ऋग्वेदः सूक्तं ९.१७

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ९.१७ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ९.१६ ऋग्वेदः - मण्डल ९
सूक्तं ९.१७
कश्यपोऽसितो देवलो वा।
सूक्तं ९.१८ →
दे. पवमानः सोमः। गायत्री।


प्र निम्नेनेव सिन्धवो घ्नन्तो वृत्राणि भूर्णयः ।
सोमा असृग्रमाशवः ॥१॥
अभि सुवानास इन्दवो वृष्टयः पृथिवीमिव ।
इन्द्रं सोमासो अक्षरन् ॥२॥
अत्यूर्मिर्मत्सरो मदः सोमः पवित्रे अर्षति ।
विघ्नन्रक्षांसि देवयुः ॥३॥
आ कलशेषु धावति पवित्रे परि षिच्यते ।
उक्थैर्यज्ञेषु वर्धते ॥४॥
अति त्री सोम रोचना रोहन्न भ्राजसे दिवम् ।
इष्णन्सूर्यं न चोदयः ॥५॥
अभि विप्रा अनूषत मूर्धन्यज्ञस्य कारवः ।
दधानाश्चक्षसि प्रियम् ॥६॥
तमु त्वा वाजिनं नरो धीभिर्विप्रा अवस्यवः ।
मृजन्ति देवतातये ॥७॥
मधोर्धारामनु क्षर तीव्रः सधस्थमासदः ।
चारुरृताय पीतये ॥८॥


सायणभाष्यम्

‘प्र निम्नेनेव' इत्यष्टर्चं सप्तदशं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘प्र निम्नेनेव' इत्यनुक्रान्तम् । गतो विनियोगः ॥


प्र नि॒म्नेने॑व॒ सिंध॑वो॒ घ्नंतो॑ वृ॒त्राणि॒ भूर्ण॑यः ।

सोमा॑ असृग्रमा॒शवः॑ ॥१

प्र । नि॒म्नेन॑ऽइव । सिन्ध॑वः । घ्नन्तः॑ । वृ॒त्राणि॑ । भूर्ण॑यः ।

सोमाः॑ । अ॒सृ॒ग्र॒म् । आ॒शवः॑ ॥१

प्र । निम्नेेनऽइव । सिन्धवः । घ्नन्तः । वृत्राणि । भूर्णयः ।

सोमाः । असृग्रम् । आशवः ॥१

“निम्नेन प्रवणेन देशेन “सिन्धवः नद्यः “इव तथा “वृत्राणि शत्रून् “घ्नन्तः "भूर्णयः क्षिप्रगमनाः “आशवः व्याप्ताः “सोमाः “प्र “असृग्रं प्रगच्छन्ति द्रोणकलशं प्रति ॥


अ॒भि सु॑वा॒नास॒ इंद॑वो वृ॒ष्टयः॑ पृथि॒वीमि॑व ।

इंद्रं॒ सोमा॑सो अक्षरन् ॥२

अ॒भि । सु॒वा॒नासः॑ । इन्द॑वः । वृ॒ष्टयः॑ । पृ॒थि॒वीम्ऽइ॑व ।

इन्द्र॑म् । सोमा॑सः । अ॒क्ष॒र॒न् ॥२

अभि । सुवानासः । इन्दवः । वृष्टयः । पृथिवीम्ऽइव ।

इन्द्रम् । सोमासः । अक्षरन् ॥२

“सुवानासः सूयमानाः “इन्दवः द्रवरूपाः “सोमासः सोमाः “इन्द्रं प्रीणयितुम् “अभि “अक्षरन् । किमिव । “वृष्टयः “पृथिवीमिव ।।


अत्यू॑र्मिर्मत्स॒रो मदः॒ सोमः॑ प॒वित्रे॑ अर्षति ।

वि॒घ्नन्रक्षां॑सि देव॒युः ॥३

अति॑ऽऊर्मिः । म॒त्स॒रः । मदः॑ । सोमः॑ । प॒वित्रे॑ । अ॒र्ष॒ति॒ ।

वि॒ऽघ्नन् । रक्षां॑सि । दे॒व॒ऽयुः ॥३

अतिऽऊर्मिः । मत्सरः । मदः । सोमः । पवित्रे । अर्षति ।

विऽघ्नन् । रक्षांसि । देवऽयुः ॥३

“अत्यूर्मिः । अतिक्रान्ता ऊर्मयो यस्मात् सोऽत्यूर्मिः । अतिप्रवृद्ध इत्यर्थः। “मत्सरः मादनशील: “मदः मदात्मकः “सोमः “पवित्रे “अर्षति गच्छति । किं कुर्वन् । “रक्षांसि “विघ्नन् घातयन् “देवयुः देवान् कामयमानोऽर्षतीति संबन्धः ॥


पवित्रेष्ट्यां द्वितीयाज्यभागस्य ‘आ कलशेषु' इति याज्या। सूत्रितं च- आ कलशेषु धावति पवित्रे परिषिच्यत इत्येका' (आश्व. श्रौ. ५. १२) इति ।

