नादिकं प्रयच्छेत्यर्थः ॥


अ॒या चि॒त्तो वि॒पानया॒ हरिः॑ पवस्व॒ धार॑या ।

युजं॒ वाजे॑षु चोदय ॥१२

अ॒या । चि॒त्तः । वि॒पा । अ॒नया॑ । हरिः॑ । प॒व॒स्व॒ । धार॑या ।

युज॑म् । वाजे॑षु । चो॒द॒य॒ ॥१२

अया । चित्तः । विपा । अनया । हरिः । पवस्व । धारया ।

युजम् । वाजेषु । चोदय ॥१२

हे पवमान “अया। अय पय गतौ । कर्मार्थमितस्ततो गच्छन्तीभिरनया “विपा । ‘विप प्रेरणे' । हवींष्यग्नौ प्रेरयन्तीति विपोऽङ्गुलयः । एकवचनं छान्दसम् । प्रत्येकविवक्षया वा । एताभिरमंदीयाभिरङ्गुलीभिः “चित्तः ज्ञातः निर्गतोऽभिषुतः “हरिः हरितवर्णस्त्वं धारया संततया “पवस्व द्रोणकलशं ग्रहांश्चागच्छ त्वम्। किंच “युजं सखायमिन्द्रं “वाजेषु संग्रामेषु “चोदय प्रेरय । यदा अस्माभिरिन्द्रार्थं सोमो दीयते तदा तत्पानेन हृष्टः सन् शत्रून् हन्तीत्यर्थः ॥


आ न॑ इंदो म॒हीमिषं॒ पव॑स्व वि॒श्वद॑र्शतः ।

अ॒स्मभ्यं॑ सोम गातु॒वित् ॥१३

आ । नः॒ । इ॒न्दो॒ इति॑ । म॒हीम् । इष॑म् । पव॑स्व । वि॒श्वऽद॑र्शतः ।

अ॒स्मभ्य॑म् । सो॒म॒ । गा॒तु॒ऽवित् ॥१३

आ । नः । इन्दो इति । महीम् । इषम् । पवस्व । विश्वऽदर्शतः ।

अस्मभ्यम् । सोम । गातुऽवित् ॥१३

हे “इन्दो क्षरणशील दीपनशील वा हे सोम “विश्वदर्शतः विश्वैः सर्वैर्दर्शनीयः । यद्वा । विश्वं सर्वं वस्तुजातं दर्श्यते ज्ञाप्यतेऽनेनेति । सः विश्वस्य प्रकाशक इत्यर्थः । तादृशस्त्वं “महीमिषं महत्प्रभूतमन्नं “नः अस्मभ्यम् “आ “पवस्व आगमय । प्रयच्छेत्यर्थः । किंच हे “सोम अभिषूयमाण पवमान “अस्मभ्यं “गातुवित् स्वर्गमार्गस्य लम्भयिता ज्ञापयिता भव ॥


आ क॒लशा॑ अनूष॒तेंदो॒ धारा॑भि॒रोज॑सा ।

एंद्र॑स्य पी॒तये॑ विश ॥१४

आ । क॒लशाः॑ । अ॒नू॒ष॒त॒ । इन्दो॒ इति॑ । धारा॑भिः । ओज॑सा ।

आ । इन्द्र॑स्य । पी॒तये॑ । वि॒श॒ ॥१४

आ । कलशाः । अनूषत । इन्दो इति । धाराभिः । ओजसा ।

आ । इन्द्रस्य । पीतये । विश ॥१४

हे "इन्दो क्षरणशील सोम “ओजसा बलेन युक्तस्य तव “धाराभिः निरन्तराभिः सहिताः “कलशाः । प्रयोगबाहुल्यापेक्षमेतद्बहुवचनम् । द्रोणकलशाः “आ “अनूषत स्तोतृभिः आभिमुख्येन स्तूयन्ते । सोमाभिषवकाले हि ऋत्विजः स्तुवन्ति खलु। ततस्त्वम् “इन्द्रस्य “पीतये पानाय “आ “विश ग्रहांश्चमसांश्च प्रविश ॥


