सामग्री पर जाएँ

ऋग्वेदः सूक्तं ९.१०७

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ९.१०७ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ९.१०६ ऋग्वेदः - मण्डल ९
सूक्तं ९.१०७
[[लेखकः :|]]
सूक्तं ९.१०८ →
ऋषयः - सप्तर्षयः (१ भरद्वाजो बार्हस्पत्यः, २ कश्यपो मारीचः, ३ गोतमो राहूगणः, ४ भौमोऽत्रिः, ५ विश्वामित्रो गाथिनः, ६ जमदग्निर्भार्गवः, ७ मैत्रावरुणिर्वासिष्ठः)।

दे. पवमानः सोमः। प्रगाथः (१,४, ६,८,९, १०, १२, १४, १७ बृहती, २, ५,७, ११, १२, १५, १८ सतोबृहती) ३, १६ द्विपदा विराट्, १९-२६ प्रगाथः (विषमा बृहती, समा सतोबृहती)।

सप्तर्षि saptarshi
Sapta Rishi statue


परीतो षिञ्चता सुतं सोमो य उत्तमं हविः ।
दधन्वाँ यो नर्यो अप्स्वन्तरा सुषाव सोममद्रिभिः ॥१॥
नूनं पुनानोऽविभिः परि स्रवादब्धः सुरभिन्तरः ।
सुते चित्त्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरम् ॥२॥
परि सुवानश्चक्षसे देवमादनः क्रतुरिन्दुर्विचक्षणः ॥३॥
पुनानः सोम धारयापो वसानो अर्षसि ।
आ रत्नधा योनिमृतस्य सीदस्युत्सो देव हिरण्ययः ॥४॥
दुहान ऊधर्दिव्यं मधु प्रियं प्रत्नं सधस्थमासदत् ।
आपृच्छ्यं धरुणं वाज्यर्षति नृभिर्धूतो विचक्षणः ॥५॥
पुनानः सोम जागृविरव्यो वारे परि प्रियः ।
त्वं विप्रो अभवोऽङ्गिरस्तमो मध्वा यज्ञं मिमिक्ष नः ॥६॥
सोमो मीढ्वान्पवते गातुवित्तम ऋषिर्विप्रो विचक्षणः ।
त्वं कविरभवो देववीतम आ सूर्यं रोहयो दिवि ॥७॥
सोम उ षुवाणः सोतृभिरधि ष्णुभिरवीनाम् ।
अश्वयेव हरिता याति धारया मन्द्रया याति धारया ॥८॥
अनूपे गोमान्गोभिरक्षाः सोमो दुग्धाभिरक्षाः ।
समुद्रं न संवरणान्यग्मन्मन्दी मदाय तोशते ॥९॥
आ सोम सुवानो अद्रिभिस्तिरो वाराण्यव्यया ।
जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दधिषे ॥१०॥
स मामृजे तिरो अण्वानि मेष्यो मीळ्हे सप्तिर्न वाजयुः ।
अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिरृक्वभिः ॥११॥
प्र सोम देववीतये सिन्धुर्न पिप्ये अर्णसा ।
अंशोः पयसा मदिरो न जागृविरच्छा कोशं मधुश्चुतम् ॥१२॥
आ हर्यतो अर्जुने अत्के अव्यत प्रियः सूनुर्न मर्ज्यः ।
तमीं हिन्वन्त्यपसो यथा रथं नदीष्वा गभस्त्योः ॥१३॥
अभि सोमास आयवः पवन्ते मद्यं मदम् ।
समुद्रस्याधि विष्टपि मनीषिणो मत्सरासः स्वर्विदः ॥१४॥
तरत्समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत् ।
अर्षन्मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत् ॥१५॥
नृभिर्येमानो हर्यतो विचक्षणो राजा देवः समुद्रियः ॥१६॥
इन्द्राय पवते मदः सोमो मरुत्वते सुतः ।
सहस्रधारो अत्यव्यमर्षति तमी मृजन्त्यायवः ॥१७॥
पुनानश्चमू जनयन्मतिं कविः सोमो देवेषु रण्यति ।
अपो वसानः परि गोभिरुत्तरः सीदन्वनेष्वव्यत ॥१८॥
तवाहं सोम रारण सख्य इन्दो दिवेदिवे ।
पुरूणि बभ्रो नि चरन्ति मामव परिधीँरति ताँ इहि ॥१९॥
उताहं नक्तमुत सोम ते दिवा सख्याय बभ्र ऊधनि ।
घृणा तपन्तमति सूर्यं परः शकुना इव पप्तिम ॥२०॥
मृज्यमानः सुहस्त्य समुद्रे वाचमिन्वसि ।
रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि ॥२१॥
मृजानो वारे पवमानो अव्यये वृषाव चक्रदो वने ।
देवानां सोम पवमान निष्कृतं गोभिरञ्जानो अर्षसि ॥२२॥
पवस्व वाजसातयेऽभि विश्वानि काव्या ।
त्वं समुद्रं प्रथमो वि धारयो देवेभ्यः सोम मत्सरः ॥२३॥
स तू पवस्व परि पार्थिवं रजो दिव्या च सोम धर्मभिः ।
त्वां विप्रासो मतिभिर्विचक्षण शुभ्रं हिन्वन्ति धीतिभिः ॥२४॥
पवमाना असृक्षत पवित्रमति धारया ।
मरुत्वन्तो मत्सरा इन्द्रिया हया मेधामभि प्रयांसि च ॥२५॥
अपो वसानः परि कोशमर्षतीन्दुर्हियानः सोतृभिः ।
जनयञ्ज्योतिर्मन्दना अवीवशद्गाः कृण्वानो न निर्णिजम् ॥२६॥


सायणभाष्यम्

‘परीतः' इति षड्विंशत्यृचं चतुर्थं सूक्तम् । ‘त्वं सोमासि' (ऋ. सं. ९. ६७ ) इत्यत्रोक्ता भरद्वाजकश्यपाद्याः सप्तर्षयः । आद्या बृहती द्वितीया सतोबृहती। अयमेकः प्रगाथः । 'परि सुवानः इत्येषा तृतीयैकविंशत्यक्षरा भुरिग्विराड् द्विपदा । 'नृभिर्येमानः' इति षोडशी विंशत्यक्षरा द्विपदा विराट् । चतुर्थ्यादिद्वौ प्रगाथौ । दशम्यादित्रयः सप्तदश्यादिपञ्च प्रगाथाः । पवमानः सोमो देवता । तथा चानुक्रम्यते – “परीतः षड्विंशतिः सप्तर्षयः प्रागाथं तृतीयाषोळश्यौ द्विपदे अष्टम्याद्ये बृहत्यौ' इति । गतः सूक्तविनियोगः ॥


