ऋग्वेदः सूक्तं ९.७३

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ९.७३ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ९.७२ ऋग्वेदः - मण्डल ९
सूक्तं ९.७३
पवित्र आङ्गिरसः
सूक्तं ९.७४ →
दे. पवमानः सोमः। जगती

प्रवर्ग्ये अभिष्टव एतत्सूक्तम्(आश्व.श्रौ.सू. ४.६)


स्रक्वे द्रप्सस्य धमतः समस्वरन्नृतस्य योना समरन्त नाभयः ।
त्रीन्स मूर्ध्नो असुरश्चक्र आरभे सत्यस्य नावः सुकृतमपीपरन् ॥१॥
सम्यक्सम्यञ्चो महिषा अहेषत सिन्धोरूर्मावधि वेना अवीविपन् ।
मधोर्धाराभिर्जनयन्तो अर्कमित्प्रियामिन्द्रस्य तन्वमवीवृधन् ॥२॥
पवित्रवन्तः परि वाचमासते पितैषां प्रत्नो अभि रक्षति व्रतम् ।
महः समुद्रं वरुणस्तिरो दधे धीरा इच्छेकुर्धरुणेष्वारभम् ॥३॥
सहस्रधारेऽव ते समस्वरन्दिवो नाके मधुजिह्वा असश्चतः ।
अस्य स्पशो न नि मिषन्ति भूर्णयः पदेपदे पाशिनः सन्ति सेतवः ॥४॥*
पितुर्मातुरध्या ये समस्वरन्नृचा शोचन्तः संदहन्तो अव्रतान् ।
इन्द्रद्विष्टामप धमन्ति मायया त्वचमसिक्नीं भूमनो दिवस्परि ॥५॥
प्रत्नान्मानादध्या ये समस्वरञ्छ्लोकयन्त्रासो रभसस्य मन्तवः ।
अपानक्षासो बधिरा अहासत ऋतस्य पन्थां न तरन्ति दुष्कृतः ॥६॥
सहस्रधारे वितते पवित्र आ वाचं पुनन्ति कवयो मनीषिणः ।
रुद्रास एषामिषिरासो अद्रुह स्पशः स्वञ्चः सुदृशो नृचक्षसः ॥७॥
ऋतस्य गोपा न दभाय सुक्रतुस्त्री ष पवित्रा हृद्यन्तरा दधे ।
विद्वान्स विश्वा भुवनाभि पश्यत्यवाजुष्टान्विध्यति कर्ते अव्रतान् ॥८॥
ऋतस्य तन्तुर्विततः पवित्र आ जिह्वाया अग्रे वरुणस्य मायया ।
धीराश्चित्तत्समिनक्षन्त आशतात्रा कर्तमव पदात्यप्रभुः ॥९॥


सायणभाष्यम्

‘स्रक्वे' इति नवर्चं षष्ठं सूक्तमाङ्गिरसस्य पवित्रस्यार्षं जागतं पवमानसोमदेवताकम् । तथा चानुक्रम्यते- स्रक्वे पवित्रः' इति । प्रवर्ग्येऽभिष्टव एतत् सूक्तम् । सूत्रितं च-' स्रक्वे द्रप्सस्यायं वेनश्चोदयत्पृश्निगर्भाः ' ( आश्व. श्रौ. ४.६ ) इति ।।


स्रक्वे॑ द्र॒प्सस्य॒ धम॑तः॒ सम॑स्वरन्नृ॒तस्य॒ योना॒ सम॑रंत॒ नाभ॑यः ।

त्रीन्त्स मू॒र्ध्नो असु॑रश्चक्र आ॒रभे॑ स॒त्यस्य॒ नावः॑ सु॒कृत॑मपीपरन् ॥१

स्रक्वे॑ । द्र॒प्सस्य॑ । धम॑तः । सम् । अ॒स्व॒र॒न् । ऋ॒तस्य॑ । योना॑ । सम् । अ॒र॒न्त॒ । नाभ॑यः ।

त्रीन् । सः । मू॒र्ध्नः । असु॑रः । च॒क्रे॒ । आ॒ऽरभे॑ । स॒त्यस्य॑ । नावः॑ । सु॒ऽकृत॑म् । अ॒पी॒प॒र॒न् ॥१

स्रक्वे । द्रप्सस्य । धमतः । सम् । अस्वरन् । ऋतस्य । योना । सम् । अरन्त । नाभयः ।

