सामवेदः/कौथुमीया/संहिता/ऊहगानम्/संवत्सरपर्व/विंशः ६/श्रुध्यम्

विकिस्रोतः तः
श्रुध्यम्.
श्रुध्यम्

इ꣢न्द्र꣣म꣡च्छ꣢ सु꣣ता꣢ इ꣣मे꣡ वृष꣢꣯णं यन्तु꣣ ह꣡र꣢यः।
श्रु꣣ष्टे꣢ जा꣣ता꣢स꣣ इ꣡न्द꣢वः स्व꣣र्वि꣡दः꣢ ।।1 ।।
अ꣣यं꣡ भरा꣢꣯य सान꣣सि꣡रिन्द्रा꣢꣯य पवते सु꣣तः꣢।
सो꣢मो꣣ जै꣡त्र꣢स्य चेतति꣣ य꣡था꣢ वि꣣दे꣢ ।।2 ।।
अ꣣स्ये꣢꣫दिन्द्रो꣣ म꣢दे꣣ष्वा꣢ ग्रा꣣भं गृ꣢भ्णाति सान꣣सि꣢म्।
व꣡ज्रं꣢ च꣣ वृ꣡ष꣢णं भर꣣त्स꣡म꣢प्सु꣣जि꣢त् ।।3 ।।17(कि)।।
१७
इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः ।
श्रुष्टे जातास इन्दवः स्वर्विदः ॥ ६९४ ॥ ऋ. ९.१०६.१
अयं भराय सानसिरिन्द्राय पवते सुतः ।
सोमो जैत्रस्य चेतति यथा विदे ॥ ६९५ ॥
अस्येदिन्द्रो मदेष्वा ग्राभं गृभ्णाति सानसिं ।
वज्रं च वृषणं भरत्समप्सुजित् ॥६९६ ॥



२०. श्रुध्यम् ।। प्रजापतिः । उष्णिक् । पवमानस्सोमः ।।
इन्द्रमच्छाऽ२सु । ताइमोवा ।। वृषणंया । तुहरयाः । श्रुष्टेजातासइन्दवस्सु । वाऽ२३ः । विदाउवा । श्रूधियाऽ२ ।। श्रीः ।। अयंभराऽ२य । सानसोवा ।। इन्द्रायपा । वतेसुताः । सोमोजैत्रस्यचेततिय । थाऽ२३ । विदाउवा ।। श्रूधियाऽ२ ।। श्रीः ।। अस्येदिन्द्रोऽ२म । देषुवोवा ।। ग्राभंगृभ्णा । तिसानसाइम् । वज्रंचवृषणंभरत्सम् । आऽ२३ । प्सुजाउवा ।। श्रूधियाऽ२ ।। एऽ२३हियाऽ३४३ । ओऽ२३४५इ ।।डा।।।
दी. १८. उत् ६ मा १२ टा. ।।३४२।।


[सम्पाद्यताम्]

टिप्पणी

अथ श्रुधीयं कीर्तिमत् साम। पुण्यैनं कीर्तिर् उत्तस्थिवांसम् अनूत्तिष्ठाद् इति। - जै.ब्रा. 2.195

रोहितकूलीयम्

श्रुध्यम्

सुज्ञानम्

पौष्कलम्

पदे (ग्रामगेयः)