सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०५/हरिश्रीनिधनम्(गिर्वणः)
गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे ।
इन्द्र त्वादातमिद्यशः ।। १९५ ।। ऋ. ३.४०.६
(१९५.१) आंगिरसां हरिश्रीनिधनम् । अंगिरसो गायत्रीन्द्रः ॥
गिर्वणःपाहिनःसुतम् । गिर्वणःपा॥ हिनःसुताऽ२म् । मधोर्धाराभिराहोऽ२ । ज्यासेऽ२३॥ हाउवा ॥ इन्द्रात्वाऽ२३दा॥ तमायेत् । याऽ२शाऽ२३४औहोवा। हरीऽ३श्रीऽ२३४५:॥
( दी० ६ । प० १० । मा० ६ ) २१ (ङू।३३७)
टिप्पणी
गिर्वणः पाहि नः सुतमिति चैतत्सदा प्रयुञ्जीत मयि श्रीरिति चास्य निधनं कुर्य्याच्छ्रीमान् भवति ॥सामविधानब्रा. ३.१.३॥
तं ते मदं गृणीमसि वृषणं पृत्सु सासहिम् । उ लोककृत्नुमद्रिवो हरिश्रियम् ॥ऋ. ८.१५.४॥
यथा कण्वे मघवन्मेधे अध्वरे दीर्घनीथे दमूनसि । यथा गोशर्ये असिषासो अद्रिवो मयि गोत्रं हरिश्रियम् ॥ऋ. ८.५०.१०॥
हारिवर्णम्(तंतेमदं) (१.४.१८)
हरिश्रीनिधनम् (पवमानस्य जिघ्नतो)(दशरात्रपर्व) (१.९.१६)
हरिश्रीनिधनम्(वृषापवस्व) (५.५.१)
आंगिरसां हरिश्रीनिधनम् (गिर्वणः पाहि इति)(ग्रामगेय १९५)
हारिवर्णानि(तंतेमदं) (ग्रामगेय ३८३)