परी॒तो षि॑ञ्चता सु॒तं सोमो॒ य उ॑त्त॒मं ह॒विः ।

द॒ध॒न्वाँ यो नर्यो॑ अ॒प्स्व१॒॑न्तरा सु॒षाव॒ सोम॒मद्रि॑भिः ॥१

परि॑ । इ॒तः । सि॒ञ्च॒त॒ । सु॒तम् । सोमः॑ । यः । उ॒त्ऽत॒मम् । ह॒विः ।

द॒ध॒न्वान् । यः । नर्यः॑ । अ॒प्ऽसु । अ॒न्तः । आ । सु॒साव॑ । सोम॑म् । अद्रि॑ऽभिः ॥१

परि । इतः । सिञ्चत । सुतम् । सोमः । यः । उत्ऽतमम् । हविः ।

दधन्वान् । यः । नर्यः । अप्ऽसु । अन्तः । आ । सुसाव । सोमम् । अद्रिऽभिः ॥१

हे ऋत्विजः “सुतम् अभिषुतं सोमम् “इतः अस्मात् कर्मण ऊर्ध्वमथवास्मात्प्रदेशादूर्ध्वं “परि “षिञ्चत वसतीवरीभिः ॥ ‘ इतो षिञ्चत ' इत्यत्र संहितायां ' छन्दसि ' इति रोरुत्वम्। आदेशप्रत्यययोः' इति षत्वम् ॥ “यः “सोमः देवानाम् “उत्तम प्रशस्यं “हविः भवति ॥ “आ अपि च। “नर्यः मनुष्यहितः “यः च सोमः “ अप्सु वसतीवरीष्वन्तरिक्षे वा “अन्तः दधन्वान् गच्छन् भवति तं “सोममद्रिभिः ग्रावभिरध्वर्युः “सुषाव अभिषुतं चकार । तं परि षिञ्चतेति समन्वयः ॥


नू॒नं पु॑ना॒नोऽवि॑भि॒ः परि॑ स्र॒वाद॑ब्धः सुर॒भिन्त॑रः ।

सु॒ते चि॑त्त्वा॒प्सु म॑दामो॒ अन्ध॑सा श्री॒णन्तो॒ गोभि॒रुत्त॑रम् ॥२

नू॒नम् । पु॒ना॒नः । अवि॑ऽभिः । परि॑ । स्र॒व॒ । अद॑ब्धः । सु॒र॒भिम्ऽत॑रः ।

सु॒ते । चि॒त् । त्वा॒ । अ॒प्ऽसु । म॒दा॒मः॒ । अन्ध॑सा । श्री॒णन्तः॑ । गोभिः॑ । उत्ऽत॑रम् ॥२

नूनम् । पुनानः । अविऽभिः । परि । स्रव । अदब्धः । सुरभिम्ऽतरः ।

सुते । चित् । त्वा । अप्ऽसु । मदामः । अन्धसा । श्रीणन्तः । गोभिः । उत्ऽतरम् ॥२

हे सोम “अदब्धः कैश्चिदप्यहिंसितः “सुरभिंतरः अत्यन्तं सुगन्धिस्त्वं “नूनम् इदानीं “पुनानः पूयमानः सन् "अविभिः अविवालकृतैः पवित्रैस्तेभ्यः “परि “स्रव परितः क्षर। “सुते “चित् अभिषुते सति “अन्धसा सक्तुलक्षणेनान्नेन “गोभिः गोविकारैः क्षीरैः क्षीरादिभिः “श्रीणन्तः मिश्रयन्तो वयम् “उत्तरम् उद्गततरम् “अप्सु वसतीवरीषु संस्थितं त्वां “मदामः मन्दामहे स्तुमः ॥


परि॑ सुवा॒नश्चक्ष॑से देव॒माद॑न॒ः क्रतु॒रिन्दु॑र्विचक्ष॒णः ॥३

परि॑ । सु॒वा॒नः । चक्ष॑से । दे॒व॒ऽमाद॑नः । क्रतुः॑ । इन्दुः॑ । वि॒ऽच॒क्ष॒णः ॥३

परि । सुवानः । चक्षसे । देवऽमादनः । क्रतुः । इन्दुः । विऽचक्षणः ॥३

“सुवानः अभिषूयमाणः सोमः “चक्षसे सर्वेषां दर्शनाय “परि स्रवति । कीदृशः । “देवमादनः देवानां तर्पयिता “क्रतुः कर्ता “इन्दुः पात्रेषु क्षरणशीलो दीप्तो वा “विचक्षणः सर्वस्य विद्रष्टा ॥


पु॒ना॒नः सो॑म॒ धार॑या॒पो वसा॑नो अर्षसि ।

आ र॑त्न॒धा योनि॑मृ॒तस्य॑ सीद॒स्युत्सो॑ देव हिर॒ण्ययः॑ ॥४

पु॒ना॒नः । सो॒म॒ । धार॑या । अ॒पः । वसा॑नः । अ॒र्ष॒सि॒ ।

आ । र॒त्न॒ऽधाः । योनि॑म् । ऋ॒तस्य॑ । सी॒द॒सि॒ । उत्सः॑ । दे॒व॒ । हि॒र॒ण्ययः॑ ॥४

पुनानः । सोम । धारया । अपः । वसानः । अर्षसि ।

आ । रत्नऽधाः । योनिम् । ऋतस्य । सीदसि । उत्सः । देव । हिरण्ययः ॥४

हे “सोम “पुनानः पूयमानस्त्वम् “अपः उदकानि वसतीवर्याख्यानि “वसानः आच्छादयन् “धारया “अर्षसि पवित्रं गच्छसि । ततः “रत्नधाः रत्नानां दाता त्वम् “ऋतस्य सत्यभूतस्य यज्ञस्य “योनिं स्थानम् “आ “सीदसि । हे देव द्योतमान सोम “उत्सः प्रस्यन्दनशीलस्त्वं “हिरण्ययः हिरण्मयो हिरण्यस्योत्पत्तिस्थानं खलु । यद्वा देवानां हितरमणीयो भवसि ॥