त्रीन् । सः । मूर्ध्नः । असुरः । चक्रे । आऽरभे । सत्यस्य । नावः । सुऽकृतम् । अपीपरन् ॥१

“स्रक्वे यज्ञस्य हनुस्थानीये। स्रक्व ओष्ठप्रान्तो हनुरुच्यते । ‘हनुरधिषवणफलकः' इत्याम्नानात् हनुस्थानीये अधिषवणफलके “धमतः अभिषूयमाणस्य “द्रप्सस्य सोमस्यांशवः “समस्वरन् संगच्छन्ते । समशब्दयन् वा । “ऋतस्य सत्यभूतस्य यज्ञस्य “योना योनावुत्पत्तिस्थाने “नाभयः सोमरसाः “समरन्त संगच्छन्ते । अर्तेः ‘समो गमि°' इत्यादिनात्मनेपदम् ।' सर्तिशास्त्यर्तिभ्यश्च । इति च्लेरङ्। अथ “असुरः बलवान् सर्वेषां प्रीणनात् प्राणदाता वा “सः सोमः "मूर्ध्नः समुच्छ्रितान् “त्रीन् लोकान् “आरभे आरम्भणाय मनुष्यदेवादीनां संचरणाय करोति । किंच “सत्यस्य सत्यभूतस्य सोमस्य “नावः नौका इव स्थिताश्चतस्रः स्थाल्यः। आदित्याग्रयणोक्थ्यध्रुवस्थाल्य इति । ताः स्थाल्यः “सुकृतं सुष्ठु कर्माणि कुर्वन्तं यजमानम् “अपीपरन् अभिमतदानेन पूजयन्ति वा। पारयतेर्लुङि चङि सन्वद्भावाभ्यासेत्वदीर्घाः ॥


स॒म्यक्स॒म्यंचो॑ महि॒षा अ॑हेषत॒ सिंधो॑रू॒र्मावधि॑ वे॒ना अ॑वीविपन् ।

मधो॒र्धारा॑भिर्ज॒नयं॑तो अ॒र्कमित्प्रि॒यामिंद्र॑स्य त॒न्व॑मवीवृधन् ॥२

स॒म्यक् । स॒म्यञ्चः॑ । म॒हि॒षाः । अ॒हे॒ष॒त॒ । सिन्धोः॑ । ऊ॒र्मौ । अधि॑ । वे॒नाः । अ॒वी॒वि॒प॒न् ।

मधोः॑ । धारा॑भिः । ज॒नय॑न्तः । अ॒र्कम् । इत् । प्रि॒याम् । इन्द्र॑स्य । त॒न्व॑म् । अ॒वी॒वृ॒ध॒न् ॥२

सम्यक् । सम्यञ्चः । महिषाः । अहेषत । सिन्धोः । ऊर्मौ । अधि । वेनाः । अवीविपन् ।

मधोः । धाराभिः । जनयन्तः । अर्कम् । इत् । प्रियाम् । इन्द्रस्य । तन्वम् । अवीवृधन् ॥२

“महिषाः पूज्या महान्तो वर्त्विजः “सम्यञ्चः परस्परं संगताः सन्तः “सम्यक् “अहेषत सोमं सम्यक् प्रेरयन्ति अभिषुण्वन्तीति यावत् ।' हि गतौ वृद्धौ च ' । लुङि सिचि रूपम् । ततः “वेनाः । ‘ वेनतेः कान्तिकर्मणः ' (निरु. १०, ३८ ) इति यास्कः । स्वर्गादिफलं कामयमाना ऋत्विजः “सिन्धोः स्यन्दमानस्योदकस्य “ऊर्मौ “अधि संघे वसतीवर्यादिषु जलेषु सोमम् “अवीविपन् कम्पयन्ति । तत्र प्रेरयन्तीत्यर्थः । वपतेर्ण्यन्तस्य लुङि चङि ' णौ चङ्युपधाया ह्रस्वः' इति ह्रस्वः । किंच “अर्कम् अर्चनीयं स्तोत्रं “जनयन्तः कुर्वन्तस्ते “प्रियां प्रियतमाम् “इन्द्रस्य “तन्वं धाम च “मधोः मदकरस्य सोमस्य “धाराभिः अवीवृधन् वर्धितवन्तः । वर्धतेर्लुङि चङि रूपम् ॥