यस्य॑ ते॒ मद्यं॒ रसं॑ ती॒व्रं दु॒हंत्यद्रि॑भिः ।

स प॑वस्वाभिमाति॒हा ॥१५

यस्य॑ । ते॒ । मद्य॑म् । रस॑म् । ती॒व्रम् । दु॒हन्ति॑ । अद्रि॑ऽभिः ।

सः । प॒व॒स्व॒ । अ॒भि॒मा॒ति॒ऽहा ॥१५

यस्य । ते । मद्यम् । रसम् । तीव्रम् । दुहन्ति । अद्रिऽभिः ।

सः । पवस्व । अभिमातिऽहा ॥१५

हे सोम “यस्य “ते तव “मद्यं मदकरं “तीव्रं क्षिप्रं मदकारिणं “रसम् “अद्रिभिः ग्रावभिरध्वर्वातेदयः “दुहन्ति अभिषुण्वन्ति “सः तादृशस्त्वं “अभिमातिहा । अभितो मातिरभिमानं येषां ते शत्रवः । पापरूपाणां शत्रूणां हन्ता सन् “पवस्व सर्वतो गच्छ। येऽभिषुण्वन्ति ते पापरहिताः सुकृतिनो भवन्तीत्यर्थः ॥ ॥ ३ ॥


राजा॑ मे॒धाभि॑रीयते॒ पव॑मानो म॒नावधि॑ ।

अं॒तरि॑क्षेण॒ यात॑वे ॥१६

राजा॑ । मे॒धाभिः॑ । ई॒य॒ते॒ । पव॑मानः । म॒नौ । अधि॑ ।

अ॒न्तरि॑क्षेण । यात॑वे ॥१६

राजा । मेधाभिः । ईयते । पवमानः । मनौ । अधि ।

अन्तरिक्षेण । यातवे ॥१६

“मनौ मनुष्ये यागं कुर्वाणे सति । यद्वा । मनावधि । मनुर्मन्तव्यो यज्ञः । तस्मिन् “पवमानः पूयमानः पुनानो वा “राजा । राजशब्देन सोमोऽभिधीयते । सोमं राजानमक्रीणन् ' (ऐ. ब्रा. १.२७) इत्यादिषु दृष्टत्वात् । स राजा “मेधाभिः स्तुतिभिः सह “ईयते गच्छति । किमर्थम् । “अन्तरिक्षेण आकाशमार्गेण द्रोणकलशं प्रति “यातवे यातुम् । द्रोणाभिगमनकाले हि स्तोतृभिः स्तूयते खलु ॥


आ न॑ इंदो शत॒ग्विनं॒ गवां॒ पोषं॒ स्वश्व्यं॑ ।

वहा॒ भग॑त्तिमू॒तये॑ ॥१७

आ । नः॒ । इ॒न्दो॒ इति॑ । श॒त॒ऽग्विन॑म् । गवा॑म् । पोष॑म् । सु॒ऽअश्व्य॑म् ।

वह॑ । भग॑त्तिम् । ऊ॒तये॑ ॥१७

आ । नः । इन्दो इति । शतऽग्विनम् । गवाम् । पोषम् । सुऽअश्व्यम् ।

वह । भगत्तिम् । ऊतये ॥१७

हे “इन्दो पात्रेषु क्षरणशील दीपनशील वा हे सोम “शतग्विनं शतसहस्रसंख्याभिर्गोभिर्युक्तं “गवां “पोषं गवादीनां पुष्टिवर्धनं “स्वश्व्यं शोभनाश्वसङ्गसहितं “भगत्तिं भगदत्तिं भजनीयधनदानं च “ऊतये रक्षणाय “नः अस्माकम् “आ “वह प्रापय । गवादींश्च तेषां च वृद्धिं प्रयच्छेत्यर्थः ।।


आ नः॑ सोम॒ सहो॒ जुवो॑ रू॒पं न वर्च॑से भर ।

सु॒ष्वा॒णो दे॒ववी॑तये ॥१८

आ । नः॒ । सो॒म॒ । सहः॑ । जुवः॑ । रू॒पम् । न । वर्च॑से । भ॒र॒ ।

सु॒स्वा॒नः । दे॒वऽवी॑तये ॥१८

आ । नः । सोम । सहः । जुवः । रूपम् । न । वर्चसे । भर ।

सुस्वानः । देवऽवीतये ॥१८

हे “सोम "देववीतये देवपानाय देवानां कामाय वा “सुष्वाणः अभिषूयमाणोऽभिषुतो भव त्वम् । “सहः शत्र्वभिभवनसमर्थं बलं "जुवः । जु इति गत्यर्थः। शत्रून् प्रति शीघ्रगमनं च । यद्वा । सर्वतो गमनशीलं बलं च । “न इति चार्थे । “वर्चसे । वर्च दीप्तौ । दीप्त्यै सर्वत्र प्रकाशनाय “रूपं च “नः अस्मभ्यम् “आ “भर आहर प्रयच्छ॥


