सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ६/अङ्गिरसां गोष्ठः

विकिस्रोतः तः
अङ्गिरसां गोष्ठः
अङ्गिरसां गोष्ठः.

१२
मृज्यमानः सुहस्त्य समुद्रे वाचमिन्वसि |
रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि || १०७९ ||
पुनानो वारे पवमानो अव्यये वृषो अचिक्रदद्वने |
देवानां सोम पवमान निष्कृतं गोभिरञ्जानो अर्षसि || १०८० ||



६. अङ्गिरसां गोष्ठः ।। अङ्गिरसः । बृहती। पवमानस्सोमः॥
हाउहाउहाउवा । मृज्यमानस्सुहस्त्या । इहा। उपाऽ२३४५ ॥ समुद्रेवाचमिन्वसि । इहा। उपाऽ२३४५ ॥ रयिंपिशङ्गंबहुलंपुरुस्पृहम् । इहा। उपाऽ२३४५ ॥ पवमानाभियर्षसि । इहा। उपाऽ२३४५ ॥ श्रीः। पवमानाभियर्षसि । इहा। उपाऽ२३४५ ॥ (त्रीणि । द्विः) ॥ पुनानोवारेपवमानोअव्यये। इहा। उपाऽ२३४५ ॥ वृषोअचिक्रदद्वने। इहा । उपाऽ२३४५ ॥ श्रीः ॥ वृषोअचिक्रदद्वने । इहा । उपाऽ२३४५। (त्रीणि । द्विः) देवानाꣳसोमपवमाननिष्कृतम् । इहा। उपाऽ२३४५ ॥ हाउहाउहाउवा । गोभिरञ्जानोअर्षसि । इहा । उपाऽ२३४५ ॥
दी. ३१. उत् . ५. मा. १३. ङि. ॥१०६।।


[सम्पाद्यताम्]

टिप्पणी

यज्ञ नमश्च त उप च यज्ञस्य शिवे संतिष्ठस्व स्विष्टे मे संतिष्ठस्वेति स यदतिरेचयति तन्नमस्कारेण शमयत्यथ यदूनं करोत्युप चेति तेन तदन्यूनं भवति - माश ११.२.३.९

अथ गोष्ठः शक्वरीणां च वा एष रेवतीनां च गोष्ठः। पशूनां धृत्यै गोष्ठः। ध्रियन्ते ऽस्मिन् पशवः। पशूमान् भवति य एवं वेद। प्रजापतिः पशून् असृजत। ते ऽस्मात् सृष्टा अपाक्रामन्। तान् प्रथमेनाह्नाविवारयिषत। तान् नावारयत। तान् द्वितीयेन नावारयत। तांस् तृतीयेन नावारयत। तांश् चतुर्थेन नावारयत। तान् पञ्चमेन नैवावारयत। तान् षष्ठे ऽहन्न् एतेनैव साम्नावारयत। सो ऽब्रवीद् गोष्ठो वाव म इदं पशूनां सामाभूद् इति। तद् एव गोष्ठस्य गोष्ठत्वम्। तद् एतत् पशव्यं साम गोष्ठः। ध्रियन्ते ऽस्मिन् पशवः। पशुमान् भवति य एवं वेद। तद् उ निषिद्धम् इव भवतीहा इळा इहा इळा इति। एतद् ध वा एनांस् तद् एतेन पुरस्ताद् वारयांचक्रे। - जै.ब्रा. ३.१५३

अङ्गिरस उपरि टिप्पणी