दु॒हा॒न ऊध॑र्दि॒व्यं मधु॑ प्रि॒यं प्र॒त्नं स॒धस्थ॒मास॑दत् ।

आ॒पृच्छ्यं॑ ध॒रुणं॑ वा॒ज्य॑र्षति॒ नृभि॑र्धू॒तो वि॑चक्ष॒णः ॥५

दु॒हा॒नः । ऊधः॑ । दि॒व्यम् । मधु॑ । प्रि॒यम् । प्र॒त्नम् । स॒धऽस्थ॑म् । आ । अ॒स॒द॒त् ।

आ॒ऽपृच्छ्य॑म् । ध॒रुण॑म् । वा॒जी । अ॒र्ष॒ति॒ । नृऽभिः॑ । धू॒तः । वि॒ऽच॒क्ष॒णः ॥५

दुहानः । ऊधः । दिव्यम् । मधु । प्रियम् । प्रत्नम् । सधऽस्थम् । आ । असदत् ।

आऽपृच्छ्यम् । धरुणम् । वाजी । अर्षति । नृऽभिः । धूतः । विऽचक्षणः ॥५

“मधु मदकरं “प्रियं प्रीणनकारि “दिव्यं दिवि भवम् “ऊधः सोमवल्लीलक्षणं “दुहानः सोमः “प्रत्नं पुरातनं “सधस्थम् । सह तिष्ठन्त्यत्रेति सधस्थं स्थानम्। अन्तरिक्षम् “आसदत् आसीदति । सदेर्लुङि रूपम् । ततः “आपृच्छ्यं कर्मण्याप्रष्टव्यं “धरुणं कर्मणो धारयितारं यजमानं "वाजी अन्नवान् सोमः “अर्षति । तस्मा अन्नं दातुमभिगच्छति । कीदृशः । “नृभिः कर्मनेतृभिर्ऋत्विग्भिः “धूतः अदाभ्यगृहे परिशोधितः । तैरेनं चतुराधूनोति पञ्चकृत्वः सप्तकृत्वो वा' इत्यापस्तम्बेन सूत्रितम् । “विचक्षणः सर्वस्य विद्रष्टा ॥ ॥ १२ ॥


पु॒ना॒नः सो॑म॒ जागृ॑वि॒रव्यो॒ वारे॒ परि॑ प्रि॒यः ।

त्वं विप्रो॑ अभ॒वोऽङ्गि॑रस्तमो॒ मध्वा॑ य॒ज्ञं मि॑मिक्ष नः ॥६

पु॒ना॒नः । सो॒म॒ । जागृ॑विः । अव्यः॑ । वारे॑ । परि॑ । प्रि॒यः ।

त्वम् । विप्रः॑ । अ॒भ॒वः॒ । अङ्गि॑रःऽतमः । मध्वा॑ । य॒ज्ञम् । मि॒मि॒क्ष॒ । नः॒ ॥६

पुनानः । सोम । जागृविः । अव्यः । वारे । परि । प्रियः ।

त्वम् । विप्रः । अभवः । अङ्गिरःऽतमः । मध्वा । यज्ञम् । मिमिक्ष । नः ॥६

हे “सोम “जागृविः जागरणशीलः “प्रियः प्रीणयिता त्वं “पुनानः पूयमानः सन् “अव्यः अवेः “वारे वाले पवित्रे "परि क्षरसि । किंच “विप्रः मेधावी “त्वम् “अङ्गिरस्तमः अङ्गिरसां वरिष्ठः पितॄणां नेता “अभवः भवसि । स त्वं “नः अस्मदीयं “यज्ञं “मध्वा मधुनात्मीयेन रसेन “मिमिक्ष सिञ्च । मिहेः सेचनार्थस्य सनि रूपम् ॥


सोमो॑ मी॒ढ्वान्प॑वते गातु॒वित्त॑म॒ ऋषि॒र्विप्रो॑ विचक्ष॒णः ।

त्वं क॒विर॑भवो देव॒वीत॑म॒ आ सूर्यं॑ रोहयो दि॒वि ॥७

सोमः॑ । मी॒ढ्वान् । प॒व॒ते॒ । गा॒तु॒वित्ऽत॑मः । ऋषिः॑ । विप्रः॑ । वि॒ऽच॒क्ष॒णः ।

त्वम् । क॒विः । अ॒भ॒वः॒ । दे॒व॒ऽवीत॑मः । आ । सूर्य॑म् । रो॒ह॒यः॒ । दि॒वि ॥७

सोमः । मीढ्वान् । पवते । गातुवित्ऽतमः । ऋषिः । विप्रः । विऽचक्षणः ।

त्वम् । कविः । अभवः । देवऽवीतमः । आ । सूर्यम् । रोहयः । दिवि ॥७

“मीढ्वान् कामानां सेक्ता “सोमः “पवते क्षरति । कीदृशः । “गातुवित्तमः अत्यन्तं मार्गस्य लम्भकः “ऋषिः सर्वस्य प्रदर्शकः “विप्रः मेधावी “विचक्षणः विद्रष्टा । किंच “कविः क्रान्तप्रज्ञः “त्वं “देववीतमः अत्यन्तं देवकामः “अभवः भवसि । अपि च “दिवि द्युलोके “सूर्यम् “आ “रोहयः प्रादुर्भावयसि ॥


सोम॑ उ षुवा॒णः सो॒तृभि॒रधि॒ ष्णुभि॒रवी॑नाम् ।

अश्व॑येव ह॒रिता॑ याति॒ धार॑या म॒न्द्रया॑ याति॒ धार॑या ॥८

सोमः॑ । ऊं॒ इति॑ । सु॒वा॒नः । सो॒तृऽभिः॑ । अधि॑ । स्नुऽभिः॑ । अवी॑नाम् ।

अश्व॑याऽइव । ह॒रिता॑ । या॒ति॒ । धार॑या । म॒न्द्रया॑ । या॒ति॒ । धार॑या ॥८

सोमः । ऊं इति । सुवानः । सोतृऽभिः । अधि । स्नुऽभिः । अवीनाम् ।

अश्वयाऽइव । हरिता । याति । धारया । मन्द्रया । याति । धारया ॥८

"सोतृभिः अभिषुण्वद्भिर्ऋत्विग्भिः “सुवानः अभिषूयमाणः “सोमः “अवीनां स्नुभिः । ‘ मांस्पृत्स्नूनामुपसंख्यानम् ' (पा. सू. ६. १. ६३. १) इति सानुशब्दस्य स्नुभावः । समुच्छ्रितैर्वालैः पवित्रैः “अधि “याति अधिकं गच्छति । “उ इति प्रसिद्धौ । “अश्वयेव वडवयेव “हरिता हरितवर्णया “धारया “याति । “मन्द्रया मदकारिण्या “धारया द्रोणकलशमभिगच्छति॥