अर्षा॑ सोम द्यु॒मत्त॑मो॒ऽभि द्रोणा॑नि॒ रोरु॑वत् ।

सीदं॑छ्ये॒नो न योनि॒मा ॥१९

अर्ष॑ । सो॒म॒ । द्यु॒मत्ऽत॑मः । अ॒भि । द्रोणा॑नि । रोरु॑वत् ।

सीद॑न् । श्ये॒नः । न । योनि॑म् । आ ॥१९

अर्ष । सोम । द्युमत्ऽतमः । अभि । द्रोणानि । रोरुवत् ।

सीदन् । श्येनः । न । योनिम् । आ ॥१९

हे “सोम अभिषूयमाण पवमान “द्युमत्तमः अतिशयेन दीप्तिमांस्त्वं “द्रोणानि । प्रयोगबाहुल्यापेक्षमेतद्बहुवचनम् । द्रोणान् “अभि लक्षीकृत्य “रोरुवत् पुनःपुनर्भृशं वा शब्दं कुर्वन् “अर्ष तानागच्छ। दशापवित्रमध्यान्निर्गतः सोमोऽविच्छिन्नधारया द्रोणकलशे पतन् शब्दं करोति खलु। तत्र दृष्टान्तः । “श्येनो “न यथा “आ “सीदन् सर्वतो गच्छन् श्येनः शंसनीयगतिः पक्षी “योनिं स्वस्थानं कुलायं प्रति भृशं शब्दायमानः सन्नागच्छति तद्वत् ॥


अ॒प्सा इंद्रा॑य वा॒यवे॒ वरु॑णाय म॒रुद्भ्यः॑ ।

सोमो॑ अर्षति॒ विष्ण॑वे ॥२०

अ॒प्साः । इन्द्रा॑य । वा॒यवे॑ । वरु॑णाय । म॒रुत्ऽभ्यः॑ ।

सोमः॑ । अ॒र्ष॒ति॒ । विष्ण॑वे ॥२०

अप्साः । इन्द्राय । वायवे । वरुणाय । मरुत्ऽभ्यः ।

सोमः । अर्षति । विष्णवे ॥२०

“अप्साः वसतीवरीनामधेयानामपां संभक्ता । ‘षण संभक्तौ । “जनसन ' इति विट् । आत्वं ‘ विड्वनोः' इति । तादृशः “सोमः “अर्षति द्रोणकलशमागच्छति । किमर्थम्। “इन्द्राय । सर्वदेवानां प्रथम एवेन्द्रः सोमं पिबति तस्मात्पूर्वमेवाभिहितः । तस्मै “वायवे तत्सहायाय च । ऐन्द्रवायवे हीन्द्रस्यानन्तरं वायुः सोमं पिबति तस्मात्तदनु वायुरुक्तः । तस्मै च “वरुणाय “मरुद्भ्यः मितं शब्दं कुर्वद्भ्य एतन्नामकेभ्यो देवेभ्यः “विष्णवे सर्वजगद्व्यापिने विष्णवे च । एतेषां पातुं सोमः स्रवतीत्यर्थः ॥ ॥ ४ ॥


इषं॑ तो॒काय॑ नो॒ दध॑द॒स्मभ्यं॑ सोम वि॒श्वतः॑ ।

आ प॑वस्व सह॒स्रिणं॑ ॥२१

इष॑म् । तो॒काय॑ । नः॒ । दध॑त् । अ॒स्मभ्य॑म् । सो॒म॒ । वि॒श्वतः॑ ।

आ । प॒व॒स्व॒ । स॒ह॒स्रिण॑म् ॥२१

इषम् । तोकाय । नः । दधत् । अस्मभ्यम् । सोम । विश्वतः ।

आ । पवस्व । सहस्रिणम् ॥२१

हे "सोम त्वं “नः अस्माकं “तोकाय पुत्राय “इषम् अन्नं “दधत् विदधत् प्रयच्छन् “सहस्रिणं सहस्रसंख्याकं धनं “विश्वतः सर्वतो दिक्षु “अस्मभ्यं च “आ “पवस्व आप्रापय । अस्मभ्यं पुत्राय च अन्नधनादिकं प्रयच्छेत्यर्थः ॥


