सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १०/दैर्घश्रवसम्

विकिस्रोतः तः
दैर्घश्रवसम्
दैर्घश्रवसम्
दैर्घश्रवसम्.

१२
परीतो षिञ्चता सुतं सोमो य उत्तमं हविः ।
दधन्वां यो नर्यो अप्स्वा३न्तरा सुषाव सोममद्रिभिः ।। १३१३ ।। ऋ. ९.१०७.१
नूनं पुनानोऽविभिः परि स्रवादब्धः सुरभिन्तरः ।
सुते चित्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरं ।। १३१४ ।।



४. दैर्घश्रवसम् ॥ दीर्घश्रवाः। बृहती। पवमानस्सोमः॥
परीतोषिञ्चतासुतमोहाओहाऽ३ए ॥ सोमोयउत्तमꣳ हविः। ओऽ३हा । ओऽ३हाऽ३एऽ३४ ॥ दधाऽ३४न्वाँयाः ॥ नारियः। अप्सूअन्तरा । ओऽ३हा। ओऽ३हाऽ३एऽ३४ ॥ सुषाऽ३४वसोऽ३ ॥ ममोऽ२३४वा । द्राऽ५इभोऽ६“हाइ ॥ श्रीः ॥ सुषावसोममद्रिभिरोहाओहाऽ३ए । सुषावसोममद्रिभिः । ओऽ३हा । ओऽहाऽ३एऽ३४ ॥ नूनाऽ३४म्पुना । नोअवि । भिᳲपारिस्रवा। ओऽ३हा । ओ ऽ३हाऽ३एऽ३४ ॥ अदाऽ३४ब्धस्सूऽ३ ॥ रभोऽ२३४वा । ताऽ५रोऽ६"हाइ ॥ श्रीः ॥ अदब्धस्सुरभिन्तरओहाओहाऽ३ए । अदब्धस्सुरभिन्तरः । ओऽ३हा। ओऽ३हाऽ३एऽ३४ ॥ सुताऽ३४चित्वा । आप्सुम । दामोअन्धसा । ओऽ३हा । ओऽ३हाऽ३एऽ३४ ॥ श्रीणाऽ३४न्तोगोऽ३ ॥ भिरोऽ२३४वा । ताऽ५रोऽ६"हाइ ॥
दी. २३. उत्. ७. मा. २७. ठे. ॥१८४॥


[सम्पाद्यताम्]

टिप्पणी

अच्छिद्रम् (ग्रामगेयः)

दैर्घ्यश्रवसं भवति दीर्घश्रवा वै राजन्य ऋषिर्ज्योगपरुद्धोऽशनायंश्चरन् स एतद्दैर्घश्रवसमपश्यत् तेन सर्वाभ्यो दिग्भ्योऽन्नाद्यमवारुन्ध सर्वाभ्यो दिग्भ्योऽन्नाद्यमवरुन्धे दैर्घश्रवसेन तुष्टुवानः - तांब्रा. १५.३.२५