अ॒नू॒पे गोमा॒न्गोभि॑रक्षा॒ः सोमो॑ दु॒ग्धाभि॑रक्षाः ।

स॒मु॒द्रं न सं॒वर॑णान्यग्मन्म॒न्दी मदा॑य तोशते ॥९

अ॒नू॒पे । गोऽमा॑न् । गोभिः॑ । अ॒क्षा॒रिति॑ । सोमः॑ । दु॒ग्धाभिः॑ । अ॒क्षा॒रिति॑ ।

स॒मु॒द्रम् । न । स॒म्ऽवर॑णानि । अ॒ग्म॒न् । म॒न्दी । मदा॑य । तो॒श॒ते॒ ॥९

अनूपे । गोऽमान् । गोभिः । अक्षारिति । सोमः । दुग्धाभिः । अक्षारिति ।

समुद्रम् । न । सम्ऽवरणानि । अग्मन् । मन्दी । मदाय । तोशते ॥९

“गोमान् गोयुक्तः सोमः “अनूपे निम्ने देशे कलशे “गोभिः गोविकारैः क्षीरादिभिः सह “अक्षाः क्षरति । तदेवोच्यते । सः “सोमः आत्मनो मिश्रणार्थं “दुग्धाभिः गोभिः सह “अक्षाः क्षरति । क्षरतेर्लुङि रूपम् । किंच “समुद्रं “न यथा समुद्रमुदकानि गच्छन्ति तद्वत् "संवरणानि संभजनीयानि रसरूपाण्यन्नानि द्रोणकलशम् “अग्मन् गच्छन्ति । गमेर्लुङि च्लेर्लुकि रूपम् । किंच “मन्दी मदकरः सोमः “मदाय मदार्थं "तोशते हन्यतेऽभिषूयते । तोशतिर्वधकर्मा ॥


आ सो॑म सुवा॒नो अद्रि॑भिस्ति॒रो वारा॑ण्य॒व्यया॑ ।

जनो॒ न पु॒रि च॒म्वो॑र्विश॒द्धरि॒ः सदो॒ वने॑षु दधिषे ॥१०

आ । सो॒म॒ । सु॒वा॒नः । अद्रि॑ऽभिः । ति॒रः । वारा॑णि । अ॒व्यया॑ ।

जनः॑ । न । पु॒रि । च॒म्वोः॑ । वि॒श॒त् । हरिः॑ । सदः॑ । वने॑षु । द॒धि॒षे॒ ॥१०

आ । सोम । सुवानः । अद्रिऽभिः । तिरः । वाराणि । अव्यया ।

जनः । न । पुरि । चम्वोः । विशत् । हरिः । सदः । वनेषु । दधिषे ॥१०

हे “सोम “अद्रिभिः ग्रावभिः “सुवानः अभिषूयमाणस्त्वम् “अव्यया अविमयानि “वाराणि वालानि पवित्राणि "तिरः कुर्वन् व्यवधायकानि कुर्वाणः सन् “आ पवस इति शेषः । "हरिः हरितवर्णः स सोमः “चम्वोः अधिषवणफलकयोः उपरि स्थिते कलशे “विशत् प्रविशति । तत्र दृष्टान्तः । "जनो “न यथा जनः “पुरि पुरे प्रविशति । स त्वं “वनेषु काष्ठनिर्मितेषु पात्रेषु “सदः स्थानं “दधिषे करोषि ॥ ॥ १३ ॥


स मा॑मृजे ति॒रो अण्वा॑नि मे॒ष्यो॑ मी॒ळ्हे सप्ति॒र्न वा॑ज॒युः ।

अ॒नु॒माद्य॒ः पव॑मानो मनी॒षिभि॒ः सोमो॒ विप्रे॑भि॒रृक्व॑भिः ॥११

सः । म॒मृ॒जे॒ । ति॒रः । अण्वा॑नि । मे॒ष्यः॑ । मी॒ळ्हे । सप्तिः॑ । न । वा॒ज॒ऽयुः ।

अ॒नु॒ऽमाद्यः॑ । पव॑मानः । म॒नी॒षिऽभिः॑ । सोमः॑ । विप्रे॑भिः । ऋक्व॑ऽभिः ॥११

सः । ममृजे । तिरः । अण्वानि । मेष्यः । मीळ्हे । सप्तिः । न । वाजऽयुः ।

अनुऽमाद्यः । पवमानः । मनीषिऽभिः । सोमः । विप्रेभिः । ऋक्वऽभिः ॥११

“वाजयुः अन्नकामः “अण्वानि अणूनि सूक्ष्माणि “मेष्यः मेष्या अवे रोमाणि पवित्राणि “तिरः कुर्वन् “सः “सोमः “ममृजे परिशोध्यते । अलंक्रियते वा । तत्र दृष्टान्तः । “सप्तिर्न यथा जयकामैरश्वो “मीळ्हे संग्रामेऽलंक्रियते तद्वत् । कीदृशः । “अनुमाद्यः अनुमोदनीयः सर्वैः “पवमानो “मनीषिभिः ऋत्विग्भिः पूयमानः तथा “ऋक्वभिः । ‘ छन्दसीवनिपौ' इति वनिप्। स्तुतिमद्भिर्विप्रैर्मेधाविभिः अभिष्टुतो मृज्यते ॥