प॒वित्र॑वंतः॒ परि॒ वाच॑मासते पि॒तैषां॑ प्र॒त्नो अ॒भि र॑क्षति व्र॒तं ।

म॒हः स॑मु॒द्रं वरु॑णस्ति॒रो द॑धे॒ धीरा॒ इच्छे॑कुर्ध॒रुणे॑ष्वा॒रभं॑ ॥३

प॒वित्र॑ऽवन्तः । परि॑ । वाच॑म् । आ॒स॒ते॒ । पि॒ता । ए॒षा॒म् । प्र॒त्नः । अ॒भि । र॒क्ष॒ति॒ । व्र॒तम् ।

म॒हः । स॒मु॒द्रम् । वरु॑णः । ति॒रः । द॒धे॒ । धीराः॑ । इत् । शे॒कुः॒ । ध॒रुणे॑षु । आ॒ऽरभ॑म् ॥३

पवित्रऽवन्तः । परि । वाचम् । आसते । पिता । एषाम् । प्रत्नः । अभि । रक्षति । व्रतम् ।

महः । समुद्रम् । वरुणः । तिरः । दधे । धीराः । इत् । शेकुः । धरुणेषु । आऽरभम् ॥३

“पवित्रवन्तः पवित्रेण शोधकेन सामर्थ्येन युक्ताः सोमस्य रश्मयः “वाचं सोमस्थितां माध्यमिकां वाचं “परि “आसते पर्युपविशन्ति । सोमोऽन्तरिक्षे तिष्ठति खलु ‘सोमो वै राजा गन्धर्वेष्वासीत् ' ( ऐ. ब्रा, १.२७) इत्याम्नानात् । ततः “प्रत्नः पुराणः “एषां रश्मीनां “पिता अयं सोमश्च “व्रतं प्रकाशनात्मकं कर्म “अभि “रक्षति अवितं करोति । किंच “वरुणः सर्वस्य स्वतेजसाच्छादकः सोऽयं सोमः “महः महत् “समुद्रम् । अन्तरिक्षनामैतत् । महदन्तरिक्षं तै रश्मिभिः “तिरो “दधे अन्तर्हितमकरोत् । सर्वं व्याप्नोदिति यावत् । तमिमं सोमं “धीराः । “इत् अवधारणे । कर्मणि कुशलाः प्राज्ञा एवर्त्विजः “धरुणेषु सर्वस्य धारकेषु वसतीवर्याख्येषूदकेषु “आरभम् आरब्धुं “शेकुः शक्नुवन्ति च । रभेस्तुमर्थे ' शकि णमुल्कमुलौ' (पा. सू. ३. ४. १२ ) इति कमुल्। लित्स्वरेण मध्योदात्तः ॥


स॒हस्र॑धा॒रेऽव॒ ते सम॑स्वरंदि॒वो नाके॒ मधु॑जिह्वा अस॒श्चतः॑ ।

अस्य॒ स्पशो॒ न नि मि॑षंति॒ भूर्ण॑यः प॒देप॑दे पा॒शिनः॑ संति॒ सेत॑वः ॥४

स॒हस्र॑ऽधारे । अव॑ । ते । सम् । अ॒स॒र॒न् । दि॒वः । नाके॑ । मधु॑ऽजिह्वाः । अ॒स॒श्चतः॑ ।

अस्य॑ । स्पशः॑ । न । नि । मि॒ष॒न्ति॒ । भूर्ण॑यः । प॒देऽप॑दे । पा॒शिनः॑ । स॒न्ति॒ । सेत॑वः ॥४

सहस्रऽधारे । अव । ते । सम् । असरन् । दिवः । नाके । मधुऽजिह्वाः । असश्चतः ।

अस्य । स्पशः । न । नि । मिषन्ति । भूर्णयः । पदेऽपदे । पाशिनः । सन्ति । सेतवः ॥४

“सहस्रधारे । बहूदकधारा यस्माद्द्रवन्ति तत्तथोक्तमन्तरिक्षम् । तस्मिन् वर्तमानाः “ते सोमरश्मयः “अव अवस्तात स्थिताः “समस्वरन् । पृथिवीं वृष्ट्या संयोजयन्तीत्यर्थः । किंच “दिवः द्युलोकस्य “नाके समुच्छ्रिते देशे वर्तमानाः “मधुजिह्वाः मध्वग्राः । सोमतेजसाग्रेभ्यो हि मधूत्पन्नं भवति । अतो मधुजिह्वाः । “असश्चत: संगतवर्जिताः पृथक्पृथग्दिव्यवस्थिताः “अस्य सोमस्य स्वभूताः “स्पशः सारभूता रश्मयः “भूर्णयः क्षिप्रगामिनः सन्तः “न “नि “मिषन्ति निमेषं न कुर्वन्ति । किंतु पापिनः सुकृतिनश्च ज्ञातुं सर्वदा जाग्रतीत्यर्थः। अथवा । राजभृत्या यथा दुष्टान् विचारयितुं सर्वदा जागरणं कुर्वन्ति तद्वदेते रश्मयः “पदेपदे स्थाने स्थाने “सेतवः संबद्धाः सन्तः “पाशिनः पापकृतां बाधकाः “सन्ति भवन्ति ।।


