सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/दशरात्रपर्व/द्वितीयादशतिः/यण्वम्

विकिस्रोतः तः
यण्वम्.
यण्वम्.

अर्षा सोम द्युमत्तमोऽभि द्रोणानि रोरुवत् ।
सीदन्योनौ वनेष्वा ।। ९९४ ।। ऋ. ९.६५.१९
अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः ।
सोमा अर्षन्तु विष्णवे ।। ९९५ ।।
इषं तोकाय नो दधदस्मभ्यं सोम विश्वतः ।
आ पवस्व सहस्रिणं ।। ९९६ ।।

[सम्पाद्यताम्]

टिप्पणी

अर्षा सोम द्युमत्तम इति माध्यन्दिनस्य पवमानस्यार्षण्वतीर् गायत्र्यो भवन्ति। अर्षेति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः। अभि द्रोणानि रोरुवद् इत्य् अभीति भवति रथन्तरस्यो एव रूपम्। अप्सा इन्द्राय वायव इत्य् अप्सुमतीर् भवन्ति। आपो ह्य् एतद् अहः। वरुणाय मरुद्भ्य इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिस्यैवैतद् रूपान् न यन्ति। इषं तोकाय नो दधद् अस्मभ्यं सोम विश्वत इति विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् एतद् अहः। आ पवस्व सहस्रिणम् इति सहस्ररूपं महानाम्नीनाम् उपगच्छन्ति। पशवो हि महानाम्नयः। तासु गायत्रम् उक्तब्राह्मणम्। अथ यण्वसन्तनि। पञ्चमाद् वै देवा अह्नष् षष्ठम् अहर् निरमिमत। छिद्रम् इव वै पञ्चमम् अहः। यद् यण्वसन्तनिना माध्यन्दिनस्य पवमानमुखे स्तुवन्ति अह्न एव सन्तत्या अह्नो ऽछिद्रतायै। प्रतितिष्ठति य एवं वेद। प्रजापतिः पशून् असृजत। ते ऽस्मात् सृष्टा अपक्रामन्। सो ऽकामयतात्मन् पशून् यच्छेयम् इति। स एतत् सामापश्यत्। तेनात्मन् पशून् अयच्छत्। यद् आत्मन् पशून् अयच्छ्त् तद् यण्वस्य यण्वत्वम्। प्रजापतिर् एष यद् उद्गाता। स यण्वेनैवात्मन् पशून् यच्छते। एतद् विषुवत्को वै द्वादशाहो यत् पञ्चमम् अहः। यण्वसन्तनि पुरस्ताद् भवति, सन्तन्य् उपरिष्टात्। यण्वसन्तनिनैव पूर्वं त्र्यहं सन्तन्वन्ति, सन्तनिनोत्तरम्॥जैब्रा ३.९१

इन्द्रो वै सिमा नासघ्नोत्। सो ऽकामयत सिमास् सघ्नुयाम् इति। स एतत् सामापश्यत् । तेनास्तुत। ततो वै स सिमा असघ्नोत्। तद् यद् एतत् साम भवति, सिमानाम् एव सग्ध्यै। तस्य त्रिः प्रस्तौति, सकृत् प्रतिहरति, त्रिर् निधनम् उपयन्ति। तत् सप्त संपद्यन्ते। सप्तपदा वै शक्वर्यः। शाक्वराः पशवः। पच्छो वावैनांस् तद् दाधार। पशवश् शक्वर्यः। यण्वसन्तनि पुरस्ताद् भवति, सन्तन्य् उपरिष्टात्, पशूनाम् एव परिगृहीत्यै। स यथा वागरया वा रज्ज्वा व्रजं परितनुयाद् एवम् एवैतत् पशून् परिगृह्णीते ऽपरावापाय। नास्य वित्तं परोप्यते य एवं वेद। आपो वै शक्वर्यः। यण्वसन्तनि पुरस्ताद् भवति, सन्तन्य् उपरिष्टाद्, अपाम् एव परिगृहीत्यै। तस्माद् आपः परिगृहीता स्यन्दन्ते। कूले ह खलु वा एते ऽपाम्। यद् ध वा एते न स्याताम् ओघ इदं सर्वं निर्मृज्य यथापां वार्त्रं दिह्यात् तादृग् एवैतद् अनिर्मार्गाय। तस्यैतस्य यण्वसन्तनिनो मध्य इळाम् उपेत्याध्यर्धाम् इळाम् उपरिष्टाद् उपयन्ति, प्रत्यक्षं शक्वरीणां रूपं शाक्वरे ऽहन्। तेन वै रूपसमृद्धम्॥जैब्रा ३.९२

अर्षा सोम द्युमत्तम"इति विष्णुमत्यो गायत्र्यो भवन्ति। ब्रह्म वै गायत्री यज्ञो विष्णुर्ब्रह्मण्येव तद्यज्ञं प्रतिष्ठापयति। सोम उष्वाणस्सोतृभिर्"इति सिमानां रूपं स्वेनैवैतास्तद्रूपेण समर्धयति - तांब्रा. १३.३