प्र सो॑म दे॒ववी॑तये॒ सिन्धु॒र्न पि॑प्ये॒ अर्ण॑सा ।

अं॒शोः पय॑सा मदि॒रो न जागृ॑वि॒रच्छा॒ कोशं॑ मधु॒श्चुत॑म् ॥१२

प्र । सो॒म॒ । दे॒वऽवी॑तये । सिन्धुः॑ । न । पि॒प्ये॒ । अर्ण॑सा ।

अं॒शोः । पय॑सा । म॒दि॒रः । न । जागृ॑विः । अच्छ॑ । कोश॑म् । म॒धु॒ऽश्चुत॑म् ॥१२

प्र । सोम । देवऽवीतये । सिन्धुः । न । पिप्ये । अर्णसा ।

अंशोः । पयसा । मदिरः । न । जागृविः । अच्छ । कोशम् । मधुऽश्चुतम् ॥१२

हे “सोम “देववीतये देवानां पानाय तदर्थम् “अर्णसा वसतीवर्याख्येनोदकेन “प्र “पिप्ये प्रप्यायसे । तत्र दृष्टान्तः । “सिन्धुर्न । यथा सिन्धुरुदकेन प्रपिप्ये प्रप्यायते तद्वत् । प्यायतेर्लिटि ‘ लिड्यङोश्च ' इति पीभावः । ततः स त्वं “मदिरो “न मदकरः सुरादिरिव “जागृविः जागरणशीलः। यद्वा । नः संप्रत्यर्थे । इदानीं मदकरो जागरणशीलस्त्वम्। “अंशोः लताखण्डस्य “पयसा रसेन “मधुश्चुतं मधुररसस्य क्षारयितारं “कोशं द्रोणकलशम् “अच्छ अभिगच्छसि ॥


आ ह॑र्य॒तो अर्जु॑ने॒ अत्के॑ अव्यत प्रि॒यः सू॒नुर्न मर्ज्यः॑ ।

तमीं॑ हिन्वन्त्य॒पसो॒ यथा॒ रथं॑ न॒दीष्वा गभ॑स्त्योः ॥१३

आ । ह॒र्य॒तः । अर्जु॑ने । अत्के॑ । अ॒व्य॒त॒ । प्रि॒यः । सू॒नुः । न । मर्ज्यः॑ ।

तम् । ई॒म् । हि॒न्व॒न्ति॒ । अ॒पसः॑ । यथा॑ । रथ॑म् । न॒दीषु॑ । आ । गभ॑स्त्योः ॥१३

आ । हर्यतः । अर्जुने । अत्के । अव्यत । प्रियः । सूनुः । न । मर्ज्यः ।

तम् । ईम् । हिन्वन्ति । अपसः । यथा । रथम् । नदीषु । आ । गभस्त्योः ॥१३

“हर्यतः स्पृहणीयः “प्रियः प्रीणयिता “सूनुर्न सूनुरिव “मर्ज्यः मार्जनीयः सोमः “अर्जुने अर्जुनवर्णे “अत्के रूपे पवित्रे “आ “अव्यत आवृणोति । “तमीम् एनं सोममङ्गुलयः “नदीषु नदमानासु वसतीवरीषु “गभस्त्योः बाह्वोः “आ आभिमुख्येन “हिन्वन्ति प्रेरयन्ति । तत्र दृष्टान्तः । “अपसो “यथा वेगवन्तो जनाः “रथं संग्रामेषु प्रेरयन्ति तद्वत् ॥


अ॒भि सोमा॑स आ॒यव॒ः पव॑न्ते॒ मद्यं॒ मद॑म् ।

स॒मु॒द्रस्याधि॑ वि॒ष्टपि॑ मनी॒षिणो॑ मत्स॒रासः॑ स्व॒र्विदः॑ ॥१४

अ॒भि । सोमा॑सः । आ॒यवः॑ । पव॑न्ते । मद्य॑म् । मद॑म् ।

स॒मु॒द्रस्य॑ । अधि॑ । वि॒ष्टपि॑ । म॒नी॒षिणः॑ । म॒त्स॒रासः॑ । स्वः॒ऽविदः॑ ॥१४

अभि । सोमासः । आयवः । पवन्ते । मद्यम् । मदम् ।

समुद्रस्य । अधि । विष्टपि । मनीषिणः । मत्सरासः । स्वःऽविदः ॥१४

“आयवः गमनशीलाः “सोमासः सोमाः “मद्यं मदकरं “मदम् आत्मीयं रसम् “अभि "पवन्ते । अभितो निर्गमयन्ति । कुत्रेत्युच्यते । “समुद्रस्य अन्तरिक्षस्य “अधि “विष्टपि अधिकं समुच्छ्रिते पवित्रे। यद्वा । समुद्रस्य । समुद्रवन्त्यस्माद्रसाः । तस्य कलशस्याध्युपरि विष्टपि स्थाने पवित्रे निर्गमयन्ति । कीदृशाः । “मनीषिणः मनस ईशितारः “मत्सरासः मदकराः “स्वर्विदः सर्वस्य लम्भकाः ॥


तर॑त्समु॒द्रं पव॑मान ऊ॒र्मिणा॒ राजा॑ दे॒व ऋ॒तं बृ॒हत् ।

अर्ष॑न्मि॒त्रस्य॒ वरु॑णस्य॒ धर्म॑णा॒ प्र हि॑न्वा॒न ऋ॒तं बृ॒हत् ॥१५

तर॑त् । स॒मु॒द्रम् । पव॑मानः । ऊ॒र्मिणा॑ । राजा॑ । दे॒वः । ऋ॒तम् । बृ॒हत् ।

अर्ष॑त् । मि॒त्रस्य॑ । वरु॑णस्य । धर्म॑णा । प्र । हि॒न्वा॒नः । ऋ॒तम् । बृ॒हत् ॥१५

तरत् । समुद्रम् । पवमानः । ऊर्मिणा । राजा । देवः । ऋतम् । बृहत् ।

अर्षत् । मित्रस्य । वरुणस्य । धर्मणा । प्र । हिन्वानः । ऋतम् । बृहत् ॥१५

“पवमानः पूयमानः "देवः द्योतमानः "बृहत् अत्यन्तम् “ऋतं सत्यभूतो “राजा सोमः “समुद्रम् अन्तरिक्षं कलशं वा “ऊर्मिणा धारया “तरत् तरति ।”हिन्वानः प्रेर्यमाणः “ऋतं “बृहत् अत्यन्तं सत्यभूतः स सोमः “मित्रस्य “वरुणस्य मित्रावरुणयोः “धर्मणा धारणार्थं “प्र “अर्षत् प्रगच्छति ॥ ॥१४॥


नृभि॑र्येमा॒नो ह॑र्य॒तो वि॑चक्ष॒णो राजा॑ दे॒वः स॑मु॒द्रियः॑ ॥१६

नृऽभिः॑ । ये॒मा॒नः । ह॒र्य॒तः । वि॒ऽच॒क्ष॒णः । राजा॑ । दे॒वः । स॒मु॒द्रियः॑ ॥१६

नृऽभिः । येमानः । हर्यतः । विऽचक्षणः । राजा । देवः । समुद्रियः ॥१६

“नृभिः कर्मनेतृभिः “येमानः नियम्यमानः “हर्यतः स्पृहणीयः “विचक्षणः विद्रष्टा “देवः दीप्यमानः “समुद्रियः अन्तरिक्षे भवः “राजा सोम इन्द्रार्थं पवत इत्युत्तरेण संबन्धः॥ ‘समुद्राभ्राद्धः इति भवार्थे घप्रत्ययः । ।


