सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/क्षुद्रपर्व/चतुर्थीदशतिः/महावैराजे

विकिस्रोतः तः
महावैराजे

तवाहं सोम रारण सख्य इन्दो दिवेदिवे ।
पुरूणि बभ्रो नि चरन्ति मामव परिधीं रति तांइहि ।। ९२२ ।। ऋग्वेदः ९.१०७.१९
तवाहं नक्तमुत सोम ते दिवा दुहानो बभ्र ऊधनि ।
घृणा तपन्तमति सूर्यं परः शकुना इव पप्तिम ।। ९२३ ।।


६. महावैराजे ॥ इन्द्रः । बृहती । पवमानस्सोमः ।।

होइयाहोइयाहोइयाऽ३४३तव । अहाम् । सोमा । रारण (त्रिः) । तवाहꣲसो। मा। रारण (त्रिः) । (पञ्च-द्विः)। सख्यइन्दोदिवेदिवेपुरूणिबभ्रोनिचर । ताइ । मामव ( त्रिः )। (पञ्च-त्रिः ) ॥ परिधीꣲर । ताइ । ताꣲइहि (त्रिः) ॥ (पञ्च-त्रिः) । इयाहाउ (द्विः) ॥ इयतवमत्स्वाऽ३ । हाउवाऽ३ ॥ श्रीः ॥ होइयाहोइयाहोइयाऽ३४३ परि । धाइः । अताइ । ताꣲइहि (त्रिः) । परिधीꣲर। ताइ । ताꣲइहि ( त्रिः) ॥ (पञ्च-द्विः) । परिधीꣲरतिताꣲइहितवाहन्नक्तमुतसो। मा । तेदिवा (त्रिः) ॥ (पञ्च त्रिः) । दुहानोब । भ्राउ । ऊधनि ( त्रिः) ॥ (पञ्च-त्रिः) । इयाहाउ (द्विः) । इयपरिमत्स्वाऽ३ । हाउवाऽ३ ॥ श्रीः ॥ होइयाहोइयाहोइयाऽ३४३दुहा ।। नो । बभ्राउ । ऊधनि ( त्रिः ) ॥ दुहानोब। भ्राउ । ऊधनि ( त्रिः) ॥ (पञ्च द्विः) । दुहानोबभ्रऊधनिघृणातपन्तमतिसू । रा । यम्परः (त्रिः) । ( पञ्च-त्रिः ) ।। शकुनाइ । वा । पप्तिम । (त्रिः)। (पञ्च-त्रिः) । इयाहाउ । इयदुहमत्स्वाऽ३। हाउवाऽ३ ॥

दी. १५३. उ. ४. मा ७५. ढु ।।१८८।।



[सम्पाद्यताम्]

टिप्पणी

अथ निधनकामं वैराजम्। एवम् इव वै विराट् नैव स्वारं नैव निधनवन् नैवैळं नैवर्क्समम्। तद् वाङ्निधनं भवति। वाग् वै विराड्, विराज एवारम्भाय। विराजम् एवैतेन प्रत्यक्षम् आरभन्ते। तस्य हैतस्य निधन एव कामाः। स यं कामं कामयेत तं ध्यायेद्, एतस्य निधनम् उपावयन्। स हैवास्मै कामस् समृध्यते। यद् व् अस्य निधने कामास् तस्मान् निधनकामं वैराजम् इत्य् आख्यायते। देवा वै स्वर्गकामास् तपो ऽतप्यन्त। एतत् सामापश्यन् तेनास्तुवत्। ततो वै ते स्वर्गं लोकम् आश्नुवत। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। तस्यैतद् एव निधनं यम् एतं वैराजस्य स्तोत्रे ऽग्निं मन्थन्ति। तवाहं सोम रारणेति तवेति भवति बृहतो रूपम्। बार्हतम् एतद् अहः। सख्य इन्द्रो दिवेदिवे। पुरूणि बभ्रो नि चरन्ति माम् अव परिधींर् अति तं इहि॥ इत्य् अति ह्य् आयन्। तवाहं नक्तम् उत सोम ते दिवा दुहानो बभ्र ऊधनीतीमे ह वावोधनी। एते एवैतद् अभिवदत्य्, एते एवास्मै सर्वान् कामान् दुहाते। घृणा तपन्तम् अति सूर्यं पर इति सूर्यवतीर् भवन्ति। सौर्यं ह्य एतद् अहर् एकविंशं प्रतिष्ठा वैराजम्। शकुना इव पप्तिमेत्य् अति ह्य् अपतन्। - जैब्रा ३.६७