पि॒तुर्मा॒तुरध्या ये स॒मस्व॑रन्नृ॒चा शोचं॑तः सं॒दहं॑तो अव्र॒तान् ।

इंद्र॑द्विष्टा॒मप॑ धमंति मा॒यया॒ त्वच॒मसि॑क्नीं॒ भूम॑नो दि॒वस्परि॑ ॥५

पि॒तुः । मा॒तुः । अधि॑ । आ । ये । स॒म्ऽअस्व॑रन् । ऋ॒चा । शोच॑न्तः । स॒म्ऽदह॑न्तः । अ॒व्र॒तान् ।

इन्द्र॑ऽद्विष्टाम् । अप॑ । ध॒म॒न्ति॒ । मा॒यया॑ । त्वच॑म् । असि॑क्नीम् । भूम॑नः । दि॒वः । परि॑ ॥५

पितुः । मातुः । अधि । आ । ये । सम्ऽअस्वरन् । ऋचा । शोचन्तः । सम्ऽदहन्तः । अव्रतान् ।

इन्द्रऽद्विष्टाम् । अप । धमन्ति । मायया । त्वचम् । असिक्नीम् । भूमनः । दिवः । परि ॥५

“पितुर्मातुः द्यावापृथिव्योः । ‘ द्यौर्मे पिता जनिता नाभिरत्र बन्धुर्मे माता पृथिवी महीयम्' (ऋ. सं. १.१६४.३३ ) इत्यादिषु द्यावापृथिव्योर्मातापितृत्वाम्नानात् । द्यावापृथिवीभ्यां “ये सोमरश्मयः “अध्या “समस्वरन् अधिकं प्रादुर्भूता अभवन् ते “ऋचा ऋत्विग्भिः क्रियमाणया स्तुत्या “शोचन्तः दीप्यमानाः “अव्रतान् कर्मरहितान् यजमानान् “संदहन्तः सम्यग्विनाशयन्तस्ते रश्मयः “इन्द्रद्विष्टाम् इन्द्राय द्वेषकारिणीम् । ‘क्ते च ' ( पा. सू. ६. २. ४५ ) इति पूर्वपदप्रकृतिस्वरः । इन्द्रेण द्विष्टां वा । “असिक्नीम् । रात्रिनामैतत् । रात्रिवत्कृष्णरूपां “त्वचम् । राक्षसमित्यर्थः । “मायया कर्मणा प्रज्ञया वा “भूमनः विस्तृताद्भूलोकात् “दिवस्परि द्युलोकाच्च “अप “धमन्ति अपगतं कुर्वन्ति । अपघ्न्तीत्यर्थः ॥ ॥ २९ ॥


प्र॒त्नान्माना॒दध्या ये स॒मस्व॑रं॒छ्लोक॑यंत्रासो रभ॒सस्य॒ मंत॑वः ।

अपा॑न॒क्षासो॑ बधि॒रा अ॑हासत ऋ॒तस्य॒ पंथां॒ न त॑रंति दु॒ष्कृतः॑ ॥६

प्र॒त्नात् । माना॑त् । अधि॑ । आ । ये । स॒म्ऽअस्व॑रन् । श्लोक॑ऽयन्त्रासः । र॒भ॒सस्य॑ । मन्त॑वः ।

अप॑ । अ॒न॒क्षासः॑ । ब॒धि॒राः । अ॒हा॒स॒त॒ । ऋ॒तस्य॑ । पन्था॑म् । न । त॒र॒न्ति॒ । दुः॒ऽकृतः॑ ॥६

प्रत्नात् । मानात् । अधि । आ । ये । सम्ऽअस्वरन् । श्लोकऽयन्त्रासः । रभसस्य । मन्तवः ।

