सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ४/आष्टादꣳष्ट्रोत्तरम्

विकिस्रोतः तः
आष्टादंष्ट्रोत्तरम्.
आष्टादंष्ट्रोत्तरम्

तवाहं सोम रारण सख्य इन्दो दिवेदिवे |
पुरूणि बभ्रो नि चरन्ति मामव परिधीं रति तांइहि || ९२२ ||
तवाहं नक्तमुत सोम ते दिवा दुहानो बभ्र ऊधनि |
घृणा तपन्तमति सूर्यं परः शकुना इव पप्तिम || ९२३ ||



६. आष्टादꣳष्ट्रोत्तरम् ॥ अष्टादꣳष्ट्रः । बृहती। पवमानः सोमः।
तवाहꣳ सोमरारणऐयादौ । होऽ३वा ॥ सख्यइन्दोदिवे । दाइवेऽ२३। ऐयाऽ२३त् । औऽ२३होवा ॥ पुरूणिबभ्रोनिचरन्तिमाम् । आवाऽ२३ । ऐयाऽ२३त् । औऽ२३होवा ॥ परिधीꣳररतितान् । आइहाऽ२३इ । ऐयाऽ२३त् । औऽ२३होवाऽ३४३ ॥ श्रीः ।। परिधीꣳररतिताꣳइहिऐयादौ । होऽ३वा ॥ परिधीꣳरतितान् । आइहाऽ२३इ । ऐयाऽ२३त् । औऽ२३होवा ॥ तवाहनक्तमुतसोमते । दाइवाऽ२३ । ऐयाऽ२३त् । औऽ२३होवा ॥ दुहानोबभ्रऊ । धानीऽ२३। ऐयाऽ२३त् । औऽ२३होवाऽ३४३ ॥श्रीः॥ दुहानोबभ्रऊधनिएयादौ । होऽ३वा ॥ दुहानोबभ्रऊ । धानीऽ२३ । ऐयाऽ२३त् । औऽ२३होवा ॥ घृणातपन्तमतिसूरियम् । पाराऽ२३ः । ऐयाऽ२३त् । औऽ२३होवा ॥ शकुनाइवप । प्ताइमाऽ२३ । ऐयाऽ२३त् । औऽ२३होवाऽ३४३ । ओऽ२३४५इ ॥ डा॥
दी.५६. उत्. १०. मा. ३१. ङ. ॥६९॥

[सम्पाद्यताम्]

टिप्पणी

तास्व् आष्टादंष्ट्रम् उक्तब्राह्मणम्। तद् ऊर्ध्वेळं भवति बृहतो रूपं बार्हते ऽहन्। तेन वै रूपं समृद्धम्॥जैब्रा 3.67