ये सोमा॑सः परा॒वति॒ ये अ॑र्वा॒वति॑ सुन्वि॒रे ।

ये वा॒दः श॑र्य॒णाव॑ति ॥२२

ये । सोमा॑सः । प॒रा॒ऽवति॑ । ये । अ॒र्वा॒ऽवति॑ । सु॒न्वि॒रे ।

ये । वा॒ । अ॒दः । श॒र्य॒णाऽव॑ति ॥२२

ये । सोमासः । पराऽवति । ये । अर्वाऽवति । सुन्विरे ।

ये । वा । अदः । शर्यणाऽवति ॥२२

एतदादिभ्यामृग्भ्यामिन्द्रार्थं सर्वत्र सोमाभिषवोऽस्तीत्याह । "ये "सोमासः सोमाः “परावति विप्रकृष्टेऽतिदूरे देशे "ये वा “अर्वावति अन्तिके देश इन्द्रार्थं “सुन्विरे अभिषूयन्ते अभ्यषूयन्त "ये “वा “शर्यणावति । कुरुक्षेत्रस्य जघनार्धे शर्यणावत्संज्ञकं मधुररसयुक्तं सोमवत्सरोऽस्ति । “अदः अस्मिन् सरसि सुरसा ये सोमाः इन्द्रायाभिषूयन्ते तेऽस्माकमभिमतफलं प्रयच्छन्त्विति वक्ष्यमाणेन संबन्धः ॥


य आ॑र्जी॒केषु॒ कृत्व॑सु॒ ये मध्ये॑ प॒स्त्या॑नां ।

ये वा॒ जने॑षु पं॒चसु॑ ॥२३

ये । आ॒र्जी॒केषु॑ । कृत्व॑ऽसु । ये । मध्ये॑ । प॒स्त्या॑नाम् ।

ये । वा॒ । जने॑षु । प॒ञ्चऽसु॑ ॥२३

ये । आर्जीकेषु । कृत्वऽसु । ये । मध्ये । पस्त्यानाम् ।

ये । वा । जनेषु । पञ्चऽसु ॥२३

“ये वा सोमाः “आर्जीकेषु । ऋजीकानामदूरभवा आर्जीका देशाः । तेषु तथा “कृत्वसु । कृत्वान इति देशाभिधानम् । तेषु कर्मवत्सु देशेषु च किंच “पस्त्यानां सरस्वत्यादीनां नदीनां “मध्ये समीपे च “ये सोमा अभिषूयन्ते । “ऋषयो वै सरस्वत्यां सत्रमासत' (ऐ. ब्रा. २.१९) इत्यादिषु नदीतीरे यज्ञकरणस्य श्रवणात् । किंच “जनेषु “पञ्चसु । निषादपञ्चमाश्चत्वारो वर्णाः पञ्च जनाः । तेषु च “ये “वा सोमा अभिषुताः ते सोमा अस्माकमभिमतं प्रयच्छन्त्वित्युत्तरेण संबन्धः ॥


ते नो॑ वृ॒ष्टिं दि॒वस्परि॒ पवं॑ता॒मा सु॒वीर्यं॑ ।

सु॒वा॒ना दे॒वास॒ इंद॑वः ॥२४

ते । नः॒ । वृ॒ष्टिम् । दि॒वः । परि॑ । पव॑न्ताम् । आ । सु॒ऽवीर्य॑म् ।

सु॒वा॒नाः । दे॒वासः॑ । इन्द॑वः ॥२४

ते । नः । वृष्टिम् । दिवः । परि । पवन्ताम् । आ । सुऽवीर्यम् ।

सुवानाः । देवासः । इन्दवः ॥२४

“सुवानाः तत्र चात्र चाभिषूयमाणा देवा दीपनशीलाः स्तुत्या वा “इन्दवः ग्रहेषु चमसेषु च क्षरन्तः “ते सोमाः “नः अस्माकं “दिवस्परि। परिशब्दः पञ्चमीद्योतकः। अन्तरिक्षादादित्याद्वा “वृष्टिम् । अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिः' इति वृष्टिकारणत्वात् । किंच “सुवीर्यं शोभनवीर्योपेतं पुत्रं च धनादिकं वा “आ “पवन्तां प्रापयन्तु । यजमानः सोमेन अभिमतफलानि प्राप्नोति खलु ॥