अप । अनक्षासः । बधिराः । अहासत । ऋतस्य । पन्थाम् । न । तरन्ति । दुःऽकृतः ॥६

“श्लोकयन्त्रासः । श्लोकाः स्तुतयः। स्तुतिनियमनाः “रभसस्य “मन्तवः वेगमभिमन्यमानाः एतादृशाः “ये सोमरश्मयः “प्रत्नात् पुराणात् “मानात् अन्तरिक्षात् “अध्या “समस्वरन् सह प्रादुर्भूता अभवन् तान्रश्मीन् “अनक्षासः चक्षुर्वर्जिताः साधु पदार्थानामद्रष्टारो नराः “बधिराः देवतास्तुतिश्रवणवर्जिताः पापकृतो नरश्च “अप “अहासत तान् परित्यजन्ति । दर्शिनः श्रवणवन्तो मेधाविनस्तु न परिजहति किंतु स्तुवन्ति । तदेवाह । “ऋतस्य सत्यस्य “पन्थां मार्गभूतमेषां गणं “दुष्कृतः पापकृतो नराः “न “तरन्ति नोत्तारयन्ति । सुकृतस्तु तरन्तीत्यभिप्रायः ।।


स॒हस्र॑धारे॒ वित॑ते प॒वित्र॒ आ वाचं॑ पुनंति क॒वयो॑ मनी॒षिणः॑ ।

रु॒द्रास॑ एषामिषि॒रासो॑ अ॒द्रुहः॒ स्पशः॒ स्वंचः॑ सु॒दृशो॑ नृ॒चक्ष॑सः ॥७

स॒हस्र॑ऽधारे । विऽत॑ते । प॒वित्रे॑ । आ । वाच॑म् । पु॒न॒न्ति॒ । क॒वयः॑ । म॒नी॒षिणः॑ ।

रु॒द्रासः॑ । ए॒षा॒म् । इ॒षि॒रासः॑ । अ॒द्रुहः॑ । स्पशः॑ । सु॒ऽअञ्चः॑ । सु॒ऽदृशः॑ । नृ॒ऽचक्ष॑सः ॥७

सहस्रऽधारे । विऽतते । पवित्रे । आ । वाचम् । पुनन्ति । कवयः । मनीषिणः ।

रुद्रासः । एषाम् । इषिरासः । अद्रुहः । स्पशः । सुऽअञ्चः । सुऽदृशः । नृऽचक्षसः ॥७

कवयः क्रान्तकर्माणः अत एव “मनीषिणः प्राज्ञा ऋत्विजः “सहस्रधारे अनेकधारोपेते “वितते कर्मणि विस्तृते “पवित्रे शुद्ध्युत्पादके सोमे वर्तमानां “वाचं माध्यमिकाम् । सोमः खलु विश्वावसुप्रभृतिगन्धर्वेष्वन्तरिक्षेऽवतिष्ठते ' सोमो वै राजा गन्धर्वेष्वासीत् ' ( ऐ. ब्रा.१.२७ ) इति श्रवणात् । तत्र वर्तमानं सोमं देवा गोरूपया वाचा क्रीतवन्तः । तदा सोमे वाक्तिष्ठतीति शक्यते वक्तुम् । तस्मात्सोमे स्थितां माध्यमिकां वाचम् “आ “पुनन्ति संस्कुर्वन्ति । स्तुवन्तीति यावत् । य उक्तगुणा मरुतां मातरं माध्यमिकां वाचं स्तुवन्ति तेषां “रुद्रासः रुद्रपुत्रा मरुतः “स्पशः मध्यमया वाचा वशिनो भवन्ति । कीदृशाः । “इषिराः गमनशीलाः “अद्रुहः स्तोतॄणामद्रोग्धारः । यद्वा । द्रुहेः कर्मणि क्विबौणादिकः । परैरहिंस्याः । “स्वञ्चः शोभनाञ्चनाः अत एव “सुदृशः सुदर्शनाः "नृचक्षसः नृणां कर्मनेतॄणां द्रष्टारः ॥


ऋ॒तस्य॑ गो॒पा न दभा॑य सु॒क्रतु॒स्त्री ष प॒वित्रा॑ हृ॒द्यं१॒॑तरा द॑धे ।

वि॒द्वान्त्स विश्वा॒ भुव॑ना॒भि प॑श्य॒त्यवाजु॑ष्टान्विध्यति क॒र्ते अ॑व्र॒तान् ॥८

ऋ॒तस्य॑ । गो॒पाः । न । दभा॑य । सु॒ऽक्रतुः॑ । त्री । सः । प॒वित्रा॑ । हृ॒दि । अ॒न्तः । आ । द॒धे॒ ।