इन्द्रा॑य पवते॒ मद॒ः सोमो॑ म॒रुत्व॑ते सु॒तः ।

स॒हस्र॑धारो॒ अत्यव्य॑मर्षति॒ तमी॑ मृजन्त्या॒यवः॑ ॥१७

इन्द्रा॑य । प॒व॒ते॒ । मदः॑ । सोमः॑ । म॒रुत्व॑ते । सु॒तः ।

स॒हस्र॑ऽधारः । अति॑ । अव्य॑म् । अ॒र्ष॒ति॒ । तम् । ई॒मिति॑ । मृ॒ज॒न्ति॒ । आ॒यवः॑ ॥१७

इन्द्राय । पवते । मदः । सोमः । मरुत्वते । सुतः ।

सहस्रऽधारः । अति । अव्यम् । अर्षति । तम् । ईमिति । मृजन्ति । आयवः ॥१७

“मदः मादकः “सुतः अभिषुतः “सोमः “मरुत्वते मरुद्भिस्तद्वते “इन्द्राय इन्द्रार्थं “पवते क्षरति । ततः “सहस्रधारः बहुधारोपेतः सोमः “अव्यम् अविमयं पवित्रम् “अति “अर्षति अतिगच्छति । “तम् इमं सोमम् "आयवः मनुष्या ऋत्विजः “मृजन्ति शोधयन्ति ॥


पु॒ना॒नश्च॒मू ज॒नय॑न्म॒तिं क॒विः सोमो॑ दे॒वेषु॑ रण्यति ।

अ॒पो वसा॑न॒ः परि॒ गोभि॒रुत्त॑र॒ः सीद॒न्वने॑ष्वव्यत ॥१८

पु॒ना॒नः । च॒मू इति॑ । ज॒नय॑न् । म॒तिम् । क॒विः । सोमः॑ । दे॒वेषु॑ । र॒ण्य॒ति॒ ।

अ॒पः । वसा॑नः । परि॑ । गोभिः॑ । उत्ऽत॑रः । सीद॑न् । वने॑षु । अ॒व्य॒त॒ ॥१८

पुनानः । चमू इति । जनयन् । मतिम् । कविः । सोमः । देवेषु । रण्यति ।

अपः । वसानः । परि । गोभिः । उत्ऽतरः । सीदन् । वनेषु । अव्यत ॥१८

“चमू । सप्तम्याः पूर्वसवर्णदीर्घः। चम्वोरधिषवणफलकयोः “पुनानः पूयमानोऽभिषूयमाणः “मतिं स्तुतिं “जनयन् उत्पादयन् “कविः क्रान्तप्रज्ञ एतादृशः “सोमः “देवेषु इन्द्रादिषु “रण्यति। किंच “अपः वसतीवरीः “वसानः आच्छादयन् “वनेषु काष्ठेषु पात्रेषु “सीदन् सोमः “गोभिः गोविकारैः क्षीरादिभिः “परि “अव्यत परिदीयते । आच्छाद्यते ॥


तवा॒हं सो॑म रारण स॒ख्य इ॑न्दो दि॒वेदि॑वे ।

पु॒रूणि॑ बभ्रो॒ नि च॑रन्ति॒ मामव॑ परि॒धीँरति॒ ताँ इ॑हि ॥१९

तव॑ । अ॒हम् । सो॒म॒ । र॒र॒ण॒ । स॒ख्ये । इ॒न्दो॒ इति॑ । दि॒वेऽदि॑वे ।

पु॒रूणि॑ । ब॒भ्रो॒ इति॑ । नि । च॒र॒न्ति॒ । माम् । अव॑ । प॒रि॒ऽधीन् । अति॑ । तान् । इ॒हि॒ ॥१९

तव । अहम् । सोम । ररण । सख्ये । इन्दो इति । दिवेऽदिवे ।

पुरूणि । बभ्रो इति । नि । चरन्ति । माम् । अव । परिऽधीन् । अति । तान् । इहि ॥१९

हे “इन्दो हे “सोम “तव “सख्ये सखिकर्मणि “अहं “दिवेदिवे अन्वहं “रारण। रणेः लिट्युत्तमे णलि रूपम् । हे “बभ्रो बभ्रुवर्ण सोम “पुरूणि बहूनि रक्षांसि “मां तव सख्ये स्थितं “नि “अव “चरन्ति नीचीनं चरन्ति बाधन्ते । ये मां बाधन्ते “तान् “परिधीन राक्षसांस्त्वम् “अति “इहि अतीत्य गच्छ। जहीति यावत् ॥


उ॒ताहं नक्त॑मु॒त सो॑म ते॒ दिवा॑ स॒ख्याय॑ बभ्र॒ ऊध॑नि ।

घृ॒णा तप॑न्त॒मति॒ सूर्यं॑ प॒रः श॑कु॒ना इ॑व पप्तिम ॥२०

उ॒त । अ॒हम् । नक्त॑म् । उ॒त । सो॒म॒ । ते॒ । दिवा॑ । स॒ख्याय॑ । ब॒भ्रो॒ इति॑ । ऊध॑नि ।

घृ॒णा । तप॑न्तम् । अति॑ । सूर्य॑म् । प॒रः । श॒कु॒नाःऽइ॑व । प॒प्ति॒म॒ ॥२०

उत । अहम् । नक्तम् । उत । सोम । ते । दिवा । सख्याय । बभ्रो इति । ऊधनि ।

घृणा । तपन्तम् । अति । सूर्यम् । परः । शकुनाःऽइव । पप्तिम ॥२०

हे “बभ्रो बभ्रुवर्ण हे "सोम “उत अपि च “नक्तम् “उत अपि च “दिवा अहोरात्रयोः “सख्याय सख्यार्थं तव “ऊधनि समीपे “अहं रम इति शेषः । ते वयं “घृणा दीप्त्या “तपन्तं ज्वलन्तं “परः परमस्थानस्थितं “सूर्यं तदात्मकं त्वाम् “अति “पप्तिम । तत्र स्थितं त्वां प्राप्तुमतिपेतिम । कथमिव । “शकुनाइव । यथा सुपर्णादयः पक्षिणः सूर्यमतिगच्छन्ति तद्वत् ॥ ‘ पत्लृ गतौ । अस्माच्छान्दसे लिटि ‘ तनिपत्योश्छन्दसि' इत्युपधालोपः ॥ ॥ १५ ॥