आ क॒लशे॑षु धावति प॒वित्रे॒ परि॑ षिच्यते ।

उ॒क्थैर्य॒ज्ञेषु॑ वर्धते ॥४

आ । क॒लशे॑षु । धा॒व॒ति॒ । प॒वित्रे॑ । परि॑ । सि॒च्य॒ते॒ ।

उ॒क्थैः । य॒ज्ञेषु॑ । व॒र्ध॒ते॒ ॥४

आ । कलशेषु । धावति । पवित्रे । परि । सिच्यते ।

उक्थैः । यज्ञेषु । वर्धते ॥४

अयं सोमः कलशेषु “आ “धावति । तदर्थं “पवित्रे “परि “षिच्यते अध्वर्युभिः । “उक्थैः स्तोत्रैः "यज्ञेषु निमित्तेषु “वर्धते प्रवृद्धो भवति ।


अति॒ त्री सो॑म रोच॒ना रोह॒न्न भ्रा॑जसे॒ दिवं॑ ।

इ॒ष्णन्त्सूर्यं॒ न चो॑दयः ॥५

अति॑ । त्री । सो॒म॒ । रो॒च॒ना । रोह॑न् । न । भ्रा॒ज॒से॒ । दिव॑म् ।

इ॒ष्णन् । सूर्य॑म् । न । चो॒द॒यः॒ ॥५

अति । त्री । सोम । रोचना । रोहन् । न । भ्राजसे । दिवम् ।

इष्णन् । सूर्यम् । न । चोदयः ॥५

हे सोम त्वं “त्री “रोचना त्रीणि रोचनानि त्रीँल्लोकान् “अति अतिक्रम्य “रोहन उपरिस्थं “दिवं द्युलोकं “भ्राजसे प्रकाशयसि । तथा “इष्णन् गच्छन् “सूर्यं “न सूर्यं च “चोदयः चोदयसि प्रेरयसि । नशब्दश्चार्थे ।


अ॒भि विप्रा॑ अनूषत मू॒र्धन्य॒ज्ञस्य॑ का॒रवः॑ ।

दधा॑ना॒श्चक्ष॑सि प्रि॒यं ॥६

अ॒भि । विप्राः॑ । अ॒नू॒ष॒त॒ । मू॒र्धन् । य॒ज्ञस्य॑ । का॒रवः॑ ।

दधा॑नाः । चक्ष॑सि । प्रि॒यम् ॥६

अभि । विप्राः । अनूषत । मूर्धन् । यज्ञस्य । कारवः ।

दधानाः । चक्षसि । प्रियम् ॥६

“अभि “अनूषत अभिष्टुवन्ति “विप्राः मेधाविनः स्तोतारः । कुत्र। "यज्ञस्य “मूर्धन् मूर्धनि । शिरोवदुत्तमेऽभिषवदिवस इत्यर्थः । कीदृशास्ते । “कारवः कर्तारः परिचर्याया यागानुष्ठातारो वा । “चक्षसि दृष्टरि सोमे “प्रियं “दधानाः अभ्यनूषतेति समन्वयः ॥


तमु॑ त्वा वा॒जिनं॒ नरो॑ धी॒भिर्विप्रा॑ अव॒स्यवः॑ ।

मृ॒जंति॑ दे॒वता॑तये ॥७

तम् । ऊं॒ इति॑ । त्वा॒ । वा॒जिन॑म् । नरः॑ । धी॒भिः । विप्राः॑ । अ॒व॒स्यवः॑ ।

मृ॒जन्ति॑ । दे॒वऽता॑तये ॥७

तम् । ऊं इति । त्वा । वाजिनम् । नरः । धीभिः । विप्राः । अवस्यवः ।

मृजन्ति । देवऽतातये ॥७

हे सोम “तमु तमेव “त्वा त्वां “वाजिनम् अन्नवन्तं गमनवन्तं वा “नरः नेतारः “विप्राः मेधाविनोऽध्वर्वा“वदयः “धीभिः कर्मभिः "मृजन्ति शोधयन्ति “देवतातये यज्ञार्थम् । किमिच्छवः । “अवस्यवः अन्नमिच्छवः॥


मधो॒र्धारा॒मनु॑ क्षर ती॒व्रः स॒धस्थ॒मास॑दः ।

चारु॑र्ऋ॒ताय॑ पी॒तये॑ ॥८

मधोः॑ । धारा॑म् । अनु॑ । क्ष॒र॒ । ती॒व्रः । स॒धऽस्थ॑म् । आ । अ॒स॒दः॒ ।

चारुः॑ । ऋ॒ताय॑ । पी॒तये॑ ॥८

मधोः । धाराम् । अनु । क्षर । तीव्रः । सधऽस्थम् । आ । असदः ।

चारुः । ऋताय । पीतये ॥८

हे सोम त्वं “मधोः मधुररसस्य “धारामनु “क्षर प्रवहन्। "तीव्रः तीव्ररसः सन् “सधस्थं सहस्थानमभिषवस्थानं पवित्रं वा “आ “असदः सीद। “चारुः चरणशीलः सन् “ऋताय यज्ञार्थं “पीतये देवानां पानाय ॥ ॥ ७ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.१७&oldid=208519" इत्यस्माद् प्रतिप्राप्तम्