पव॑ते हर्य॒तो हरि॑र्गृणा॒नो ज॒मद॑ग्निना ।

हि॒न्वा॒नो गोरधि॑ त्व॒चि ॥२५

पव॑ते । ह॒र्य॒तः । हरिः॑ । गृ॒णा॒नः । ज॒मत्ऽअ॑ग्निना ।

हि॒न्वा॒नः । गोः । अधि॑ । त्व॒चि ॥२५

पवते । हर्यतः । हरिः । गृणानः । जमत्ऽअग्निना ।

हिन्वानः । गोः । अधि । त्वचि ॥२५

“हर्यतः देवान् कामयमानः “हरिः हरितवर्णः किंच “गोः “त्वचि “अधि आनडुहे चर्मणि “हिन्वानः प्रेर्यमाणः स सोमः “जमदग्निना मन्त्रद्रष्ट्रर्षिणा “गृणानः स्तूयमानः सन् “पवते दशापवित्रेण पूतो भवति । यद्वा । पात्राण्यभिगच्छति ॥ ॥ ५॥


प्र शु॒क्रासो॑ वयो॒जुवो॑ हिन्वा॒नासो॒ न सप्त॑यः ।

श्री॒णा॒ना अ॒प्सु मृं॑जत ॥२६

प्र । शु॒क्रासः॑ । व॒यः॒ऽजुवः॑ । हि॒न्वा॒नासः॑ । न । सप्त॑यः ।

श्री॒णा॒नाः । अ॒प्ऽसु । मृ॒ञ्ज॒त॒ ॥२६

प्र । शुक्रासः । वयःऽजुवः । हिन्वानासः । न । सप्तयः ।

श्रीणानाः । अप्ऽसु । मृञ्जत ॥२६

“शुक्रासः शुक्रा दीप्यमानाः “वयोजुवः अन्नं प्रेरयन्तः । यद्यदपेक्ष्य देवेभ्यः सोमं प्रयच्छन्ति तत्तदपेक्षितं सोमो ददाति । ते सोमाः “श्रीणानाः दधिक्षीरादिभिः श्रीयमाणाः सन्तः “अप्सु वसतीवरीष्वेकधनासु च “मृञ्जत ऋत्विग्भिः प्रमृज्यन्ते शोध्यन्ते । तत्र दृष्टान्तः । “हिन्वानासो “न सप्तयः । अश्वनामैतत् । यथाश्वा हिन्वानासो हिन्वानाः सादिभिः प्रेर्यमाणाः सन्तोऽप्सु तैरेव प्रशोधिता भवन्ति तद्वत् ॥


तं त्वा॑ सु॒तेष्वा॒भुवो॑ हिन्वि॒रे दे॒वता॑तये ।

स प॑वस्वा॒नया॑ रु॒चा ॥२७

तम् । त्वा॒ । सु॒तेषु॑ । आ॒ऽभुवः॑ । हि॒न्वि॒रे । दे॒वऽता॑तये ।

सः । प॒व॒स्व॒ । अ॒नया॑ । रु॒चा ॥२७

तम् । त्वा । सुतेषु । आऽभुवः । हिन्विरे । देवऽतातये ।

सः । पवस्व । अनया । रुचा ॥२७

अथ प्रत्यक्षकृतः । हे सोम “आभुवः । कर्मकरणार्थं समन्ताद्भवन्तीत्याभुव ऋत्विजः । ते “सुतेषु । सुतोऽभिषुतः सोमः । तद्वत्सु यज्ञेषु “देवतातये । ‘ सर्वदेवात्तातिल्' इति स्वार्थिकस्तातिल् । इन्द्रादिदेवेभ्यः “तं तादृशं प्रसिद्धं “त्वा त्वां “हिन्विरे ग्रावभिः प्रेरयन्ति । अभिषुण्वन्तीत्यर्थः । ततः “सः अभिषुतः स त्वम् “अनया “रुचा दीप्यमानया धारया द्रोणकलशं प्रति “पवस्व आगच्छ । पवतिर्गतिकर्मा । यद्वा । अनया मदीयया रुचा स्तुत्या सह कलशमागच्छ । कलशाभिगमनकाले हि सोमं स्तुवन्ति ।।


