सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १/पौष्कलम्

विकिस्रोतः तः
सफ-पौष्कलम्
पौष्कलम्
पौष्कलम्.

इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः ।
श्रुष्टे जातास इन्दवः स्वर्विदः ॥ ६९४ ॥
अयं भराय सानसिरिन्द्राय पवते सुतः ।
सोमो जैत्रस्य चेतति यथा विदे ॥ ६९५ ॥
अस्येदिन्द्रो मदेष्वा ग्राभं गृभ्णाति सानसिं ।
वज्रं च वृषणं भरत्समप्सुजित् ॥६९६ ॥







१० पौष्कलम् ।। प्रजापतिः । उष्णिक् । पवमानः सोमः

इन्द्रमाऽ३च्छसु । ताईऽ२३४माइ ।। वृषाणंया । तूहाराऽ२३४याः ।
श्रुष्टाइ”जाता। सईऽ२न्दाऽ२३४५वाऽ६५६ः ।। सुविर्विदाऽ२३४५ः । श्रीः ।।
अयंभाऽ३राय । सानाऽ२३४साइः ।। इन्द्रायपा । वाताइसू२३४ताः ।।
सोमो”जैत्रा । स्यचाऽ२इताऽ२३४५ताऽ६५६इ ।। यथाविदेऽ२३४५ ।। श्रीः ।।
अस्येदीऽ३न्द्रोम । दाइषूऽ२३४वा ।। ग्राभंगृभ्णा। ताइसानाऽ२३४साइम् ।।
वज्रा”ञ्चवा । षणाऽ२म्भाऽ२३४५राऽ६५६त् ।। समप्सुजीऽ२३४५त् ।।

दी. ९ उत् १२ मा. १९ थो ।। १०।।



[सम्पाद्यताम्]

टिप्पणी

तान् एकरूपान्न व्यजानात्। स एतत् पौष्कलं सामापश्यत्। तेनैषां रूपाणि व्यकरोत्। ते नानारूपा अभवन् श्वेतो रोहितः कृष्णः। एकरूपा ह वाव ते ततः पुरासू रोहिता एव। बहुरूपान् नानारूपान् पशून् अवरुन्द्धे बहुपशुर् भवति य एवं वेद॥

अथ पौष्कलम्। पुष्कल आङ्गिरसः पशुकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। ततो वै पशून् अवारुन्द्ध। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् उ पुष्कल आङ्गिरसो ऽपश्यत् तस्मात् पौष्कलम् इत्य् आख्यायते। तच् चतुरक्षरणिधनं भवति। चतुष्पदा वै पशवः। पशव इव उष्णिक्। अभि पूर्वाणाम् एव पशूनाम् अवरुद्ध्यै॥जै.ब्रा. १.१६०

पुराणेषु पुष्करत्रयाणां वर्णनमस्ति। ब्रह्माण्डपुराणे २.३.३४ मध्यमपुष्करे परशुरामस्य तपसः वर्णनमस्ति। पद्मपुराणे १.२० कनिष्ठपुष्करस्य वर्णनमस्ति।

पुष्कर उपरि टिप्पणी

पुष्कल उपरि टिप्पणी

रोहितकूलीयम्

श्रुध्यम्

सुज्ञानम्

पदे (ग्रामगेयः)