मृ॒ज्यमा॑नः सुहस्त्य समु॒द्रे वाच॑मिन्वसि ।

र॒यिं पि॒शङ्गं॑ बहु॒लं पु॑रु॒स्पृहं॒ पव॑माना॒भ्य॑र्षसि ॥२१

मृ॒ज्यमा॑नः । सु॒ऽह॒स्त्य॒ । स॒मु॒द्रे । वाच॑म् । इ॒न्व॒सि॒ ।

र॒यिम् । पि॒शङ्ग॑म् । ब॒हु॒लम् । पु॒रु॒ऽस्पृह॑म् । पव॑मान । अ॒भि । अ॒र्ष॒सि॒ ॥२१

मृज्यमानः । सुऽहस्त्य । समुद्रे । वाचम् । इन्वसि ।

रयिम् । पिशङ्गम् । बहुलम् । पुरुऽस्पृहम् । पवमान । अभि । अर्षसि ॥२१

हे “सुहस्त्य। हस्ते भवा हस्त्या अङ्गुलयः । शोभनाङ्गुलिक सोम “मृज्यमानः शोध्यमानस्त्वं “समुद्रे अन्तरिक्षे कलशे वा “वाचं शब्दम् “इन्वसि प्रेरयसि । किंच हे “पवमान पूयमान सोम “पिशङ्गं हिरण्यैः पिशङ्गवर्णं “बहुलं प्रभूतं “पुरुस्पृहं बहुभिः स्पृहणीयं “रयिं धनम् “अभ्यर्षसि स्तोतॄणामभिक्षरसि प्रयच्छसि ॥


मृ॒जा॒नो वारे॒ पव॑मानो अ॒व्यये॒ वृषाव॑ चक्रदो॒ वने॑ ।

दे॒वानां॑ सोम पवमान निष्कृ॒तं गोभि॑रञ्जा॒नो अ॑र्षसि ॥२२

मृ॒जा॒नः । वारे॑ । पव॑मानः । अ॒व्यये॑ । वृषा॑ । अव॑ । च॒क्र॒दः॒ । वने॑ ।

दे॒वाना॑म् । सो॒म॒ । प॒व॒मा॒न॒ । निः॒ऽकृ॒तम् । गोभिः॑ । अ॒ञ्जा॒नः । अ॒र्ष॒सि॒ ॥२२

मृजानः । वारे । पवमानः । अव्यये । वृषा । अव । चक्रदः । वने ।

देवानाम् । सोम । पवमान । निःऽकृतम् । गोभिः । अञ्जानः । अर्षसि ॥२२

हे "सोम “वृषा वर्षिता त्वं “मृजानः वसतीवरीभिर्मृज्यमानोऽलंक्रियमाणः “अव्यये अविमये “वारे वाले पवित्रे “पवमानः पूयमानः सन् “वने वननीय उदके काष्ठे कलशे वा “अव “चक्रदः अवक्रन्दसि शब्दायसे । ततो हे “सोम हे “पवमान त्वं “गोभिः गव्यैः क्षीरादिभिः “अञ्जानः अज्यमानः सन् "निष्कृतं संस्कृतं “देवानां स्थानम् “अर्षसि गच्छसि ॥


पव॑स्व॒ वाज॑सातये॒ऽभि विश्वा॑नि॒ काव्या॑ ।

त्वं स॑मु॒द्रं प्र॑थ॒मो वि धा॑रयो दे॒वेभ्यः॑ सोम मत्स॒रः ॥२३

पव॑स्व । वाज॑ऽसातये । अ॒भि । विश्वा॑नि । काव्या॑ ।

त्वम् । स॒मु॒द्रम् । प्र॒थ॒मः । वि । धा॒र॒यः॒ । दे॒वेभ्यः॑ । सो॒म॒ । म॒त्स॒रः ॥२३

पवस्व । वाजऽसातये । अभि । विश्वानि । काव्या ।

त्वम् । समुद्रम् । प्रथमः । वि । धारयः । देवेभ्यः । सोम । मत्सरः ॥२३

हे सोम “विश्वानि सर्वाणि “काव्या कविकर्माणि स्तोत्राण्यभिलक्ष्य “वाजसातये अन्नलाभाय “पवस्व क्षर । हे “सोम “देवेभ्यः देवानां “मत्सरः मदकरः “प्रथमः सर्वदेवानां मुख्यः “त्वं “समुद्रम् अन्तरिक्षं कलशं वा “वि “धारयः विशेषेण धारयसि ॥


स तू प॑वस्व॒ परि॒ पार्थि॑वं॒ रजो॑ दि॒व्या च॑ सोम॒ धर्म॑भिः ।

त्वां विप्रा॑सो म॒तिभि॑र्विचक्षण शु॒भ्रं हि॑न्वन्ति धी॒तिभिः॑ ॥२४

सः । तु । प॒व॒स्व॒ । परि॑ । पार्थि॑वम् । रजः॑ । दि॒व्या । च॒ । सो॒म॒ । धर्म॑ऽभिः ।

त्वाम् । विप्रा॑सः । म॒तिऽभिः॑ । वि॒ऽच॒क्ष॒ण॒ । शु॒भ्रम् । हि॒न्व॒न्ति॒ । धी॒तिऽभिः॑ ॥२४

सः । तु । पवस्व । परि । पार्थिवम् । रजः । दिव्या । च । सोम । धर्मऽभिः ।

त्वाम् । विप्रासः । मतिऽभिः । विऽचक्षण । शुभ्रम् । हिन्वन्ति । धीतिऽभिः ॥२४

हे “सोम “सः तादृशस्त्वं “पार्थिवं “रजः लोकं प्रति दिव्यानि “च रजांसि प्रति “धर्मभिः धारकैः सह “तु क्षिप्रं “परि “पवस्व परितः क्षर। हे “विचक्षण विद्रष्टः सोम “विप्रासः विप्रा मेधाविनः “मतिभिः स्तुतिभिः “धीतिभिः अङ्गुलीभिश्च “शुभ्रं श्वेतवर्णं “त्वां “हिन्वन्ति प्रेरयन्ति ।


