सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १०/वैयश्वम्

विकिस्रोतः तः
वैयश्वम्
वैयश्वम्.

परीतो षिञ्चता सुतं सोमो य उत्तमं हविः ।
दधन्वां यो नर्यो अप्स्वा३न्तरा सुषाव सोममद्रिभिः ।। १३१३ ।। ऋ. ९.१०७.१
नूनं पुनानोऽविभिः परि स्रवादब्धः सुरभिन्तरः ।
सुते चित्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरं ।। १३१४ ।।

[सम्पाद्यताम्]

टिप्पणी

अथ यशः। यशसा वै देवा यशो ऽभवन्। यशो ऽसामेति सत्रम् आसते। यश एव भवन्ति। तच् छ्रीर् वै यशः। अश्नुते श्रियं य एवं वेद। तद् उ सप्तत्रिंशदक्षरणिधनं भवति। षट्त्रिंशदक्षरा वै बृहती। बृहती स्वर्गो लोकः। असाव् आदित्यस् सप्तत्रिंशः। एतस्मिन्न् एव तत् स्वर्गे लोके ऽन्ततः प्रतितिष्ठन्ति। तस्यो एतां कल्याणीम् आशिषम् अन्तत आशासत आयुर् विश्वायुर् विश्वं विश्वम् आयुर् अशीमहीति। तयैवैतत् समृध्योदृचम् अश्नुवते। अथ शुल्कः। शुल्केन वै देवाश् शुल्को ऽभवन्। शुल्को ऽसामेति सत्रम् आसते। शुल्क एव भवन्ति। तच् छ्रीर् वै शुल्कः। अश्नुते श्रियं य एवं वेद। तद् व् एवाचक्षत आश्वम् इति। देवा वै स्वर्गकामास् तपो ऽतप्यन्त। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै ते स्वर्गं लोकम् आश्नुवत। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। - जैब्रा ३.२५८

वैयश्वं भवति यदेव वैयश्वस्य ब्राह्मणम् - पञ्च.ब्रा १५.३.२६