वि॒द्वान् । सः । विश्वा॑ । भुव॑ना । अ॒भि । प॒श्य॒ति॒ । अव॑ । अजु॑ष्टान् । वि॒ध्य॒ति॒ । क॒र्ते । अ॒व्र॒तान् ॥८

ऋतस्य । गोपाः । न । दभाय । सुऽक्रतुः । त्री । सः । पवित्रा । हृदि । अन्तः । आ । दधे ।

विद्वान् । सः । विश्वा । भुवना । अभि । पश्यति । अव । अजुष्टान् । विध्यति । कर्ते । अव्रतान् ॥८

“ऋतस्य सत्यभूतस्य यज्ञस्य “गोपाः गोपायिता अत एव “सुक्रतुः शोभनकर्मा सोमः “न “दभाय दम्भाय स्तम्भनाय न भवति । परैर्दम्भयितुं न शक्यत इत्यर्थः । किंच “सः सोमः “त्री । ‘ शेश्छन्दसि बहुलम्' इति लुक् । त्रीणि “पवित्रा अग्निवायुसूर्यात्मकानि त्रीणि पवित्राणि “हृद्यन्तः हृदयस्यान्तः “आ “दधे आदधाति । स्वस्मिन् संगमयतीत्यर्थः । अपि च “विद्वान् सर्वं जानानः “सः सोमः “विश्वा “भुवना सर्वाणि भुवनानि “अभि “पश्यति । ततः “कर्ते । करोतेरौणादिकः तप्रत्ययः । कर्मणि “अजुष्टान् अप्रियान् अत एव “अव्रतान् अयजमानान् “अव “विध्यति अवाङ्मुखान् कृत्वा ताडयति । हिनस्तीति यावत् ॥


ऋ॒तस्य॒ तंतु॒र्वित॑तः प॒वित्र॒ आ जि॒ह्वाया॒ अग्रे॒ वरु॑णस्य मा॒यया॑ ।

धीरा॑श्चि॒त्तत्स॒मिन॑क्षंत आश॒तात्रा॑ क॒र्तमव॑ पदा॒त्यप्र॑भुः ॥९

ऋ॒तस्य॑ । तन्तुः॑ । विऽत॑तः । प॒वित्रे॑ । आ । जि॒ह्वायाः॑ । अग्रे॑ । वरु॑णस्य । मा॒यया॑ ।

धीराः॑ । चि॒त् । तत् । स॒म्ऽइन॑क्षन्तः । आ॒श॒त॒ । अत्र॑ । क॒र्तम् । अव॑ । प॒दा॒ति॒ । अप्र॑ऽभुः ॥९

ऋतस्य । तन्तुः । विऽततः । पवित्रे । आ । जिह्वायाः । अग्रे । वरुणस्य । मायया ।

धीराः । चित् । तत् । सम्ऽइनक्षन्तः । आशत । अत्र । कर्तम् । अव । पदाति । अप्रऽभुः ॥९

“ऋतस्य सत्यभूतस्य यज्ञस्य “तन्तुः तनिता “पवित्रे अविवालमये दशापवित्रे “विततः विस्तृतः । यद्वा । पवित्रेऽन्तरिक्षे विस्तृतः सोमः “वरुणस्य “जिह्वाया “अग्रे “मायया कर्मणा “आ आस्थितः। वरुणजिह्वाग्र आपस्तिष्ठन्ति । तासु सोमो वसतीति वसतीवर्याद्युदकेषु स्थित इत्यर्थः । ततः “धीराश्चित् कर्मणि प्राज्ञा एव “तत् वरुणजिह्वाग्रस्थानं “समिनक्षन्तः । इनक्षतिर्गतिकर्मा । संव्याप्नुवन्तः सन्तः “आशत स्तुतिभिर्हविर्भिर्वा प्राप्नुवन् । यः पुनः “कर्तम् ।' कालाध्वनो:° ' इति द्वितीया । कर्मणि “अप्रभुः समर्थो न भवति सोऽयम् “अत्र अस्मिनेव लोके “अव “पदाति अवस्तान्नरके पतति नोपरि गच्छति । ‘पद गतौ ' । लेट्याडागमः । तस्मात्सर्वैरग्निष्टोमादिकर्म कर्तव्यमित्येषोऽर्थोऽभिहितो भवति ॥ ॥ ३० ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.७३&oldid=208661" इत्यस्माद् पुनः प्राप्तिः