पव॑माना असृक्षत प॒वित्र॒मति॒ धार॑या ।

म॒रुत्व॑न्तो मत्स॒रा इ॑न्द्रि॒या हया॑ मे॒धाम॒भि प्रयां॑सि च ॥२५

पव॑मानाः । अ॒सृ॒क्ष॒त॒ । प॒वित्र॑म् । अति॑ । धार॑या ।

म॒रुत्व॑न्तः । म॒त्स॒राः । इ॒न्द्रि॒याः । हयाः॑ । मे॒धाम् । अ॒भि । प्रयां॑सि । च॒ ॥२५

पवमानाः । असृक्षत । पवित्रम् । अति । धारया ।

मरुत्वन्तः । मत्सराः । इन्द्रियाः । हयाः । मेधाम् । अभि । प्रयांसि । च ॥२५

“पवमानाः पूयमानाः सोमाः “धारया आत्मीयया “पवित्रम् अतीत्य “असृक्षत सृज्यन्ते । कीदृशाः । “मरुत्वन्तः मरुद्भिर्युक्ताः “मत्सराः मदकराः “इन्द्रियाः इन्द्रजुष्टाः। “मेधां स्तुतिं “प्रयांसि अन्नानि “च अभिलक्ष्य स्तोतृभ्यः उभयं कर्तुं वा “हयाः गन्तार एते सृज्यन्ते ॥


अ॒पो वसा॑न॒ः परि॒ कोश॑मर्ष॒तीन्दु॑र्हिया॒नः सो॒तृभिः॑ ।

ज॒नय॒ञ्ज्योति॑र्म॒न्दना॑ अवीवश॒द्गाः कृ॑ण्वा॒नो न नि॒र्णिज॑म् ॥२६

अ॒पः । वसा॑नः । परि॑ । कोश॑म् । अ॒र्ष॒ति॒ । इन्दुः॑ । हि॒या॒नः । सो॒तृऽभिः॑ ।

ज॒नय॑न् । ज्योतिः॑ । म॒न्दनाः॑ । अ॒वी॒व॒श॒त् । गाः । कृ॒ण्वा॒नः । न । निः॒ऽनिज॑म् ॥२६

अपः । वसानः । परि । कोशम् । अर्षति । इन्दुः । हियानः । सोतृऽभिः ।

जनयन् । ज्योतिः । मन्दनाः । अवीवशत् । गाः । कृण्वानः । न । निःऽनिजम् ॥२६

“अपः वसतीवरीः “वसानः आच्छादयन् “सोतृभिः अभिषुण्वद्भिः “हियानः प्रेर्यमाणः “इन्दुः सोमः “कोशं कलशं “परि “अर्षति प्रति गच्छति । किंच “ज्योतिः दीप्तिं "जनयन् उत्पादन “गाः गव्यानि क्षीरादीनि “निर्णिजम् आत्मनो रूपं “कृण्वानः कुर्वन् मिश्रयन् सोऽयं सोमः । नः संप्रत्यर्थे । इदानीं “मन्दनाः स्तुतीः “अवीवशत् कामयते । ‘वश कान्तौ । लुङि चङि रूपम् ॥ ॥१६॥


टिप्पणी

९.१०७.१ परीतो षिञ्चता सुतमिति

कौकिलसौत्रामणी -- श्यामाकसक्तूंस्त्रेधा विभज्य सुरायामुपरि विकीर्य तदुपरि दुग्धपरिषेचनार्थो अयं मन्त्रः - परीतो षिञ्चता सुतमिति - तै.ब्रा. २.६.१.१, आप.श्रौ.सू. १९.५.११

एकस्याः पयसाऽपाकृतेनाऽश्विनेन परिषिञ्चति परीतो षिञ्चतेति २३ शष्पचूर्णानि चाऽवपति २४ सारस्वतेन द्वयोः प्रातः २५ तोक्मचूर्णानि च २६ ऐन्द्रेणोत्तमे तिसॄणाम् २७ लाजचूर्णानि च २८ १ कात्यायनश्रौसू. १९.१.२८

परीतो षिञ्चता सुतम्"इति परिवत्यो भवन्त्यन्तो वै नवममहस्तस्यैताः पर्याप्त्यै - तांब्रा. १५.३.३

अच्छिद्रम्१-१५(ग्रामगेयः)

अर्कपुष्पम्

दैर्घश्रवसम्

यशः

कौल्मलबर्हिषम्

वैयश्वम्

देवस्थानम्

सङ्कृति

भर्गः

विश्वामित्र उपरि टिप्पणी

जमदग्नि उपरि टिप्पणी


९.१०७.४ पुनानः सोम धारया इति

आयास्यम् (ग्रामगेयः)

त्रिणिधनमायास्यम्

ऐडमायास्यम्

साप्तमिकमायास्यम्

कण्वरथन्तरम्

गौङ्गवम्

निषेधः

यज्ञायज्ञीयम्

उत्सेधः

भर्गः

अन्तरिक्षम्


९.१०७.८ सोम उ षुवाणः इति

सोमसामानि षट् (ग्रामगेयः)

मानवोत्तरम्

आनूपम्

वाम्रम्

अग्नेस्त्रिणिधनम्


९.१०७.१२ प्र सोम देववीतये इति

त्रीणिधनमाग्नेयम्


९.१०७.१४ अभि सोमास आयवः इति

पौरुमद्गम्

अभि सोमास आयव इत्य् अभीति भवति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः॥ ...... जै.ब्रा. ३.४०

द्विहिङ्कारवामदेव्यम्

गायत्रपार्श्वम्

पौरुहन्मनम्

द्वैगतम्

हारायणम्

अच्छिद्रम्

आनूपम्


९.१०७.१९ तवाहं सोम रारण इति

आष्टादꣳष्ट्रमोत्तरम्

आभीशवोत्तरम्

स्वᳲपृष्ठम्

महादिवाकीर्त्यानि

महावैराजे


९.१०७.२१ मृज्यमानः सुहस्त्या इति

औक्ष्णोरन्ध्राणि (ग्रामगेयः)

औक्ष्णोरन्ध्रम्

वाजजित्

वरुणसाम

अङ्गिरसां गोष्ठः

रयि उपरि टिप्पणी

९.१०७.२५ पवमाना असृक्षत इति

पवित्रम्



मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.१०७&oldid=400618" इत्यस्माद् प्रतिप्राप्तम्