आ ते॒ दक्षं॑ मयो॒भुवं॒ वह्नि॑म॒द्या वृ॑णीमहे ।

पांत॒मा पु॑रु॒स्पृहं॑ ॥२८

आ । ते॒ । दक्ष॑म् । म॒यः॒ऽभुव॑म् । वह्नि॑म् । अ॒द्य । वृ॒णी॒म॒हे॒ ।

पान्त॑म् । आ । पु॒रु॒ऽस्पृह॑म् ॥२८

आ । ते । दक्षम् । मयःऽभुवम् । वह्निम् । अद्य । वृणीमहे ।

पान्तम् । आ । पुरुऽस्पृहम् ॥२८

हे सोम यष्टारो वयं “ते तव स्वभूतं “दक्षं बलम् “अद्य अस्मिन् यागदिने आभिमुख्येन “आ “वृणीमहे संभजामहे। कीदृशम्। “मयोभुवं सुखस्य भावकं “वह्निं धनादीनां प्रापकं “पान्तं शत्रुभ्यो रक्षकं “पुरुस्पृहं बहुभिः स्पृहणीयं काम्यमानं बलमिति ॥


आ मं॒द्रमा वरे॑ण्य॒मा विप्र॒मा म॑नी॒षिणं॑ ।

पांत॒मा पु॑रु॒स्पृहं॑ ॥२९

आ । म॒न्द्रम् । आ । वरे॑ण्यम् । आ । विप्र॑म् । आ । म॒नी॒षिण॑म् ।

पान्त॑म् । आ । पु॒रु॒ऽस्पृह॑म् ॥२९

आ । मन्द्रम् । आ । वरेण्यम् । आ । विप्रम् । आ । मनीषिणम् ।

पान्तम् । आ । पुरुऽस्पृहम् ॥२९

हे सोम “मन्द्रं मदकरं स्तुत्यं वा त्वाम् “आ वृणीमहे । “वरेण्यं सर्वैर्वरणीयं संभजनीयं च । किंच “विप्रं मेधाविनं त्वाम् । तथा “मनीषिणम् । मनस ईषा मनीषा। तद्वन्तं स्तुतिमन्तं वा त्वाम् “आ वृणीमहे । प्रत्येकविशेषणापेक्षया आ इत्युपसर्गः कृतः । किंच "पान्तं सर्वेषां रक्षकं “पुरुस्पृहं बहुभिः स्पृहणीयं च त्वां संभजामहे ॥


आ र॒यिमा सु॑चे॒तुन॒मा सु॑क्रतो त॒नूष्वा ।

पांत॒मा पु॑रु॒स्पृहं॑ ॥३०

आ । र॒यिम् । आ । सु॒ऽचे॒तुन॑म् । आ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । त॒नूषु॑ । आ ।

पान्त॑म् । आ । पु॒रु॒ऽस्पृह॑म् ॥३०

आ । रयिम् । आ । सुऽचेतुनम् । आ । सुक्रतो इति सुऽक्रतो । तनूषु । आ ।

पान्तम् । आ । पुरुऽस्पृहम् ॥३०

हे "सुक्रतो शोभनप्रज्ञ सोम त्वदीयं “रयिं धनं वयम् “आ वृणीमहे । किंच “सुचेतुनम् । ‘ चिती संज्ञाने'। भाव औणादिक उनन्प्रत्ययः । सुज्ञानं च। “तनूषु अस्मत्पुत्रेषु च धनं सुज्ञानं च त्वम् “आ विधेहि । यद्वा पुत्रार्थं वयमावृणीमहे । तथा “पान्तं सर्वस्य रक्षकं “पुरुस्पृहं बहुभिर्यष्टृभिः काम्यमानं त्वां संभजामहे ॥ ॥ ६ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.६५&oldid=208652" इत्यस्माद् पुनः प्राप्तिः