सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १५/पवित्रम्(पवमाना)

विकिस्रोतः तः

(५२२।१) ॥ पवित्रम् । आदित्योबृहतीमरुत्वान्त्सोमः ॥

प꣤व꣥मा꣯ना꣯असृक्षतपवा꣤इ॥ त्रा꣡मतिधा꣯रया꣯मरुत्वन्तो꣯मत्सरा꣯इन्द्री꣢ऽ३याः॥ हया꣡: ॥ माऽ२३इधा꣢म् ।। अ꣡भाये꣢ऽ३ । प्रा꣡ऽ२᳐या꣣ऽ२३४औ꣥꣯हो꣯वा ॥ सी꣣ऽ२३४चा꣥ ॥

(दी० ८ । प० ७ । मा० ८ )२७( ठै। १०१०)

पवित्रम्.

पवमाना असृक्षत पवित्रमति धारया ।

मरुत्वन्तो मत्सरा इन्द्रिया हया मेधामभि प्रयांसि च ॥ ५२२ ॥ ऋ. ९.१०७.२५

(५२२।१) ॥ पवित्रम् । आदित्योबृहतीमरुत्वान्त्सोमः ॥

पवमानाअसृक्षतपवाइ॥ त्रामतिधारयामरुत्वन्तोमत्सराइन्द्रीऽ३याः॥ हयाः ॥ माऽ२३इधाम् ।। अभायेऽ३ । प्राऽ२याऽ२३४औहोवा ॥ सीऽ२३४चा ॥

(दी० ८ । प० ७ । मा० ८ )२७( ठै। १०१०)

त्रिसप्तति पञ्चमः, पञ्चमः खण्डः ॥ ५॥ दशतिः ॥ ३ ॥

॥ इति बार्हतम् ॥

[सम्पाद्यताम्]

टिप्पणी