सामवेदः/कौथुमीया/संहिता/ऊहगानम्/सत्रपर्व/विंशः ५/हरिश्रीनिधनम्

विकिस्रोतः तः
हरिश्रीनिधनम्.
हरिश्रीनिधनम्

वृषा पवस्व धारया मरुत्वते च मत्सरः ।
विश्वा दधान ओजसा ।। ८०३ ।। ऋ. ९.६५.१०
तं त्वा धर्त्तारमोण्यो३ः पवमान स्वर्दृशम् ।
हिन्वे वाजेषु वाजिनं ।। ८०४ ।।
अया चित्तो विपानया हरिः पवस्व धारया ।
युजं वाजेषु चोदय ।। ८०५ ।।



 

१. हरिश्रीनिधनम् ॥ अङ्गिरसः। गायत्री। पवमानस्सोमः।।
वृषापवस्वधारया। वृषापवा॥ स्वधारयाऽ२ । मरुत्वतेचमाहोऽ२। त्सारा२३ः । हाउवा ॥ विश्वादाऽ२३धा ॥ नओ । जाऽ२साऽ२३४औहोवा॥ श्रीः ॥ तन्त्वाधर्तारमोणियोः । तन्त्वाधर्ता । रमोणियोऽ२ः । पवमानसुवाहोऽ२ । दृशाऽ२३म् । हाउवा ॥ हिन्वेवाऽ२३जाइ ॥ षुवा। जाऽ2इनाऽ२३४औहोवा ॥ श्रीः ॥ अयाचित्तोविपानया। अयाचित्ताः । विपानयाऽ२ । हरिः पवस्वधाहोऽ२ । रायाऽ२३ । हाउवा ॥ युजांवाऽ२३जाइ । षुचो । दाऽ२याऽ२३४औहोवा ॥ हरिऽ३श्रीऽ२३४५ः ॥
दी. २८. उ. ४. मा. १६. ढू. ॥७६०॥
 



[सम्पाद्यताम्]

टिप्पणी

वृषा पवस्व धारयेति राजन्याय प्रतिपदं कुर्याद्वृषा वै राजन्यो वृषाणमेवैनं करोति - तांब्रा. ६.१०.९

माध्यन्दिनपवमानस्य प्रथमस्तोत्रीया तृचः - वृषा पवस्व धारयेति गायत्री भवत्यह्नो धृत्यै। वृषण्वत्यस्त्रिष्टुभो रूपेण त्रैष्टुभं ह्येतदहः। - तांब्रा. ११.८.१

माध्यन्दिनपवमान प्रथमतृचः -- वृषा पवस्व धारय इति गायत्री भवत्यह्नो धृत्यै। वृषण्वत्यस्त्रिष्टुभो रूपेण त्रैष्टुभं ह्येतदहः - तांब्रा. १४.३.१

वृषा पवस्व धारयेति माध्यन्दिनस्य पवमानस्य वृषण्वतीर् गायत्र्यो भवन्ति। बार्हतं वा एतद् अहः। त्रैष्टुभं क्षत्रस्य रूपम्। मरुत्वते च मत्सर इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यंदिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति। तं त्वा धर्तारम् ओण्योर् इति प्रद्रुतम् इव वा इत एतद् अहर् यद् बार्हतम्। अदो हि बृहत्। तद् यत् तं त्वा धर्तारम् इत्य् अह्न् एव धृत्यै। अया चित्तो विपानया हरिः पवस्व धारयेति हरिवतीर् भवन्ति। हरिवद् वै त्रिष्टुभो रूपम्। त्रैष्टुभम् एतद् अहः। तासु गायत्रम् उक्तब्राह्मणम्। - जैब्रा ३.२३

वृषा पवस्व धारयेति माध्यन्दिनस्य पवमानस्य वृषण्वतीर् गायत्र्यो भवन्ति बृहतो रूपम्। बार्हतम् एतद् अहः। मरुत्वते च मत्सर इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति। तं त्वा धर्तारम् ओण्योर् इति विभ्रष्टम् इवैतद् अहर् यत् सप्तमम्। तद् यत् तं त्वा धर्तारम् इत्य् अह्न् एव धृत्यै। तासु गायत्रम् उक्तब्राह्मणम्। - जै.ब्रा. ३.१८२

हारिवर्णम्(तंतेमदं) (१.४.१८)

हरिश्रीनिधनम् (पवमानस्य जिघ्नतो)(दशरात्रपर्व) (१.९.१६)

हरिश्रीनिधनम्(वृषापवस्व) (५.५.१)

आंगिरसां हरिश्रीनिधनम् (गिर्वणः पाहि इति)(ग्रामगेय १९५)

हारिवर्णानि(तंतेमदं) (ग्रामगेय ३८३)